________________ पलंब 700 - अभिधानराजेन्द्रः - भाग 5 पलंब लघवः / अथ तस्यात्पर्थोपयत्तरेहमपि गृह्णामीति ततोऽपि चत्वारो लघवः / अत्र च ये दृष्टाऽऽदयः परिवर्द्धमाना दोषा अन्यत्र ग्रहणे भव- | न्तिताननन्तरगाथया वक्ष्यमाणान् श्रृणुत। तानेवाऽऽहदिद्वे संका भोइऍ, घाडिनियाऽऽरक्खिसेट्टिराईणं। चत्तारि छच लहु गुरु, छेदो मूलं तह दुगं च / / 56 / / युवादिना महता पुरुषेण प्रलम्बानि गृह्णन् दृष्टः चतुर्लघु, तस्तस्य शङ्का / जायते--कि सुवर्णाऽऽदिकं गृहीतं उत प्रलम्ब, तदाऽपि चतुर्लघु, निःशङ्किते चत्वारो गुरवः / अथ असौ(भोइय ति) भोजति भरिमिति भोजिका भार्या, तस्याः कथयति-प्रिये! मया संयतः फलानि गृह्णानो दृष्टः इत्युक्ते यदि तया प्रतिहतोमैवं वादी संभवत्येवेदृशं महात्मनि साधाविति। ततश्चतुर्गुरुकमेव। अथ तया न प्रतिहतस्ततः षड् लघयवः, अस्तीतरः संबन्ध इति कृत्या प्रथम भोजिकाया अग्रे कथयतीति एवं मित्रादिष्वापि मन्तव्यम् / ततो (घाडि त्ति) घाटः संघाटः सौहृतमित्येकोऽर्थः / स विद्यतेऽस्येति घाटी सहजा ताकऽदिर्वयस्य इत्यर्थः / तस्याग्रे तथैव कथयति, तेनापि यदि निहतस्तदा षड् लघव एव / अथ न प्रतिहतस्ततः षड् गुरवः ततो निजमातापित्रादयस्तेषां कथयति, तैः प्रतिहतः षड् गुरव एव अप्रतिहते पुनः छेदः, तत आरक्षिकेनाऽऽरक्षिकपुरूषैर्वा तस्य सकाशादन्यतो वा प्रलम्बग्रहणवृत्तान्ते श्रुते ततः प्रतिहते एव अप्रतिहते पूनमूलं, तत श्रेष्ठिनः श्रीदेव्याध्यासितसौवर्णपदृविभूषितोत्तमाङ्गस्य तस्य बृत्तान्त श्रवणे तेन च प्रतिहते मूलभेव, अप्रतिहतेऽनवस्थाप्यम्, ततो राज्ञोपलक्षणत्वादमात्येन च ज्ञाते ततः प्रतिहतेऽनवस्थाप्य, प्रतिहते पाराश्चिकं, पश्चार्द्ध यथाक्रमममीषामेव प्रायश्चित्तान्यभिहितान्येव, नवरं (दुर्ग ति) अनवस्थाप्यपाराश्चिकद्वयम्।। एवं ता अदुगंछिअ, दुगुंछिए लसुणमाइ एमेव।। नवरिं पुण चउलहुगा, परिग्गहे गिण्हणादीया / / 56 / / एवं तवादजुगुप्सिते आमाऽऽदौ प्रलम्बे गृह्यमाणे प्रायश्चित्तं द्रष्टव्यं, जुगुप्सिते पुनरिदं नानात्वम्। जुगुप्सितं द्विधाजातिजुगुप्सितं, स्थानजुगुप्सितं च / तत्र जातिजुगुप्सितं लशुनाऽऽदि,आदिग्रहणे पलाण्दप्रभृतिपरिग्रहः / स्थानजुगुप्सितं पुनरशुचिस्थाने कर्दमरऽऽदौ पतितम द्विविधेऽपि जुगुप्सिते एवमेव जुगुप्सितवत् प्रायश्चित्तं वक्तव्यं, नवरं केवलं पुनः कल्पस्थकदृष्ट जुगुप्सितं, गृह्णानस्य चतुर्लघवोऽत्र ज्ञातव्याः, अजुगुप्सितं पुनः कप्पट्टे दिढे लहुग त्ति लघुमास एवोक्त इति विशेषः / एतच्च सर्वमप्यपरिग्रहमधिकृत्योक्तम् / (परिग्गहे गिग्रहणादीय ति) यत्पुनः प्रलम्ब कस्याऽपि परिग्रहे वर्तते, तस्मिन् जुगुप्सिते वा अजुगुप्सिते वा प्रायश्चित्तं तथैव वक्तव्यं, पर यस्य शिष्याऽऽदेः परिग्रहे तानि प्रलम्बानि वर्तन्ते, तत्कृतो ग्रहणाऽऽकर्षणव्यवहाराऽऽदयो दोषा अत्राधिका भवन्तीति / गतं द्रव्यतः प्रायश्चित्तम्। अथ क्षेत्रतः कालतश्च प्ररूपयतिखेत्ते निवेसणाई, जा सीमा लहुगमाइ जा चरिमं / केसिंची विवरीयं, काले दिण अट्ठहिं सपदं // 60 / / क्षेत्रतो निवेशनमादौ कृत्वा यावत् ग्रामस्य सीमा, एतेषु स्थानेषु गृह्णानस्य लघुकाऽऽदिकां यावचरिमं पाराश्चिकम् / किमुक्तं भवति? निवेशने महापरिवारभूतग्रहसमुदायरूपे गुह्णाति चत्वारो लघवः, पाटके गृह्णते चत्वारो गुरवः, संहि कायां गृहपतिरूपायां गृह्णति, षट् लघवः एवं ग्राममध्ये षट् गुरवः, ग्रामद्वारे छेदः ग्रामस्य बहिर्मूलम्, उद्याने अनवस्थाप्य, ग्रामसीमायां पाराश्चिकं केषाशिदाचायाणां मतन विपरीतमुक्तविपर्यस्त प्रायश्चित्तम्। तद्यथा-सीमायामन्यग्रामे वा गृह्णाति चतुर्लघु, उद्याने चतुर्गुरु, ग्रामबहिर्षड् लघु, ग्रामद्वारे षड्गुरु ग्राममध्ये छेदः, साहिकायां मूलं, पाटके अनवस्थाप्यं, निवेशने पाराश्चिकमिति। तथा काले कालविषयं प्रायश्चित्तम् अष्टमे दिने स्वपदं पाराञ्चिकम् / इयमत्र भावनाप्रलम्बानि गृह्णतः प्रथमे दिवसे चत्वारो लघवः, द्वितीये चत्वारो गुरवः तृतीये षड् लघवः चतुर्थे षड्गुरवः, पञ्चमे छेदः, षष्ठे मूलं, सप्तमे अनवस्थाप्यम्, अष्टमे पाराश्चिकम्। अथ प्रकारान्तरेण क्षेत्रत एव प्रायश्चितमाहनिवें सणवाडगसाही, ग्राममज्झे अगामदारे य। उजाणे सीमाए, अन्नग्गामे य खेत्तम्मि।।६१॥ क्षेत्रे प्रकारान्तरेण प्रायश्चित्तमिदम्-निवेशने चतुर्लघु, पाटके चतुर्गुरु, साहिकायां षड् लघु, ग्राममध्ये षड् गुरु, ग्रामद्वारे छेदः, उद्याने मूलं, सीमायाम् अनवस्थाप्यम्, अन्यग्रामे पाराश्चिकम्। अथ भावतः प्रायश्चित्तमाहभावाट्ठवारसपदं, लहुगाई मीस दसहि चरिमं तु / एमेव य बहिया वी, सत्थे जत्ताइठाणेसु॥६२ / भावे अष्टभिर्वा पदैः स्वपदं पाराश्चिकम् / किमुक्तं भवति? एकं वार प्रलम्बानि गृह्णाति चत्वारो लघवः, द्वितीयं वारं चत्वारो गुरवः, तृतीय वारं षड् लघवः, चतुर्थं वारं षड् गुरवः, पञ्चमं वारं छेदः, षष्ट धारं मूलं, सप्तमं वारम् अनवस्थाप्यम्, अष्टमं वारं गृह्णतः पाराश्चिम् / एतका सर्वमपि सचित्तप्रलम्बविषयं भणितं, मिश्रप्रलम्बे तु गृह्यमाणे लघुमासाऽऽदिक दशभिः: स्थानः चरम पाराश्चिकम् / तद्यथा-मिश्रप्रलम्ब गृह्णाति, कल्पस्थकेन दृष्टमासलघु, महता पुरुषेण दृष्ट शङ्कायां मासलघु, निशङ्के मासगुरु, भोजिकायाः कथने चतुर्लघु, घाटिनो निवेदने चतुर्गुरु ज्ञातीनां ज्ञापने षड्लघु, आरक्षिकाणां निवेदने षड्गुरु, सार्थवाहज्ञाते छेदः, श्रेष्टिकथने मूलम्, अमात्यस्य निवेद्यते अनवस्थाप्यं, राज्ञो ज्ञापिले पाराञ्चिकम् / एतद् द्रव्यतः प्रायश्चित्तम् / क्षेत्रतः पुनरिदम् निवेशने मासलघु, पाटके मासगुरु, साहिकायां चतुर्लधुग्राममध्ये चतुर्गुरु ग्रामद्वारे षडलघु ग्रामबहिः षड्गुरु, उद्याने छेदः, उद्यानसीम्नोरन्तरे मूलं. सीमायामनवस्थाप्यं सीमायाः परतोऽन्यग्रामाऽऽदौ पाराश्चिकम् कालतः पुनः प्रथमे दिवसे मासलघु, द्वितीये मासगुरु, एवं यावद्दशभिर्दिवसैः पाराश्चिकम् / भावतः प्रथम वारं गृह्णतो मासलघु द्वितीय मासगुरु / एवं यावद्दशभिवरिः पाराश्चिकम् / गतसापणतद्वर्जभेदात द्विविधमपि ग्रामान्तर्विषयं ग्रहणम्। अथ ग्रामबहिभावि ग्रहणमाह-“एमेव य" इत्यादि पश्चार्द्धम् / एवमेव बहिरपि ग्रामस्य गहण भणितथ्य, त पुन