________________ पलंब 701 - अभिधानराजेन्द्रः - भाग 5 पलंब बहिर्ग्रहणम / (सत्थे त्ति) सार्थो वासस्थाने वा भवेत्, यान्नाऽऽदिस्थाने वा यात्रास्थानं तत्र लोक उद्यानिकाऽऽदियात्रया गच्छति। आदिशब्दादन्यस्याप्येवंविधस्थानस्य परिग्रहः / अथ बलिग्रहणे प्रायश्चित्तमिति दर्शयन्नाहअंतो आवणमाई, गहणे जा वणिया सवित्थारा। बहिया उ अन्नगहणे, पडियम्मी होइ सचेव // 63 / / ग्रामाऽऽदीनामतमध्ये आपणाऽऽदौ आपणे आपणवर्ज वा जुगुप्सिते अजुगुप्सिते वा सपरिग्रहे अपरिग्रहे वा सविस्तारा "दिट्टे संका भोइ'' इत्यादि लक्षणप्रपासहिता वर्णिता, शोधिरित्युपस्कारः। सैव ग्रामाऽऽटोना बहिः पतितप्रलम्बविषयेऽन्यत्र ग्रहणे निरवशेषा द्रष्टव्या / उक्तं बहिग्रहण तणनेच समर्थितं च सत्प्रदेशविषयं ग्रहणम्। अथाटवीविषयमाहकोट्टगमाई रणे, एमेव जणो उ जत्थ पुंजेइ। तहियं पुण वच्चंते, चउपयभयणा उछद्दसिया॥६४|| जनो लोकः प्रचुरफलायामटव्यां गत्वा फलानि यावत् पर्याप्तं गृहीत्वा यत्र गत्या शोषयति पश्चाद् गन्त्रीपोट्टलकाऽऽदिभिरानीय नगराऽऽदौ विक्रीणाति तत्कोट्टकमुच्यते, ततश्चारण्ये कोट्टकाऽऽदौ प्रदेशे यत्र जनः फलानि शोषणार्थ पुञ्जयति पुञ्जीकरोति, तत्र प्रलम्बग्रहणे एवमेव यथा- ''वसिमे दिले संका भोइए''इत्यादिकमुक्तं तथैव प्रायश्चित्त - भवसातव्यम् / विशेषः पुनरयम्-तत्र पुनः कोट्टकाऽऽदौ ब्रजतः चतुर्भिः पदैर्भजना भङ्ग करचना षट्दशिका षोडशभङ्गप्रमाणा कर्त्तव्या। कथमिति चेत्? उच्यतेवचंतस्स य दोसा, दिया य राओ य पंथ उप्पंथो। उवउत्त अणुवउत्ते, सालंव तहा निरालंबे // 65 // तत्र व्रजतो बहवो दोषा भवन्ति, ते चोपपरिष्टादश भणिष्यन्ते; दिवा च, रात्रिश्च, पन्था उत्पथश्च, उपयुक्तः,अनुपयुक्तः, सालम्बस्तथा निरालम्बश्चेति अक्षरयोजना। अथ भावार्थ उच्यते-दिवा गच्छतिपथा उपयुक्तः सालम्बः१, दिवा गच्छति पथा उपयुक्तो निरालम्बः२, दिवा गच्छति पथा अनुपयुक्तः सालम्बः३, दिवा गच्छति पथा अनुपुयक्तो निरालम्बः 4 / एव-मुत्पथपदेनापि चत्वारो भङ्गाः प्राप्यन्ते। जाता अष्टौ भङ्गाः / एते दिवा पदममुञ्चता लभ्यन्ते / एवं रात्रिपदममुञ्चताऽप्यष्टौ भङ्गाः लभ्यन्ते। सर्वसंख्यया षोडश भङ्गाः। अमीषां रचनोपायमाहअट्ठग चउक्क दुग ए- क्वगं च लहुगा य होति गुरुगा य / सुद्धा एगंतरिया, पढमरहिय सेसगा तिण्णि // 66 // इहाक्षाणां चतरत्रः पड़ क्तयः स्थाप्यन्ते-तत्र प्रथमपट् तौ प्रथममष्टौ लघुकाः, ततोऽप्यष्टौ गुरुका इत्येवं षोडशाक्षा निक्षेपणीयाः। द्वितीयपङ् क्तौचत्वारः प्रथम लघुकाः, ततश्चत्वारो गुरुकाः, पुनश्चत्वारो लघुकाः, तदनु चत्वारो गुरुकाः। तृतीयपड् क्तावपि षोडशाक्षाःद्वौलघुको, द्वौ गुरुकावित्यनेन क्रमेण निक्षेप्याः चतुर्थपड़ क्त येको लघुक एको गुरुक एवमेकान्तरितलधुगुरुरूपाः षोडशैवाक्षाः स्थापयितव्याः। एवमन्यत्रापि भङ्गकारतारे यत्र यावन्तो भड़कास्तत्र तावदायामः चरमपङ्क्तावेकान्तरितानामर्वाक्तनपड्क्तिषु पुनर्द्विगुणद्विगुणानां लघुगुरूणामक्षाणां निक्षेपः कर्त्तव्यः उक्तं च- ''भंगपमाणाऽऽयामो, लहुओ गुरुओ य अक्खनिक्खेवो / आरउ दुगुणा दुगुणा, पत्थारे होइ निक्खेयो / / 1 / / " एतेष्वेव शुद्धाशुद्धस्वरूपं दर्शयति-(सुद्धा एगंतरिया इत्यादि) प्रथमे भङ्ग काष्टके प्रथमभङ्ग रहिताःशेषास्त्रयो भङ्ग का एकान्तरिताः शुद्धाः। इदमुक्त भवति-प्रथमो भङ्ग कश्चतुर्ध्वपि पदेषु निरवद्यत्वादेकान्तेन शुद्ध इति न काचित् तदीया विचारणा। तं मुक्त्वा ये प्रथमाष्टके शेषा भङ्गकास्तेषाम् एकान्तरितस्तृतीयपञ्चमसप्तमरूपास्त्रयः क्वचिदुत्पथाऽऽदौ पदे अशुद्धा अपि सालम्बनत्वात् शुद्धाः प्रतिपत्तव्याः। अर्थादापन्नं द्वितीयचतुर्थषष्ठाष्टमभङ्ग का दिवाऽऽदौ पदे शुद्धा अपि निरालम्बनत्वादशुद्धाः। एवं द्वितीयाष्टकेऽपि प्रथमो भङ्गः शुद्धः शेषास्त्रय एकान्तरिता अशुद्धाः, सालम्बनत्वात्। अत एवाऽऽहपढमे एत्थ उ सुद्धो, चरिमो पुण सव्वहा असुद्धो उ। अवसेसा वि य चउदस, भंगा भइयव्वगा हों ति॥६७|| प्रथमो भङ्गोऽत्रैषां षोडशानां भङ्गानां मध्ये शुद्धः सर्वथा निर्दोषश्वरमः अशुद्धः, अवशेषाश्चतुर्दश भङ्गा भक्तव्या विकल्पयितव्या भवन्ति, केचित्पुनरशुद्धा इति भावः। कथमिति चेत्? उच्यतेआगाढम्मि उ कजे, सेस असुद्धो वि सुज्झए भंगो। न विसुब्भे अणगाढे, सेसपदेहिं जइ वि सुद्धे // 68|| आगाढे कार्ये पुष्टे आलम्बने गच्छतः शेषेराव्युत्पथानुपयुक्तल-क्षणैः पदैरशुद्धोऽपि भङ्ग शुद्ध्यति, अनागाढे आलम्बनाभावे शेषैर्दिवापथोपयुक्तलक्षणैः पदैर्यद्यपि शुद्धस्तथापि न विशुद्ध्यति। अथ किं तत्र प्रायश्चित्तं भवतीति ? उच्यतेलहुगा य निरालंबे, दिवसतो रत्तिं हवेति चउगुरुगा। लहुगो य उप्पहेणं, रायादी चेवऽणुवउत्तो // 66 // यत्र यत्र निरालम्बस्तत्र तत्र दिवसे गच्छतःचत्वारो लघुकाः, रात्रौ चत्वारो गुरुकाः, यत्र यत्र दिवसत उत्पथेन गच्छति तत्र तत्र मासलघु, यत्र यत्र दिवसत ईप्रिभृतिसमितिष्वनुपयुक्तो गच्छति तत्र तत्र मासलघु रात्रावुत्पथगमने अनुपयुक्तगमने च भासगुरु / अथ प्रकारान्तरेण प्रायश्चित्तमाहदियओ लहुगा गुरुगा, आणा चउगुरुग लहुगा य / संजमआयविराहण, संजमें आरोवणा इणमो॥७०।। अशुद्धेषु भङ्गेषु सर्वेष्वपि दिवसतो गच्छतश्चत्वारो लघुकाः, रात्रौ पुनश्चत्वारो गुरुकाः, तीर्थकराणामाज्ञाभङ्गे चतुर्गुरूकाः,अनवस्थायां चत्वारो लघुकाः, मिथ्यात्वेऽपि चत्वारो लघुकाः अत्र चानवस्थामिथ्यात्वे प्रक्रमाद् द्रष्टव्ये / विराधना द्विविधा-संयमे, आत्मनि च / तत्र संयमविराधनायामियं वक्ष्यमाणा आरोपणा प्रायश्चित्तम्। तामेवाऽऽहछक्काएँ चउसु लहुगा, परित्ते लहुगा य गुरुग साहारे।