________________ पलंब 707- अभिधानराजेन्द्रः - भाग 5 पलंब (6) अथोड्डाहद्वारं विवृणोतिअपरिग्गहिएँ पलंबे, अलभंतों समणजोगमुक्कधुरो। रसगेहीपडिबद्धो, इतरे गिण्हतो गहिओ य॥११२।। अपरिगृहीतानि प्रलम्बान्यलभमानः श्रमणयोगमुक्तधुरः परित्यक्तश्रमणव्यापारभार इति भावः / रसगृद्धिप्रतिबद्धः, इतराणि परिगृहीतप्रलम्बानि गृह्णन् प्रलम्बस्वामिना दृष्ट्वा गृहीतः। ततश्च महजणजाणणया पुण, सिंघाडगतिगचउक्कगामेसुं। उड्डहिऊण विसज्जितें, महजणणाए ततो मूलं / / 113 / / तेन प्रलम्बस्वामिना गृहीत्वा शृङ्गाटकत्रिकचतुष्करथानेषु ग्रामेषु वा | बहुगु नीत्य महाजनस्य पौरजनपदरूपस्य ज्ञापना कृता / यथा-एतेन नदीयानि प्रलम्बानि चोरितानीत्यादि महाजनस्य पुरत उड्डाहात् विसर्जिलो मुक्तस्तत एवं महाजने ज्ञाते सति मूलं नाम प्रायश्चित्तम् / कथमुद्दग्ध इत्याहएस उपलबहारी, सहोढ गहिओ पलंबठाणेसु। सेसाण वि बाधाओ, सविहोढविडंबिए होइ॥११४।। येनाऽऽरामाधिपतिना संप्रलम्बानि गृह्वानो गृहीतः, स रासभाऽऽरोपितं शृङ्गाटकत्रिकचतुष्काऽऽदिषु सर्वतः परिभ्रामयन्नेवमुद्धोषयतिभा भोः पौराः श्रूयतामस्य प्रव्रजितकस्य दुश्चरितम्-एष प्रलम्बहारी मदीयाऽऽरामसत्कप्रलम्सचौरः सहोढः सोपलब्धो गृहीतो, मया दुरात्मा प्रलम्बस्थानेष्वा रामप्रदेशेविष्वत्यादिघोषणापुरस्सरमितश्च नीयमानो महाजनेन सखेदमवलोक्यमानः स कृतेन कर्मणा विडम्व्यते / ततश्च सविहोर्ट सजुप्सनीयं यथा भवतीत्येवं विडम्च्यते, तस्मिन शेषाणामपि साधूनां व्याघातः-सर्वेऽप्यमी एवंविधा एवेति प्रभापरिभ्रंशो भवतीति व्याख्यातमुड्डाहद्वारम्। तह्याख्याने च समर्थिता 'अन्नत्थ तत्थ गहणे' इत्यादि-द्वारगाथा / अथ यदुक्तमधस्तात्- "आणाऽणवत्थमिच्छा, विराहणा कस्स गीयत्थो / ' तदिदानीं प्राप्तावसरं व्याख्यायते - तत्राऽऽझेतिद्वारं भगवता प्रतिषिद्धं यत्प्रलम्बन कल्प्यते तद्ग्रहणं कुर्वता भगवतामाज्ञाभङ्गः कृतो भवति, तम्मिश्चाऽऽज्ञाभङ्गे चतुर्गुरुकाः / वृ०१ उ०२ प्रक०। (आज्ञाद्वारम् आणा' शब्दे द्वितीय-भागे 121 पृष्ठे गलम्) | (7) अथानवस्थाद्वारमाहएगेण कयमकन्जं, करेइ तप्पच्चया पुणो अन्नो। सायाबहुल परंपर, वोच्छेदो संजमतवाणं / / 123 / / एकेन केनचिदाचार्याऽऽदिना किमप्यकार्य प्रमादस्थानं कृतं प्रतिसेवितं, ततोऽन्योऽपि तत्प्रत्ययादेव आचार्याऽऽदिः श्रुतधरोऽप्येवं करोति, नूनं नास्त्यत्र दोष इति तदेवाकार्य करोति, ततोऽपरोऽपि तथैव करोति, तदन्योऽपि तथैवेत्येवं सातबहुलानां सातगौरवप्रतिबद्धानां प्राणिनां परम्परया प्रमादस्थानमा-सेवमानानां संयमतपसो व्यवच्छेदः प्राप्नोति, यद्धि संयमस्थानं वा पूर्वाऽऽचार्येण सातगौरवगृध्नुतया वर्जित तत्पाश्चात्यैरदृष्टमिति कृत्वा व्यवच्छिन्नमेवेति। गतमनवस्थाद्वारम। (8) अथ मिथ्यात्वद्वारं विवृणोतिमिच्छत्ते संकाऽऽई, जहेय मोसिं तहेव सेसं पि। मिच्छत्ते थिरीकरणं, अब्भुवगमें वारणमसारं / / 12 / / मिथ्यात्व विचार्यमाणे शङ्काऽऽदयो दोषा वक्तव्याः / शङ्का नाम-किं मन्ये अमी यथा वादिनस्तथा कारिणो न भवन्ति, येन प्रलम्बानि गृह्णन्ति, आदिशब्दात्काक्षादयोदोषाः। तथा यथैतदनृतं, तथैव शेषमन्यदप्येतेषा मिथ्यारूपमेवेति चित्तविप्लुतिः स्यात्, मिथ्यात्वाद्वा चलितभावस्य राम्यक्वाभिमुखस्य प्रलम्बग्रहणदर्शनात् पुनरपि मिथ्यात्वे स्थिरीकरण भवति, अभ्युपगमं वा प्रव्रज्यायाः अणुव्रतानां वा, सम्यग दर्शनस्य वा कर्तुकामस्यापरः कश्चिद्वारण कुर्यात्-नैतेषां समीपे प्रतिपद्यस्व असारं निस्सारममीषा प्रवचनं मयेदं च दृष्टमिति / गतं मिथ्यात्वद्वारम्। (E)अथ विराधना। सा च द्विविधा-संयमे, आत्मनि च। द्वे अपि प्रागेव सप्रपञ्च भाविते, तथाऽपि विशेषमुपदर्शयितुमाहतं काय परिचयई, नाणं तह दंसणं चरित्तं च / वीयाऽऽईपडिसेवग, लोगो जह तेहिं सो पुट्ठो।।१२।। प्रलम्बं गृह्णन्तं तं कायं वनस्पतिलक्षणं परित्यजति, तथा-ज्ञानं दर्शन चारित्रं चेति बीजाऽऽदिप्रतिसेवको लोको यथा असंयमेन स्पृष्टः, तथा सोऽपि साधुस्तैः प्रलम्बैरासेवितैरसंयमेन स्पृष्ट इति नियुक्तिगाथाsक्षरार्थ। अथैनामेव विवरीषुराहकायं परिच्चयंतो, सेसे काए वए य सो चयई। णाणे णाणुवदेसे, अवट्टमाणो उ अन्नाणी // 126 / / प्रलम्बानि गृह्णानो वनस्पतिकार्य परित्यजति, तंच परित्यजन् शेषानपि कायानसौ भावतः परित्यजति, तत्परित्यागे च प्रथमव्रतपरित्यागः, प्रथमव्रतपरित्यागे च शेषव्रतपरित्यागोऽप्युपजायत इति व्रतान्यप्यसौ परित्यजतीत्युक्तम्। तथा ज्ञाने ज्ञानविषये परित्यागे चिन्त्यमाने ज्ञानोपदेशे क्रियाद्वारेणावर्तमानोऽसौ ज्ञान्यपि अज्ञानी मन्तव्यः। दंसणचरणा मूढस्स, नत्थि समया व नत्थि संमं तु / विरईलक्खण चरणं, तदभावे नत्थि वा तं तु // 127 / / ज्ञानाभावादसौ मूढो भवति, मूढस्य दर्शनचारित्रे न स्तः / यद्वाप्रलम्बग्रहणादस्य जीवेषु समतान विद्यते, समताया अभावाच सम्यक्तमपि नास्ति, तस्यापि सामायिकभेदतया समतारूपत्वात् विरतिलक्षण चरणं भणितं, तच लक्षणं प्रलम्बानि गृह्णतोन विद्यते, तदभावे लक्षणाभावे तत्तु तत्पुनश्चारित्रं नास्ति, वाशब्दः प्रकारान्तरद्योतकः / अथ 'बीयाई" इत्यादि व्याख्यायतेफलाद्वीजं भवतीति कृत्वा बीजग्रहणम्। आदिशब्दारफलपुष्पपत्रप्रवालशाखात्वक स्कन्धकन्दमूलानि गृह्यन्ते / शिष्यः प्राऽऽहसर्वेऽपि वनस्पतयः मूलादेव एव भवन्ति, अतो 'मूलाई पडिसेवग' इति कर्तुमुचितं किमिति "बीयाई पडिसेवग" इति कृतम् ? सूरिराहपाएण बीयभोई, चोयग ! पच्छाऽणुपुटिव वा एवं !