SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ पलंब 702 - अभिधानराजेन्द्रः - भाग 5 पलंब अथ महादुःखमुत्पद्यते ततः षड्लघु, मूर्छा-मूर्छषड्गुरु कृच्छ्रप्राणे छेदः, कृच्छ्रे मूल, मारणन्तिकसमुद्धाते अनवस्थाप्य, कालगते पाराञ्चिकम्। अथाऽऽतमविराधनायामेव सामान्यतः प्रायश्चित्तमाहकंटऽट्ठिमाइएहिं, दिवसतो सव्वत्थ चउगुरु होति। रत्तिं पुण कालगुरु, जत्थ व अन्नत्थ आयवहो / / 7 / / कण्टकास्थिकाऽऽदिभिः परितापनायां सर्वत्र दिवसतश्चतुर्गुरवो भवन्ति / रात्रौ पुनस्तएव चतुर्गुरवः कालगुरूका ज्ञातव्याः, अन्यत्राऽपि यत्राऽऽत्मवध आत्मविराधना भवति तत्र सर्वत्राऽपि चतुर्गुरवः प्रायश्चित्तम्। तथा संघट्टणे “परितावणे, लहु गुरुगऽतिवायणे मूलं / 71|| षट्कायाः पृथिव्यपतेजोवायुवनस्पतिरत्रसरूपाः, तेषां मध्ये चतुर्षु पृथिव्यप्तेजोवायुषु संघटनाऽऽदौ लघुकपर्यन्तं प्रायश्चित्तम् / परीत्ते' प्रत्येकवनस्पतिकायेऽपि लघुकान्तं,साधारणे अनन्तवनस्पती गुराकान्तम्। तथा द्वीन्द्रियाऽऽदीनां संघट्टने परितापने च यथायोग लघुका गुरुकाश्च प्रायश्चित्तम् / अतिपातने विनाशने मूलम् इयमत्र भावनापृथिवीकार्य संघट्टपति मासलघु, परितापयति मासगुरु, अपद्रावयति चतुर्लघु, एवमप्काये तेजःकाये वायुकाये प्रत्येकवनस्पतिकाच द्रष्टव्यम् / अनन्तवनस्पति यदि संघट्टयति तदा मासगुरु, परितापयति चतुर्लधु, आपद्रावयति, चतुर्गुरु, द्वीन्द्रियं संघट्टयति चतुर्लघु, परितापयति चतुर्गुरु, जीविताव्यपराग तिषड्लघु, त्रीन्द्रियं संघट्यतश्वतुर्गुरु, परितापयतः षड्लघु, जीविताव्यपरोपयतः षड्गुरु, चतुरिन्द्रियं संघट्टयतः षट्लघु, परितापयतः षड्गुरु, जीविताद्व्यपरोपयतः छेदः पञ्चेन्द्रियं संघयतः षड्गुरु, परितापयतो लघुमासिकःछेदः, अपद्रावयतो मूलम्। अथैतदेव प्रायश्चित्तं रात्रौ विशेषयन्नाहजहिँ लहुगा तहिँ गुरुगा, जीहँ गुरुगा कालगुरुग तहिँ ठाणे। छेदो य लहुय गुरुओ, काए साऽऽरोवणा रत्तिं / / 72 / / यत्र दिवसतो लघुकानि मासलघुचतुर्लघुषट्लघुरूपाणि, तत्र रात्रावतान्येव गुरुकाणि मासगुरूचतुर्गुरूषड्गुरुरूपाणि कर्तव्यानि।यत्र पुनरग्रेऽपि गुरुकाणि मासाऽऽदीनि तत्र स्थाने तान्येव कालगुरुकाणि दातव्यानि। यत्र च छेदो लघुकस्तत्र स एव गुरुकः कर्तव्यः / काये कायविषया एषा आरोपणा रात्री ज्ञातव्या। अथाऽऽत्मविराधनामाहकंटऽट्ठिखाणुविजल-विसमदरीनिन्नमुच्छसूलविसे। वालऽच्छभल्लकोले, सीहविगवराहमेच्छित्थी॥७३।। तेणे देवे मणुस्से, पडिणीए एवमाइआएसुं। मास चउ छच्च लहु गुरु, छेदो मूलं तह दुगं च // 74|| स साधुः कोट्टकाऽऽदौ व्रजन् कण्टकेन वा अस्थ्ना वा स्थाणुना वा पादयोः परिताप्येत; (विजल) पङ्किलं, विषमं निम्नोन्नतं, दरी कुसाराऽऽदिका निमं गम्भीरा गर्ता; एतेषु पतितस्य मूर्छा भवेत्, शूलं वा अनुधावेत, (विसं ति) विषकण्टकेन वा विध्येत, विषफलं वा भक्षयेत्. तथा व्यालेन सर्पाऽऽदिना अच्छभल्लेन वा ऋक्षेण कोलेन वा सूकरेण सिंहेन वा वृकेण वा वराहेण वोपरूद्वयेत, म्लेच्छपुरुषः अप्रीतितया प्रहाराऽऽदिकं दद्यात् स्त्री वा तं साधुमुपसर्गयेत् / अथवा-म्लेच्छस्त्री पुलिन्दीप्रभृतिका तमुपसर्गयेत्, तन्निमित्तं म्लेच्छः कुपितो बधबन्धाऽऽदि कुर्यात्। स्तेनो द्विविधः-शरीरस्तेनः, उपधिस्तेनश्चातेनोपद्रवः क्रियते देवता वा प्रान्ता तं साधु प्रमत्तं दृष्ट्वा छलयेत्। अपरो वा कोऽपि प्रत्यनीको मनुष्यो विजनमरण्यं मत्वा मारणाऽऽदि कुर्यात् / एवमादिका आत्मनि विराधना भवति / तत्रेदं प्रायश्चित्तम्- "मास चउ' इत्यादि पश्वार्द्धम् / कण्टकाऽऽदिभिरगाढ़ परिताप्यते चतुर्लघु, आगाढे परिताप्यत चतुर्गुरुः | पोरिसि नासणपरिता-वठावणं तेण देहउवहिगतं। पंतादेवयछलणं, मणुस्सपडिणीयवहणं च // 76|| कण्डकाऽऽदिना पीडितः सन सूत्रपौरूषी न करोति मासलघु, अर्थपौरूषी न करोतिमासगुरु, सूत्रं नाशयति चतुर्लघु अर्थनाशयति चतुर्गुरु। (परितावत्ति) अनागाढपरितापे चतुर्लघु, आगाढपरितापे चतुर्गुरु, (ठावण त्ति) अनाहारं परिस्थापयति चतुर्लघु, आहारं परिस्थापयति चतुर्गुरु परीत्तं स्थापयति चतुर्लघु, अनन्तं स्थापयतिचतुर्गुरु, अस्नेह स्थापयति चतुलघु, सस्नेह स्थापयति चतुर्गुरु। तथा (तेण त्ति ) उपधिरनेनास्तैरुपधेराहियमाणे उपधिगत जघन्यभध्यमोत्कृष्टोपधिनिष्पन्न प्रायश्चित्तम्। देहस्तेनाः शरीरापहारिण स्तैरेकः साधुः हियते मूलं, द्वयोहियमाणयोरनवस्थाप्यं, त्रिषु हियमाणेषु पाराश्चिकम् प्रान्तया देवतया यदि छलनं क्रियते ततश्चतुर्गुरू, प्रत्यनीकमनुष्येण पुरुषेण स्त्रिया नपुंसकेन वा हन्येत चत्वारो गुरवः। अथ प्रकृतमर्थमुपसंहरन्नर्थान्तरमुपन्यम्यन्नाहएवं ता असहाए, सहायसहिए इमे भवे भेदा। जय अजय इत्थि पंडे, अस्संजयसंजईहिं वा / / 77 / / एवं तावदसहायस्य एकाकिनो व्रजतो दोषा उक्ताः, सहायसहितेव्रजति विचार्यमाणे एते सहायरय भेदा भवन्ति।तद्यथा-यताः संयताः अयताः असंयताः (इत्थि त्ति) पाखण्डिस्त्रियः, पण्डका नपुंसकाः, असंयत्यो गृहस्थस्त्रियः, संयत्थः साध्व्यः, एतैः सार्द्ध गच्छति। इदमेव व्याचष्टे - संविग्गाऽसंविग्गा, गीया ते चेव होंति अग्गीया। लहुगा दोहि विसिट्ठा, तेहि समं रत्ति गुरुगाओ // 78) संविग्ना गीतार्थाः, असंविना अगीतार्थाः, एतैः सम गच्छता द्वाभ्या तपःकालाभ्यां विशिष्टा लघुकाः प्रायश्चितं / तद्यथा-संविग्नैर्गीतार्थः सम व्रजति चत्वारो लघवस्तपसा कालेन च गुरुलधुकाः। असंविगैर्गीतार्थः समं गच्छति चतुर्लघवः, तपसा लघुकाः कालेन गुरुकाः संविगैरगीतार्थःसार्द्ध याति चतुर्लघु, कालेन लघु तपसा गुरु, असंविगैरगीतार्थः समं व्रजति चतुर्लघु, तपसा कालेन च गुरु। एतद्विवसतो ज्ञातव्यं, रात्री तैः समं व्रजत एवमेव तपःकालविशेषिताश्चतुर्गुरुकाः। अस्संजयलिंगीथिउ, पुरिसागिइपंडएहि य दिवा उ। अस्सोय सोय छल्लहु, ते चेव उ रत्ति गुरुगाओ // 76||
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy