________________ पलंब 705 - अभिधानराजेन्द्रः - भाग 5 पलंब षयो वा आज्ञप्तः, ततोऽपद्रावणे निर्विषये वा कृते पाराञ्चिकम् / अथवाएकस्यानेकेषां वा साधूनामुपरि प्रदेषं यदि व्रजति तदा पाराञ्चिकम् / अत्र चद्वयोरुद्दहनव्यङ्गनयोरनवस्थाप्यो भवति, द्वयोश्वापद्रावणनिर्विषययोः पाराञ्चिक इति। अथ परिग्रहविशेषेण प्रायश्चित्तविशेषमाहआरामें मोलकीए, परतित्थिय भोइएण गाम वणी। घडकोडुं वियराउल-परिग्गहे चेव भद्वितरा ||7|| इहाऽऽरामः कश्चिदादित एवाऽऽत्मीयो वा भवेत, मूल्येन क्रीतो वा, यो / मूल्येन क्रीतः स केन क्रीती भवेत् ? उच्यते परतीर्थिकन वा 1, भोगिकेन वा 2, ग्रामेण वा 3, वणिजा वा 4, घटया वा, गौष्ट्या इत्यर्थः 5, कौटुम्बिकेन वा 6, आरक्षिकेण वा 7, राज्ञा वा 8 / एतद् द्वयमपि राजकुलशब्देन गृहीतम् / एतेषां परिग्रहे वर्तमानादारामात्प्रलम्बानि गृह्णतो यथाक्रमं प्रायश्चितं चतुर्लघु 1, चतुर्गुरू २,षड्लघु 3, षड्गुरु 5, छेदा 5 मूलम् 6, अनवस्थाप्यं 7, पाराञ्चिकम् / अत्रापि त एवं भद्रेतरा भद्रकप्रान्तकृता अनुग्रहप्रतिषधाऽऽदयो दोषा वक्तव्याः / एतत्सर्वमयाचिते प्रलम्बे द्रष्टव्यं, याचिते तु ग्रहणाऽऽकर्षणाऽऽदिदोषान् विना शेषमिति / एतावता वृक्षस्याधः प्रपतितमचित्तं व्याख्यातम्। अथसचित्ताऽऽदिद्वारचतुष्टयमभिधित्सुराहएमेव य सचित्ते, छुमणा अरोहणा य पडणा य। जं इत्थं नाणत्तं, तमहं वोच्छं समासेणं / / 6|| यथा-अचित्ते "दिव संका" (56) ग० / इत आराभ्य "आरामे मोल्ल०" (67) ग० / इतिपर्यन्तं भणितम् / एवमेव सचित्तेऽपि द्रष्टव्यम्। प्रक्षेपणमारोहणं पतनमित्येतान्यपि द्वाराणि तथैव वक्तव्यानि यत्पुनरत्र नानात्वं विशेषस्तदहं वक्ष्ये समासेन। तत्र सचित्ते तावद्विशेषमाहतं च सचित्त दुविहं, पडियापडियं पुणो परित्तियरं / पडितऽसति अपावंते, छुभई कट्ठाइए उवरि ||6|| तत्पुनः सचित्तं द्विविधम्-पतितमपतितं च। पुनरेकैकं च द्विधा-परीत प्रत्येकम्, इतरत् अनन्तं च / अत्र पतितस्यासत्यभावे वृक्षप्रतिष्ठितेऽपि हस्ताऽऽदिना अप्राप्यमाणे ततः प्रलम्बपातनार्थ काष्ठाऽऽदीन्युपरि क्षिपति। तत्र यद् वृक्षोपरि स्थितं भूमिस्थितो हस्तेन गृह्णाति,तत्र प्रायश्चित्तमाहसजियपयट्ठिएँ लहुगो, सजिए लहुगा य जत्तिया गाहा। गुरुगा होति अणंते, हत्थप्पत्तं तु गेण्हते॥१००। सजीववृक्षप्रतिष्ठितमचित्तफलं गृह्णाति मासलघु, अत्र च यावतो ग्राहान् करोति तावन्ति मासलघुकानि। अथ सजीवं सचित्तवृक्षप्रतिष्ठितंगृह्णाति चतुर्लधु, सचित्तप्रतिष्ठितप्रत्ययं च मासलघु, तत्रापि यावतो ग्राहान् करोति तावन्ति चतुर्लघूनि, मासलघूनि च, एतत्प्रत्येके भणितम्। अनन्ते पुनरेतान्येव प्रायश्चितानि गुरुकाणि, मासगुरुचतुर्गुरुरूपाणि भवन्ति, एवं भूमिस्थितस्य वृक्षस्थितं हस्तप्राप्त प्रलम्बं गृह्णतः प्रायश्चित्तमुक्तम् / अथ यदुक्तम् - "छुभई कट्ठाईए उवरि ति" तदेतद्विवरीषुराह छुभमाण पंचकिरिए, पुढवीमाई तसेसु तिसु चरिमं / तं काय परिचयई, आवडणे अप्पगं चेव / / 101 / / प्रलम्बपातनार्थ काष्ठलेष्टुशुष्कंगोमयाऽऽदिकं गवेषयति चतुर्लघु, काष्ठाऽऽदिकं लब्ध्वा वृक्षाभिमुखं क्षिपति, चतुर्लघव एव / स च क्षिपन्नेव पञ्चक्रियः पञ्चभिः क्रियाभिः स्पृष्टः / तद्यथा-कायिक्या 1, आधिकरिणिक्या 2, प्रादेषिक्या 3, पारितापनिवया 4, प्राणातिपातिक्रियया चेति 5 / पृथिव्यादिषु च जीवेषु संघट्टनापरितापनाऽपद्रावणैर्लघुमासाऽऽदिक प्रायश्चित्तं यथास्थानं ज्ञातव्यम्। (तसेसु तिसु चरिमं ति) त्रिषु पञ्चेन्द्रियरूपेषुत्रसेषु व्यपरोपितेषु चरम पाराशिकम्। तथा काष्ठाऽऽदिकं क्षिपन तं कायं वनस्पतिलक्षणं नियमादेव परित्यजति, स च लगुडाऽऽदिरूद्ध क्षिप्तः शाखाऽऽदौ प्रतिस्खलान्निवृत्तस्तस्यैव शरीराभिमुखमायाति तस्यापतना / आत्मानं परित्यज्यतीति। कथं पुनः पृथिव्यादिकायानां विराधको भवतीति ? उच्यतेपावंते पत्तम्मि उ, पुणो पडते य भूमिपत्ते य। रयवासविज्जुमाई, वायफले मच्छिगाइ तसे // 102 / / तत् काष्टाऽऽदिकं हस्ताच्च्युतं सत् याववृक्षेनाऽऽस्फालति, तावत्प्राप्नुवत् भण्यते, तस्मिन् प्राप्नुवति तथा वृक्ष प्राप्ते पुनः पतति च भूमिप्राप्ते च षट्कायविराधना ज्ञातव्या / कथमिति चेदित्याह-(रय इत्यादि) आदिशब्दः प्रत्येकंसंबध्यते। ततश्च रजःप्रभृतिकं पृथिवीकार्य, वर्षोदकाऽऽदिकमकाय, विद्युदादिक तेजःकाय, वातं च तत्रैव वान्त, फलानि तस्यैव वृक्षस्य सत्कानि, उपलक्षणत्वात्पत्राऽऽदीन्यपि, मक्षिकाऽऽदीश्च त्रसान् विराधयति। इदमेव स्पष्टयन्नाहखोल्लतयाईसु रओ, महिवासोस्साऽऽइ अग्गि दवदड्डे। तत्थेवऽनिल वणस्सइ, तसा उ किमिकीडसउणाई॥१०३।। "खोल्लं ति" देशीशब्दत्वात् कोटरं, त्वक् प्रतीता, तदादिषु स्थानेषु वृक्षे रजः प्रभृतिकं पृथिवीकायविराधना, महिकायां निपतन्त्यां वर्षे, अवश्याये वा निपतति, आदिग्रहणेन हरतन्तुकाऽऽदिसंभवे अप्कायविराधना च, दवाऽऽदिनाऽग्रिना दग्धे वृक्षे, उपलक्षणत्वात् विद्युति वाऽग्निकायविराधना, तत्रैवानौ नियमादनिलो वायुः संभवतीति वायुकायविराधना, वनस्पतिः स एव प्रलम्बलक्षणः पत्रपुष्पाऽऽदिच त्रसास्तु कृमिकीटशकुनाऽऽदिका विराध्यन्ते, कृमयो विष्ठाऽऽदिसमुद्भवाः, कीटिका घुणाऽऽदयः शकुनाः काककपोताऽऽदयः, आदिग्रहणेन सरटाऽऽदिपरिग्रहः / एवं वृक्षमप्राप्ते काष्ठाऽऽदौ षट्कायविराधना, एवमेव प्राप्ते पुनः पतिते भूमि प्राप्तेऽपि ज्ञातव्यम्। यत आहअप्पत्ते जो उगमो, सो चेव गमो पुणो पडतम्मि। सो चेव य पडियम्मी,निकंपे चेव भोमाऽऽई॥१०४।। य एवाप्राप्ते गमः प्रकार: स एव गमः पुनः पतति, उपलक्षणत्वात्प्राप्ते ऽपि भूयो गमः, एवशब्दो चारणं षट् कायविराधनां प्रतीत्याऽऽत्यन्तिक तुल्यताख्यापनार्थम् / स एव च भूमी