________________ पलंब 706 - अभिधानराजेन्द्रः - भाग 5 पलंब पतितेऽपि काष्ठाऽऽदौ प्रकारः प्रतिपत्तव्यः केवलम् (निक्कपे चेव भोमाई ति) तत्काष्ठाऽऽदिकं महता भारगौरवेण "निकं पं निस्सह'' पृथिव्या यन्निपतति तेन भूम्यादीनां पृथिव्यादीनां महती विराधनेति चूर्णिकृदभिप्रायः / निशीथचूर्णिणकाराऽभिप्रायेण तु 'निळपे चेव भूमीए" इति पाठः / अस्य व्याख्यायस्यां भूमौ स्थितः काष्ठाऽऽदिक्षेपणाय विशिष्ट स्थानबन्धमध्यास्ते तत्राऽपि पादयोर्निष्कम्पत्वेन षण्णां कायानां विराधको भवति। एवं दव्वतों छण्णं, विराघओ भावओ उ इहरा वि। चिन्नइ हु धणं कम्म, किरियग्गहणं भयनिमित्तं / / 105 / / एवमेतेन प्रकारेण चतुर्ध्वप्यप्राप्ताऽऽदिपदेषु द्रव्यतः षण्णां कायानां विराधकः प्रतिपत्तव्यः, भावतस्तु इतरथाऽपि द्रव्यतो विराधना विनाऽप्यसौ षट्कायविराधको लभ्यते, संयम प्रति निरपेक्षतया तस्य भावतः प्राणातिपातसद्भावात् / भावप्राणातिपाते च यथा घनं निविड कर्म चीयते न तथा द्रव्यप्राणातिपातेन / आह-यदु-क्तम्-पञ्चभिः क्रियाभिः स्पृष्टरतत्कथं संवादमश्नुते, यावता यदि निवारयति तदा कायिकी अधिकरिणिकी च क्रिये संभवतः, अथ विराधयति तदेताश्चतस्रो भवेयुः, प्रादेषिकी पुनः कथं भवेत् ? सूरिराह-क्रियाग्रहण भयनिमित्तं भयजननार्थ क्रियते येन साधवः क्रियापञ्चकाऽऽपत्तिदोषभीता मूलत एव प्रलम्बग्रहणे न प्रवर्त्तन्ते। यद्वा-दृष्टिवादनयाभिप्रायनैपुण्यात् यत्रैका क्रिया तत्र पञ्चापि क्रियाः संभवन्तीति नदोषः। यदाह निशीथचूर्णिणकृत "अहवा अत्थ एगो किरिया तत्थ दिट्टिणयनयसुहुमत्तणओ पंच किरियाओ भवति, अतो पंचकिरियागहणे न दो सा।" एवं तावत्संयमविराधना भाविता। (3) अथाऽऽत्मविराधनां भावयतिकुवणउ पत्थर लेट्ठू, पुव्वं छूढे फले व पवडते / पञ्चप्फालणें आया, अच्चायामेण हत्थाऽऽई॥१०६।। अन्येन केनचित्प्रलम्बार्थिना पूर्वं (कुवणउत्ति)लगुडः क्षिप्तः, स तत्रैव वृक्षशाखायां विलग्नः सन् वायुप्रयोगेण, विवक्षितसाधुक्षिप्तकाष्ठाऽऽदिप्रयोगेण वा सञ्चालितस्तस्यैव सा धोरुधरि निपतन विराधना कुर्यात्, एवं प्रस्तरः पाषाणो, लेष्टुरिष्टकाशकलं, मृत्तिकापिण्डो वा पूर्व क्षिप्तः पतेत्. फलं वृन्तच्युतं वृक्षात्प्रपतेत्, तस्यैव काष्ठाऽ देः प्रतिनिवृत्तस्वस्वसंमुखं प्रत्यास्फालने आत्मविराधना भवेत्, अत्यायामेन चातीव हस्तमुच्छ्रयाणेन लगुडाऽदौ क्षिप्यमाणे हस्ताऽऽदेः परितापना भवेदिति / गत क्षेपणद्वारम्। अथाऽऽरोहणाखिवणेऽवि अपावंतो, दुरुहइ तहिँ कंटविच्छु अहिमाई। पक्खितरच्छाइवहो, देवत खित्ताऽऽइकरणं च / / 107 / / तत्थेव य णिट्ठवणं, अंगेहिँ समोहएहिँ छक्काया। आरोवण सच्चेव य, गिलाणपरितावणाऽऽईया।।१०८।। काष्ठाऽऽदेः क्षेपणे कृतेऽपि यदा प्रलम्बानि न पतन्ति तदाऽधः स्थितस्तान्यप्राप्नुवन्नलभमानस्तं वृक्षं (दुरुहइत्ति) आरोहति, स च यावद्धि बहुक्षेपकैरारोहति तावन्ति चतुर्लघुकानि, अगन्ते पुनश्च जुर्गरुकाणि, तत्र वृक्ष आरोहतो यत्कण्ट कैर्विध्यते, यच वृश्चिकेन अहिना वा, आदिशब्दानकुलाऽऽदिना वा दश्यते, यच पक्षिभिः श्येनाऽऽदिभिग्तर दवादिभिश्वाटव्यजीवेर्बधो भवति, यया वा देवतया अधिष्ठितोऽसौ वृक्षस्तया यदसौ साधुः क्षिप्तचित्तः क्रियते / आदिग्रहणेनापरया कयाचिद्विडम्बनया विडम्ब्यते / यद्वा-सा देवता स्वाधिष्ठितवृक्षाऽऽरोहा कुपिता तत्रैव निष्ठापनम् आयुषः समापन तस्य यत् कुर्यात् / अथवा-तं साधुमारोहन्तमेव यत्पातयेत् एषा सर्वाऽऽप्यात्मविराधना, पातितरच च तस्याङ्गानि समवहन्यन्ते, भज्यन्त इत्यर्थः / तैरङ्गैर्हस्तपादाऽऽदिभिः समवहतैर्यत्रभूमावसौ पतति तत्र षट्काया विराध्यन्ते, तेषां च संघटनाऽऽदिभिरारोपणा सैव द्रष्टव्या। या 'छकायचउसु लहुगा'' इत्यादिगाथायामुक्ता आत्मविराधना, या च ग्लानविषया परितापनाऽऽदिनिष्पन्नाया आरोपणा, साऽपि प्राग्वदवसातव्या। गतमारोहणद्वारम्। (4) अथ पतनद्वारमाहमरणगिलाणाऽऽईया, जे दोसा होंति गेण्हमाणस्स। ते चेव य साऽऽरुवणा, पवडते होंति दोसा उ||१०६।। कदाचिदसौ तं वृक्षमारोहन् पतेत्, ततश्च मरणग्लानत्वाऽऽदिका ये दोषा आरोहतो भवन्ति, प्रपततोऽपि त एव दोषाः साऽऽरोपणाः सप्रायश्चित्तनिरवशेषा वक्तव्याः। ''पवडते होति सविसेसा'' इति निशीथचूर्णिलिखितपाठः / तत्रायमर्थः आरोहतो दोषाणां संभव एव भणितः, एतत् पुनरवश्यंभाविनो गात्रभङ्गाऽऽदयो दोषा इति सातिशेषग्रहणम् / गत पतनद्वारम्। (5) अथोपधिद्वारं विवृणोतितम्मूल उवहिगहणं, पंतो साहूण कोइ सव्वेसिं / तणअग्गिगहण परिता-वणा य गेलन्न पडिगमणं / / 110 // यस्य परिग्रहे तानि प्रलम्बानि तन्मूलं च ग्रहणनिमित्तं, तस्यैव साधोरुपधिग्रहणं कुर्यात् / यद्वा-कश्चित् प्रान्तः सर्वेषां साधूनामुपछि गृह्णीयात्। तत्र यथा जाते रजोहरणाऽऽदिके उपधौ हृतं मूलं, शेषे पुनरुत्कृष्ट चतुर्लघु, मध्यमे मासलघुजघन्ये पञ्चकम्, उपधिं विना तृणानि गृह्णीयात्, अग्निग्रहणं वा कुर्यात्, अग्नि सेवेतेति भावः। अथाग्नि न सेवते ततः शीतेन परितापः तस्य भवेत्, शीतेन वा भुक्ते अजीर्यमाणे ग्लानत्वं भवेत् शीताभिभूता वा साधवः पार्श्वस्थाऽऽदिषु प्रतिगमनं कुर्युः। संप्रत्यत्रैव प्रायश्चित्तमाहतणगहण अग्गिसेवण, लहुगा गेलण्ण होइ तं चेव। मूलं अणवठ्ठप्पो, दुग तिग पारंचिओ होइ।।१११।। अशुषिरतृणानि गृह्णीयात् चतुर्लघु, परकृ तमग्निं सेवते चतुर्लघु अभिनवमग्रिं जनयति मूलम्, अग्निशकटिकायां वा तापयन् यावतो वारान् हस्त वा संचालयति तावन्ति चतुर्लघूनि,यस्तु धर्मश्रद्धालुग्निं न सेवते स शीतेन ग्लानः सजायते, ग्लानत्वे चाऽनागाढपरितापनाऽऽदी तदेव प्रायश्चित्तम्। अथ शीतपरीषहमसहिष्णुः पार्श्वस्थाऽऽदिषु व्रजति चतुर्गुरु, यथा छन्देषु व्रजति चतुर्गुरू / यद्येकोऽवधावति अन्यतीर्थिकषु वा गति ततो मूलं, द्वयोरनवस्थाप्यं, त्रिषु पाराशिकम् / गलमुपधिद्वारम् /