________________ पलंब 704 - अभिधानराजेन्द्रः - भाग 5 पलंब रणम् 5 इति पञ्च भेदाः / ग्रहणाऽऽकर्षणव्यवहारपश्चात्कृतोड्डाहनिर्विषय | इत्येक एवषष्ठो भेदः / इति संग्रहगाथासभासार्थः / अथैनामेव विवरीषुराहजं गहियं तं गहियं, बिइयं मा गिण्ह हरइ वा गहियं / जायसु ममं व कज्जे, मा गिण्ह सयं तु पडिसेहो // 88|| यद् गृहीतं प्रलम्ब तद्गृहीतं नाम द्वितीय पुनरि मा गृहीरिति वयन यद्वक्ति, यद्वा-गृहीतं सत्प्रलम्बं तस्य प्रव्रजितस्य हस्तात् हरति उद्दालयति, भणति वा कार्य समापतिते मामेव याचस्व, स्वयं पुनर्मा गृहाणेत्येष सर्वोऽपि प्रतिषेध उच्यते। अथ खरण्टनामाहघी मुंडितो दुरप्पा, धिरत्थु ते एरिसस्स धम्मस्स।। अन्नत्थ वा विलजिसि, मुक्कोऽसि खरंटणा एसा / / 8 / / धिग् मुण्डितो दुरात्मा, धिगस्तु ते तव संबन्धिन ईदृशस्य धर्मस्य, यत्र चौर्य क्रियय इति भावः / यद्वा-मया मुक्तोऽसि परमन्यत्रापि त्वमीदृशैश्चेष्टितैर्विडम्बना लप्स्यसे, एषा निष्पिपासनिर्भर्सना खरण्टना भण्यते। उपालम्भमाहआमफलानि न कप्पं-ति तुम्ह मा सेसए वि दूसेहि। मा य सकले मुज्झसु, एमाई होउवालंभो / / 60|| आम्रफलानि युष्माकं ग्रहीतुं न कल्पन्ते, अतः शेषानपि साधून मा दूषय निजदुश्चरितेन सकलङ्कितान् कुरु, मा च स्वकार्य निरवद्यप्रवृत्यात्मके चारित्रे मुहः, एवमादिक: सपिपासशिक्षारूप उपालम्भो भवति। प्रान्तापनोपधिहरणे भावयतिकरपायदंडमाइसु,पंतावणि गाढमाइ जा चरिमं / अप्पो अ अहाजाओ, सव्वो दुविहो विजं च विणा !||1|| करपाददण्डाऽऽदिभिः, आदिशब्दात लताऽऽदिभिश्च ताडनं प्रतापना, तस्यां चानागाढपरितापाऽऽदिषु चरमं पाराश्चिकं यावत्प्रायश्चित्तम्। अल्पं वा बहुं वा स उपधिं हरेत् / अल्पो नाम यथा-जातः, निषद्याद्वयोपेतं रजोहरणं मुखवस्त्रिका चोलपट्टश्चेत्यर्थः / बहुः पुनः सर्वश्चतुर्दशविध उपधिः / अथवा-द्विविध औधिकौपरिग्रहिकरूपः। यच तृणग्रहणाऽऽदिकम् उपधिं विना भवेत्तन्निष्पन्नं प्रायश्चित्तम्। संप्रत्यनुग्रहाऽऽदिपदेषु प्रायश्चित्तमाहलहुगा अणुग्गहम्मी, अप्पत्तिऐं गुरुग तीस ठाणेसुं। पंतावणे चउगुरुगा, अप्पबहुम्मी हिए मूलं / / 12 / / यस्य संबन्धी स आरामः स यदि चिन्तयति-अनुग्रहो मे यन्मदीयानि प्रलम्बानि साधवो गृह्णन्ति, इत्यनुग्रहे मन्यमाने चतुर्लघवः। अथ प्रीतिक करोति तूष्णीकस्तिष्ठति ततश्चतुर्गुरुकाः / अथाप्रीतिकवशात्प्रतिषेधं खरण्टनामुपालम्भं वा कुर्यात्ततस्त्रिष्वपि स्थानेषु प्रत्येक चतुर्गुरुकाः / अल्पे वा बहौ वा उपधौ हृते मूलम् / यद्वा-उपधिनिष्पन्नम् / तद्यथाउत्कृष्ट उपधौ चतुर्लधवः, मध्यमे मासलघु, जघन्ये रात्रिन्दिवपञ्चकम्। आह-कथ-मेकत्रैव मूलमुपधिनिष्पन्नं चा? उच्यते-प्रमादतः प्रलम्बानि गृह्णत उपधिहरणे उपधिनिष्पन्नं, दर्पतस्तु प्रलम्बानि गृह्णानस्यो- पकरणापहारे मूलम्। अथ 'पंतावणिगाढमाइ चरमं पि" पदव्याचष्टपरितावणा य पोरिसि, ठवणा महऍ मुच्छकिच्छकालगए। मास चउ छच लहु गुरु, छेओ मूलं तह दुगं च / / 3 / / प्रान्तापितस्य सतोऽनागाढा परितापना भवति चतुर्लघु, आगाढा भवति चतुर्गुरु परितापनाभिभूतः सन् सूत्रपौरुषी न करोतिमासलघु, अर्थपौरुषी न करोति मासगुरु, सूत्र नाशयति चतुर्लघु, अर्थ नाशयति चतुर्गुरु, प्राशुकं स्थापयति चतुर्लघु, अप्राशुकं स्थापयति चतुर्गुरु, प्रत्येकस्थापने चतुर्लघु, अनन्तस्थापने चतुर्गुरु, इत्यादि प्राग्वद्वक्तव्यम् / (महय त्ति) महादुःखेषड्लघु, मूछाया षड्गुरु कृच्छ्रमाणे छेदः, कृच्छोच्छ्वासे मूलं, समवहते अनवस्थाप्यं, कालगते पाराञ्चिकम्। अथ यच्च तृणग्रहणाऽऽदिकमुपधिना विना भवेदिति पदं विवृणोतितणगहणे सुसिरेतर, अग्गी सट्ठाण अभिनवे जं च। एसण पेलण गहणे, काया सुय मरणओहाणे ||14|| वर्षाकल्पाऽऽदावुपकरणे हृते शीताभिभूतास्तृणानि गृह्णन्ति सेवन्ते, तत्र शुषिरतृणसेवने चतुर्लघु, अशुपिरतृणसेवने मासलघु, अग्नि सेवन्ते तत्र स्वस्थानप्रायश्चितं चतुर्लघु इत्यर्थः। अथाभिनवमग्निं जनयन्ति मूलं, यचाग्निसमारम्भे अन्येषां जीवानां विराधनं तन्निष्पन्नमपि प्रायश्चितम्। अथोपकरण भावे उद्गमाऽऽदिदोषदुष्ट वस्त्राऽऽदि गृह्णन्त एषणां प्रेरयन्ति ततस्तन्निष्पन्न (गहणे ति) शीताऽऽदिभिः परिताप्यमाना गृहस्थैरदत्तमपि वस्त्राऽऽदि गृह्णीयुस्तन्निष्पन्नम्। निशीथचूर्णिकृता तु 'गमणे ति" पाठो गृहीतस्तत्र चोपधिं विना शीताऽऽदि परीषहमाणो जघन्यवीर्थिकष्येकः मार्ग गच्छति मूलं, द्वयोर्गच्छतोरनवस्थाप्यं, त्रिषु धाराञ्चिकम् (काय त्ति) अग्निं सेवमाना एषणां प्रेरयन्तो यावत्पृथिव्यादिकायान विराधयन्ति तन्निष्पन्नम्। (सुय त्ति) श्रुतं सूत्रं तस्य पौरूषीं न कुर्वन्ति, उपलक्षणत्वादर्थपौरूषीं न कुर्वन्ति, सूत्रं नाशयन्ति अर्थ नाशयन्ति, तन्निष्पन्नम् / (मरण त्ति) उपकरणं विना योकोऽपि म्रियते तथाऽपि पाराञ्चिकम् / (ओहाण त्ति) यद्येकः साधुरवधावति मूलं, द्वयोरनवस्थाप्यं, त्रिषु पाराञ्चिकम्। अथ ग्रहणाऽऽकर्षणाऽऽदिरूपं षष्ठं प्रकार भावयतिगेण्हण गुरुगा छम्मास कड्डणे छेदों होइ ववहारे। पच्छाकडम्मि मूलं, उड्डहण विरुंगणे नवमं / / 5 / / उद्दवणे निव्विसए, एगमणेगे पदेस पारंची। अणवट्ठप्पा दोसु अ, दोसु च पारंचिओ होइ॥६६|| प्रलम्बानि गृह्णानो यदि प्रलम्बस्वामिना दृष्ट्वा गृहीतस्ततो ग्रहणे चतुर्गुरूकाः, अथ तेनोपकरणे हस्ते वा गृहीत्वा राजकुलाभिमुख.. माकृष्टस्तत आकर्षणे षण्मासा गुरवः, अथ कारणिकानां समीपे व्यवहारे कारयितुमारब्धः ततः छेदः व्यवहारे विधीयमाने यदि पश्चात्कृतः पराजितः ततो मूलम्, अथ चतुष्कचत्वराऽऽदिष्वेप प्रलम्वचौर इति घोषणापुरस्सरमुद्दग्धः हस्तपादाऽऽदौ वा अवयवे व्यङ्गितस्तत एवमुद्दहने (विरुंगणे त्ति) व्यङ्गने वा नवममनवस्थाप्यम्। अथान्यायोदीर्ण के योऽनलेन राजाऽऽदिना अपद्रावितो निर्वि