________________ पलंब 717 - अभिधानराजेन्द्रः - भाग 5 पलंब तएव दोषा ज्ञातव्या ये अभिन्ने भणिताः सविशेषतरा भवेयुः कथ-मित्याहविकुर्वन्ति तं चेटकाऽऽद्याभरणेनालङ्कृतं यदङ्गादानं तेन याः स्त्रियो भुक्तपूर्वास्तासां प्रव्रजितानां तत्र काष्ठादिसन्दानितप्रलम्बे विकुर्विताङ्गादानकल्पे दृष्ट समधिकतरा दोषा उपढौकन्ते। अथाऽर्थतः कारणिक सूत्रमुपदर्शयन्नाहविहिमिन्नं पिन कप्पइ, लहुओ मासो उदोस आणाई। तं कप्पती न कप्पइ, निरत्थगं कारणं किं तं ? ||257 / / यदपि सूत्रे विधिभिन्नमनुज्ञातं तदपि न कल्पते, यदि गृह्णन्ति ततो मासलघु, आज्ञाऽऽदयश्च दोषाः / आह- ननु सूत्रे भणितं-तद्विधिभिन्न कल्पते। गुरुराह- यद्यपि सूत्रे अनुज्ञातं तथाऽपि न कल्पते। यद्येवं तर्हि निरर्थक सूत्रम् / नैवम् / कारणिकं सूत्रम् / आह- किं पुनस्तत्कारण यदद्यापि नाभिधीयते? उच्यते-ब्रूमःगेलन्नद्धाणोमे, तिविहं पुण कारणं समासेण / गेलने पुवुत्तं, अद्धाणुवरिं इमं ओमे / / 258|| ग्लानत्वमध्वा अवमौदर्यमेतत् समासेन संक्षेपेण त्रिविधं कारणम्। तत्र ग्लानत्वे इहैव प्रलम्बप्रकृते "विज्जे पुच्छण जयणा'' इत्यादि-पूर्वोक्तं द्रष्टव्यम्। अध्वनितुउपरि अध्वसूत्रे इहैवोद्देशके भणिष्यते, इदमनन्तरमेव वक्ष्यमाणमवमे द्रष्टव्यम्। निग्गंधीणं भिन्नं, निग्गंथाणं च भिन्न भिन्नं तु। जह कप्पइ दोहं पी, तमहं वोच्छं समासेणं // 256 / / निर्गन्थीनां नियमाद्विधिना षष्ठे भङ्गे भिन्नं, निर्ग्रन्थानां चतुर्थतृतीययोभङ्गयोः भिन्नमभिन्नं वा यथा द्वयोरपि वर्गयोः कल्पते तदहं वक्ष्ये समासेन। यथाप्रतिज्ञातमेव निर्वाहयतिओमम्मि तोसलीए, दोण्ह वि वग्गाण दोसु खेत्तेसु। जयणट्ठियाण गहणं, भिन्नाभिन्नं च जयणाए।।२६०।। अवमकाले साधवः साध्व्यश्च तोसलिविषयं गत्वा स्थिताः, तत्र द्वावपि वर्गोद्वयोः क्षेत्रयोः स्थितौ, एकस्मिन् क्षेत्रे संयताः द्वितीयस्मिन् संयत्य इत्यर्थः / तथा यदुत्सर्गत एकत्र क्षेत्रे मिलितौ नावतिष्ठते एषैव यतना, तया स्थितौ यतनास्थितौ / यद्वा-साधुसाध्वीप्रायोग्य विधिंग्राहयित्वा यौ स्थितौ तौ यतनास्थितौ, तयोरेवं स्थितयोर्यतनया वक्ष्यमाणभिन्नस्याभिन्नस्य वा ग्रहणं कल्पते। आह- कोऽयं नियमो येन तोसलेरेव ग्रहणं कृतम् ? उच्यते - आणुवऽजंगलदेसे, वासेण विणा वि तोसलिग्गहणं / पायं च तत्थ वासति, पउरपलंबो अ अन्नो वि॥३६१।। देशो द्विधा- अनूपो, जङ्गलश्च। नद्यादिपानीयबहुलो अनूपः, तद्विपरीतो जङ्गलः, निर्जल इत्यर्थः / यथा अनूपोऽजङ्गल इति पर्यायौ, तत्रायं तोसलिदेशो यातोऽनूपो, यतश्चास्मिन् देशे वर्षणं विनापि सारणीपानीयैः सस्यनिष्पत्तिः / अपरं चतत्र तोसलिदेशे प्रायो बाहुल्येन वर्षति, ततोऽतिपानीयेन विनष्टसु सस्येषु प्रलम्बोपभोगो भवति। अन्यच्चतोसलिः प्रचुर- | प्रलम्बः / तत एतैः कारणैस्तोसलिग्रहणं कृतम्। अन्योऽपि य ईदृशः प्रचुरप्रलम्बस्तत्राप्येष एव विधिः / पुच्छ सहुभीयपरिसे, चउथउ भंगे पढमएँ अणुम्नाओ। सेसतिए नाऽणुन्ना, गुरुगा परियट्टणे जं च // 262 / / पृच्छति-यदुक्तं भवद्भिर्द्वयोः वर्गयोः क्षेत्रद्वयस्थितयोरित्यादि, तत्र संयतीना पृथक् क्षेत्रे स्थिताना व्यापारो वोढु दुःशको भवति, दोषदर्शिनश्च यूयं पृथक् क्षेत्र स्थापयत, यतश्च दोषाः समुत्पद्यन्तेतत्प्रेक्षावतां नोपादातुमुचितम्, प्रभुवचने च तत्र तत्र प्रदेशे संयत्यः प्रव्राजनीया उक्ता एव, अतः पर्यनुयुज्यते- किं परिवर्तयितव्याः संयत्यः, उत नेति ? गुरुराहनास्त्यत्र कोऽपि नियमो यदवश्यमेव परिवर्तयितव्या न वेति / यदि पुनः प्रव्राज्य न्यायतः परिवर्त्तयति ततो महतीं कर्मनिर्जरामासादयति / अथान्यायतः परिवर्त्तयति ततो महामोहमुपचित्य दीर्घसंसारसंपातभाग्भवति / तर्हि कीदृशेन परिवर्तयितव्याः? उच्यते (सहुभीयपरिसे त्ति) सहिष्णुभीतपर्षदि पदद्वयेन चतुर्भङ्गी। सा चेयम्-सहिष्णुरपि भीतपरिषदपि 1, सहिष्णुर्न भीतपरिषत् 2, असहिष्णुः परं भीतपरिषत् 3 असहिष्णुरभीतपरिषञ्चेति तत्रेन्द्रियनिग्रहसमर्थः संयतीप्रायोग्यक्षेत्रवस्त्रपात्राऽऽदीनामुत्पादनायो प्रभविष्णुः सहिष्णुरुच्यते, यस्य तु सर्वोऽपि साधुनाध्वीवर्गो भयान्न कामप्यक्रियां करोति स भीतपरिषत्, तत्र प्रथमभङ्गेषु वर्तमानो नानुज्ञातः, यदि परिवर्त्तयति तदा चत्वारो गुरुकाः। (जं च ति) द्वितीयभङ्गे आत्मना सहिष्णुः परमभीतपरिषत्तया स्वच्छन्दप्रचाराः सत्यो यत् किमपि ताः करिष्यन्ति तत्सर्वमयमेव प्राप्रोति / तृतीयभङ्गे तु स्वयमसहिष्णुतया तासामङ्गप्रत्यङ्गाऽऽदीनि दृष्ट्वा यदाचरतितन्निष्पन्नम्। चतुर्थे भने द्वितीयतृतीयभङ्गदोषानेव प्राप्नोति। प्रथमभङ्गवर्त्तिनमुद्दिश्याऽऽहजइ पुण पव्वावेत्ती, जावजीवाएँ ताओं पालेइ। अन्नासति कप्पे विहु, गुरूगा जं निज्जरा विउला / / 263 / / यदीत्यभ्युपगमे, ततश्चायमर्थः-ताः प्रथमतोऽपि यतस्ततः प्रव्राजयितु न कल्पते,यदि पुनः प्रव्राजयति ततो यथोक्तविधिना यावजीवं ताः पालयति, योगक्षेमविधानेन सम्यक् निर्वाहयतीत्यर्थः / स प्रथमभङ्गवर्ती यदि जिनकल्पं प्रतिपित्सुरपरं चाऽऽर्यिकाः परिवर्त्तयिव्याः, ततः किं करोतु ? इति चिन्तायां यद्यस्ति तदीये गच्छे कोऽप्यार्यिकाणां विधिना परिवपिकस्ततस्तस्य समर्प्य जिनकल्पं प्रतिपद्यताम्। अथ नास्त्यन्यो वर्तापकस्तर्हि मा जिनकल्पप्रतिपत्तिं करोतु, किं त्वार्यिका एव परिवतयतु / कुत इत्याह-अन्यस्य वर्तापकस्यासत्यभावे जिनकल्पेऽपि प्रतिपद्यमाने, हुनिश्चये, चत्वारो गुरुकाः / आह-सकलकर्मक्षयकारणे जिनकल्पेऽपि प्रतिपद्यमाने किमेवं प्रायश्चित्तमाह-यद्यस्मात्कारणाजिनकल्पं प्रतिपन्नस्य या निर्जरा, तस्याः सकाशाद्विपुला निर्जरा यथावत् संयती परिपालयतो भविष्यतीति युक्तियुक्तमेव प्रायश्चित्तम्। अथ 'जयणट्ठियाण गहणं' इति यदुक्तं तत्र यया यतनया स्थितास्तामाहउभयगणी पेहेऊ, जइ सुद्धं तत्थ संयती णेति।