SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ पलंब 666 - अभिधानराजेन्द्रः - भाग 5 पलंब पुष्फे फले य बीए, फलंबसुत्तम्मि दस भेया॥१॥" प्रकारान्तरेण प्रतिवचनमाह-- अहवा एगग्गहणे, गहणं तजातियाण सव्वेसिं। तेणऽग्गपलंबेणं, तु सूइया सेसगपलंबा // 48 // अथवा 'एकग्रहणे तज्जातीयानां सर्वेषां ग्रहणं भवति' इति न्यायो यतः समस्ति, तेनाग्रप्रलम्बग्रहणेन, तुशब्दान्मूलप्रलम्बग्रहणेन च शेषाणि कन्दाऽऽदीनि प्रलम्बनानि सूचितानि / अथपुनरपि परःप्राहतलगहणा उ तलस्सा, न कप्पेसेसाण कप्पई नाम। एगग्गहणा गहणं, दिद्रुतो होइ सालीणं / / 46 // तलग्रहणादिति, उपलक्षणत्वात्तालप्रलम्बग्रहणात्तालस्यैव संबन्धीनि मूलकन्दाऽऽदीनि प्रलम्बानि न कल्पन्ते, शेषाणां पुनराम्राऽऽदीनां चलम्बानि कल्पन्त इत्यर्थादापन्नं, नामेति संभावनाया, सभाव्यते अयमर्थ इति भावः। सूरिराह-"एकग्रहणात् तज्जातीयानां सर्वेषा ग्रहणं भवति" दृष्टान्तः शालिसंबन्धी अत्र भवति-यथा निष्पन्नः शालिरित्युक्ते नेकएव शालिकणो निष्पन्नः प्रतीयते किं तु शालिजातिः, तथाऽत्रापि लालप्रलम्बग्रहणे न केवलस्यैव तालस्य, किं तु सर्वेषां वृक्षजातीयाना प्रलम्बा-युपात्तानि प्रतिपत्तव्यानि। अथपुनरपि प्रश्नयतिको नियमो उ तलेणं, गहणं अन्नेसिँ जेण न कयं तु। उभयमवि एइ भोग, परित्त साऊच तो गहणं // 50 // को नाम नियमस्तलेन तस्यैव ग्रहणं कृतं नान्येषां वृक्षाणाम्? सूरिराहतालस्य संबन्धि मूलाग्रप्रलम्बरूपमुभयमपि भोगमुपयोगमेति, तथा परीतं प्रत्येकशरीरं स्वादुच मधुरंतत् भवति, अतस्तत्प्रतिषेधे सुतरामनन्तकायिकाऽऽदीनां प्रतिषेधः कृतो भवति, ततस्तालस्य ग्रहणं कृतम् / इति गत प्रलम्बपदम् / बृ० 1 उ०२ प्रक०। (अथ भिन्नपदव्याख्या 'भिन्न' शब्दे करिष्यते) अत्र चतुभङ्गीमाह-- भावेण य दव्वेण य, भिन्नाभिन्ने चउक्कभयणाओ। षढमं दोहिं अमिन्नं, बिइयं पुण दव्वतो भिन्नं / / 51 / / तइयं भावतों भिन्नं,दोहि विभिन्नं चउत्थंग होइ। एएसिं पच्छित्तं, वोच्छामि अहाणुपुव्दीए॥५२॥ भावेन च द्रव्येन च भिन्नाभिन्नयोश्चतुष्कभजनाचतुर्भङ्गीरचना कर्तव्या।। तत्र च प्रथमं प्रथमभङ्गवर्ति प्रलम्बं द्वाभ्यामपि भावेन द्रव्येण च अभिन्न, द्वितीय पुनर्रव्यतो भिन्न भावतस्त्वभिन्न, तृतीयं भावतो भिन्नं द्रव्यतः पुनरभिन्नं, चतुर्थं द्वाभ्यामपि भावतो द्रव्यतश्च भिन्न भवति / एतेषां चतुर्मामपि प्रायश्चित्तं यथानुपूर्व्या यथोक्तपरिपाट्या वक्ष्यामि भणिष्यामि। प्रतिज्ञातमेव निर्वाहयतिलहुगा य दोसु दोसु य, लहुओ पढमम्मि दोहि वी गुरुगा। लवगुरुअ कालगुरुओ, दोहि वि लहुओ च उत्थो उ।।५३ / / प्रथमद्वितीययोर्द्धयोर्भङ्ग योश्चत्वारो लघुकाः, भावतोऽभिन्नतया | सचेतनत्वात् द्वयोस्तुतृतीयचतुर्थयोसिलघु, तथा प्रथमे भङ्गे ये चत्वारो लघुकारते द्वाभ्यामपि लघुकः-तपसा कालने चलधुकं. तत्र मासलघु द्रष्टव्यमित्यर्थः। उग्घाइया परित्ते, होति यऽणुग्घाइया अणंतम्मि। आणाऽणवत्थमिच्छा, विराहणा कस्सऽगीयत्थे? ||54 / / एतानि प्रायश्चित्तान्युद्धातिकानि लघुकानि परीते प्रत्येकप्रलम्बे भणितानि, अनन्ते अनन्तकार्य पुनरेतान्येवानुद्धातिकानि गुरुकाणि ज्ञातव्यानि, प्रथमद्वितीययोश्चत्वारो गुरुकाः, तृतीयचतुर्थयोस्तु - भड़योर्मासगुरु प्रायश्चित्तं, तपःकालविशेषितं पूर्ववद्वक्तव्यमिति भावः। तथा प्रलम्बं गृह्णता तीर्थकृताऽऽज्ञाभङ्ग कृतो भवति, अनवस्था मिथ्यात्वं विराधना च संयमाऽऽत्मविषया कृता भवति। शिष्यः पृच्छतिकस्यैतत्प्रायश्चित्तमाज्ञाऽऽदयश्च दोषाः? गुरुराह-अगीतार्थस्य निक्षोरित्येतच सप्रपञ्चमुपरिष्टाद-भावयिष्यते। अथ प्रलम्बग्रहणे विस्तरेण प्रायश्चित्त वर्णयितुकाम इमां द्वारगाथामाहअन्नत्थ तत्थ गहणे, पडिते अचित्तमेव सचित्ते। छुभणाऽऽरुहणा पडणे, उवही तत्तो य उड्डाहो / / 55 / / प्रलम्बग्रहण द्विधा अन्यय ग्रहणं, तत्र ग्रहणं च ! वृक्षादन्य-वान्यस्मिन् प्रदेशे ग्रहणम् अन्यत्रग्रहणम् / तत्रैव वृक्षप्रदेशे ग्रहण तत्रग्रहणम् / तथा पतितं वृक्षस्याधस्तात् यद् गृह्णाति तद् द्विधा अचित्त, सचित्तं च / तस्य पतितस्य प्राप्तौ वृक्षोपरिस्थित-प्रलम्बपातनाय (छुभण ति) काष्ठाऽऽदेः प्रक्षेपणम् / तथा प्राप्तौ-(आरुहण त्ति) तस्मिन् वृक्षे आरोहणं करोति, आरूढस्यच कदाचित्पतनं भवेत्, प्रलम्बं गृहन्तं दृष्ट्वा प्रान्तेन केनचिदुपाधिरपहियते, ततश्चोड्डाहः संजायत इतिगाथाऽर्थः। विस्तरार्श प्रतिद्वार विभणिषुः प्रथमतोऽन्यत्र ग्रहण वि-वृणोतिअण्णगहणं तु दुविहं, वसमाणे अडवि वसति अंतों बहिं / अंताऽऽवण तव्वजे, रत्थागिह अंतों पासे वा॥५६॥ अन्यत्र ग्रहणं द्विविधम्, तद्यथा-वसतौ, अटव्यांचा तत्र यद्वसतिप्रदेशे तद् द्विधा-ग्रामाऽऽदीनामन्तः, बहिश्च / यद् ग्रामाऽऽदीनामन्तस्तत् पुनर्द्विविधम्-आपणे, तद्वर्ये च / आपणे हट्टे, तत्र स्थितस्य प्रलम्बस्य यद् ग्रहणं तदापणविषयमा यत् पुनरापणवर्जे गृहे वा रथ्यायां वा गृह्णाति तत्तद्वर्जविषय, तत्र यदापणविषयं, तत्र यदापणस्यान्तर्वा भवेत् पार्श्वतो वा, यत्तद्वर्जविषयं तदपि रथ्याया गृहस्य वा अन्तर्वा भवेत्, पार्श्वतो वेति / एतच सर्वमपि द्विधा अपरिग्रह, सपरिग्रहं च। तत्राऽऽपणे तद्वर्जे वा अपरिग्रहे गृह्णानस्य द्रव्यक्षेत्रकालभावभेदाचतुर्विधं प्रायश्चित्तम्। तत्र द्रव्यतस्तावदाहकप्पट्ट दिढे लहुओ, अट्ठपत्ती य लहुग ते चेव / परिवड्डमाणे दोसे, दिट्ठाई अन्नगहणम्मि / / 57 / / कल्पस्थः समयपरिभाषया बालक उच्यते, तेन प्रलम्बमचित्तै गृह्णानो यदि दृष्टस्तदा मासलघु / अथ संयतं प्रलम्बं गृहन्तं दृष्टवा कल्पस्थकस्योत्पत्तिरहमपित्तिरहमपि गृह्णामीत्येवंलक्षणा भवति ततश्चतुर्लघवः / अथ न कल्पस्थेन, किंतुमहतापुरुषेणप्रलम्बंगृह्णानोदृष्टस्तदा (तेचेवत्ति)तएव चत्वारो
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy