________________ पलंब 703 - अभिधानराजेन्द्रः - भाग 5 पलंब अरुंधता द्विविधाः- गृहिणो, लिङ्गिनश्च / लिङ्ग मेषां विद्यत इति लिङ्गिनः, अन्ये पाखण्डिन इत्यर्थः / तथा पुरुषाऽऽकृतयःपुरुषनेपथ्यधारिणः पण्डकाः, एते त्रयोऽपि प्रत्येक द्विविधाः - शोचवादिनः,अशीचवादिनश्च / तत्र शौचवादिभिः समं व्रज ति षडलघु, उभयलघुक, शौचवादिभिः सम व्रजति षड्लघु, कालगुरुकम्, अन्यलिङ्गिभिरशौचवादिभिः सार्द्ध व्रजति षड्लघु, काललघुकं, शौचयादिभिः समं व्रजति षड्लघु, तपोगुरुक पुरुषाऽऽकृतिभिः पण्डकैरशाचवादिभिः समं व्रजतिषड्लघु, तपोगुरुकं, शौचवादिभिः समं द्रजतिषड्लधु,तपसा कालेन च गुरुकम्: एतदिवस-तः प्रायश्चित्तमुक्तम्, रात्रौ तु त एव षण्मासा गुरुकाः षड्गुरवस्त-पःकालविशेषिता एवमेव दातव्या इति भावः। पासंडिणित्थि पंडे, इत्थीवसेसु दिवसतो छेदो। तेहिं चिय निसि मूलं, दियरत्ति दुगं तु समणीहिं / / 8 / / तापसीपरिव्राजकाऽऽदिभिः पापण्डिनीभिः (इत्थि त्ति) गृहस्थस्त्रीभिः, स्त्रीवेषधारिभिश्च पण्डकरशौचवादिभिः सह दिवसतो गच्छतो लघुकः छेदः, शौचवादिभिः सह गुरुकश्च्छेदः, तैरेव सह निशि रात्री गच्छतो मूल, श्रमणीभिः समं दिवा गच्छतोऽनवस्थाप्य, रात्रौ श्रमणीभिः सह गच्छति पाराञ्चिकम्। प्रकारान्तरेणाऽत्रैव प्रायश्चित्तमाह-संयतास्तैः सार्द्ध दिवा गच्छति चतुर्लघु, रात्रौ गच्छति चतुर्गुरु, असंयतैः सार्द्ध दिवा गच्छति षड्लघु, रात्रौ गच्छति षड्गुरु, असंयतीभिः समं दिवा व्रजति छेदः, रात्री गच्छति मूलं, संयतीभिः सह दिवसतो गच्छति अनवस्थाप्यं, रात्रौ गच्छति पाराश्चिकम् / तदेवमुक्तमटवीविषय ग्रहणं, तदुक्ती चावसिलमन्यत्र ग्रहणम् प्रलम्बग्रहणम्। अथ तत्र ग्रहण विभावयिषुरुक्तार्थसदृशं विधिमतिदिशन्नाहजह चेव अन्नगहणेरण्णे गमणाऽऽइ वणियं एयं। तत्थ गहणे वि एवं, पडियं जं होइ अच्चित्तं / / 1 / / यथैवान्यत्र ग्रहणे अरण्यविषयं षोडशभङ्गरचनया गमनम्, आदिशब्दात्संयमाऽऽत्मविराधनासमुत्थं दोषजालं प्रायश्चित्तं चैतदनन्तरमेव वर्णितं, तत्र ग्रहणेऽपि विवक्षितप्रलम्बाऽऽधारभूतं वृक्षस्याधः पतितं यदचित्त प्रलम्बं तद्ग्रहानस्याप्येवमेव निरवशेष वर्णनीयं यावत् श्रमणीभिः सह गमनमिति। यस्तु विशेषस्तमुपदिदर्शयिषुराहतत्थ ग्गहणं दुविहं, परिग्गहमपरिग्गहं दुविहभेयं / दिट्ठादपरिगहीए, परिगहिएँ अणुग्गहं कोइ / / 2 / / तत्र ग्रहणं द्विविधम् / तद्यथा-सपरिग्रहम, अपरिग्रहं च / यद्देवताऽऽदिभिः परिगृहीतं वृक्षाऽऽदि तद्विषयं सपरिग्रहम, तद्विपरीतमपरिग्रहम, तदुभयमपि द्विविधभेदं द्विविधेन सचित्ताचित्तभेदपार्थक्यं यस्य तत् द्विविधभेदं, सचित्ताचित्तभेदभिन्नमिति भावः। तत्र यदि परिगृहीतमचित्तं तद् गृह्णानस्य (दिट्ठा इति)"दिढे संका भोइए' इत्यादिका आरोपणा सर्वाऽपि प्राग्वद् द्रश्व्या / यत्पुनः परिगृहीतमचित्तं तद् गृह्णतः कश्चिद् भद्रकः परिगृहीता अनुग्रहं मन्येत, एतदग्रतो भावविष्यते। अथ सपरिग्रहस्यैव स्वरूप निरूपयितुमाह तिविह परिग्गह दिव्वे, चउलहु चउगुरुग छल्लहुक्कोसो। अहवाछल्लहुग चिय, अंतगुरू तिविहदव्वम्मि।।८३॥ सपरिग्रह त्रिविधम् / तद्यथा-देवपरिगृहीतं, मनुष्यपरिगृहीतं, तिर्यक परिगृहीतम् / तत्र दिव्यं देवपरिगृहीतं तत्त्रिविधम् जघन्यं, मध्यमम्, उत्कृष्ट च / व्यन्तरपरिगृहीतं जघन्यं, तत्र चतुर्लघु, भवनपतिज्योतिष्कपरिगृहीतं मध्यमम, तत्र चतुर्गुरु. वैमानिकपरिग्रहीतम् उत्कृष्टम् / तत्र षड्लघवः / अथवा त्रिष्वपि जघन्यमध्यमोत्कृष्टषु षड लघव एव प्रायश्चित्तं, केवल तपःकालविशेषितं, जघन्ये तपोलघु कालगुरुक, मध्यमे काललघु तपोगुरुकम्, अन्त्ये चोत्कृष्ट द्वाभ्यामपि गुरुकं कर्त्तव्यमिति त्रिविधं दिव्यविषयं प्रायश्चित्तम्। अथ मनुष्यपरिगृहीतमाहसम्मेतर सम्म दुहा, सम्मे लिंगि लहु गुरु उ गिहिएसुं / मिच्छा लिंगि गिही वा, पागयलिंगीसु चउलहुगा / / 4 / / भनुष्यपरिगृहीतं द्विधासम्यग्दृष्टिपरिगृहीतम्, (इयर त्ति) मिथ्यादृष्टिपरिगृहीतं च / तत्र यत्सम्यग्दृष्टिपरिगृहीतं तद् द्विधापार्श्वस्थाऽऽदिलिङ्गस्थपरिगृहीतं च, गृहस्थपरिगृहीतं च / लिङ्गस्थपरिगृहीते मासलघु, गृहिभिः सम्यग्दृष्टिभिः परिगृहीते मासगुरु, यत्पुनर्मिथ्यादृष्टिपरिगृहीत तद् द्विविधम्-(लिंग त्ति) अन्य-पाखण्डिपरिगृहीतं, गृहस्थपरिगृहीतं च / तत्र गृहस्थपरिगृहीतं त्रिधा-प्राकृतपरिग्रहीतं, कौटुम्बिकपरिगृहीतं, दण्डिकपरिगृहीतं च / तत्र प्राकृतपरिगृहीते च चतुर्लधु। गुरुगा पुण कोडुंबे, छल्लहुगा होंति दंडियाऽऽरामे / तिरिया य दुट्ठऽदुहे. गुरुगा इयरे य चउ लहुगा / / 8 / / कौटुम्बिकपरिगृहीते पुनश्चत्वारो गुरुकाः, दण्डिकाऽऽरामे दण्डिकपरिगृहीते उद्याने षट् लघुकाः / गतं मनुष्यपरिगृहीतम् / अथ तिर्यकपरिगृहीत भाव्यतेतिर्यञ्चः द्विविधाः-दुष्टाः, अदुष्टाव। दुष्टा हस्तिशुनकाऽऽदयः,अदुष्टा शृगालहरिणाऽऽदयः। दुष्टतिर्य-कपरिगृहीते चतुर्गुरुकाः, इतरैरदुष्टः परिगृहीते चतुर्लघुकाः / गतं तिर्यक्परिगृहीतम्। अथ यदुक्तम्-'परिगहिए अणुग्गह कोइ" इति। तदेतद्भवयतिभवेतर सुरमणुया, भद्दे धिप्पंति दठुणं भणइ। अन्ने वि साहु ! गिण्हसुं, पंतो छण्हेगयर कुज्जा / / 6 / / यस्य सुरस्य मनुजस्य वा परिगहे सा आरामो वर्तते स भद्रको भवेदितरो वा प्रान्तः / तत्र भद्रः प्रलम्ब गृह्यमाणं दृष्ट्वा तं साधु भणति-साधु त्वया कृतं, तारिता वयं संसारसागरात्,अन्यान्यपि हे साधो! पर्याप्तानि गृहाण इत्यादि। प्रान्तः पुनः षण्णां प्रकाराणामेकतरं कुर्यात्। __ अथक एते षट् प्रकाराः? उच्यतेपडिसेहणा खरंटण, उवलभ पंतावणा य उवहिम्मि। गिण्हणकवणववहा-रपच्छकडुड्डाहनिव्विसए।।७।। प्रतिषेधनं प्रतिषेधना, निवारणेत्यर्थः 1 खरण्ट ना खरपरुष वचनै निर्भत्सना 2, उपालम्भः सपिपासवचनैः शिक्षा 3. प्रान्तापना यष्टि मुष्ट्यादिभिस्ताडना, (उवहिम्मि त्ति) उपधिह