________________ परिहारविसुद्धिय 694 - अभिधानराजेन्द्रः - भाग 5 परिहारविसुद्धिय ते च पारिहारिका अभिगृहीतया पश्चानामुपरितनानामप्येषणया / भक्तपानं गृह्णन्ति,येतु चत्वारोऽनुपारिहारिका एकत्र कल्पे स्थितास्तेषां पञ्चानामप्येक एव संभोगः / ते च प्रतिदिवसमाचाम्लं कुर्वन्ति / यस्तु कल्पस्थितः स स्वयं न हिण्डते, तस्य योग्यं भक्तपानमनुपारिहारिका आनयन्ति। परिहारिओं छम्यासे, अणुपरिहारिओ वि छम्मासा। कप्पद्वितो वि छम्मासे, एते अट्ठारस उ मासे / / 366 / / / परिहारिकाः प्रथमतः षण्मासान् प्रस्तुतं तपो वहन्ति, ततोऽनुपरिहारिका अपि षण्मासान् वहन्ति, इतरे तु तेषामनुपरिहारिकत्वं प्रतिपद्यन्ते, तैरपि व्यूढे सति कल्पस्थितः षणमासान् वहति, ततः शेषाणामेकः कल्पस्थितो भवति, एकः पुनरनुपरिहारिकत्वं प्रतिपद्यते, एवमेते अष्टादश मासा भवन्ति। अणुपरिहारिगा चेव, जया ते परिहारिगा। अण्णमण्णेसु ठाणेसु, अविरुद्धा भवंति ते // 367 / / अनुपरिहारिकाश्चैव ये च ते पारहारिकास्ते अन्योऽन्येषु स्थानेषु कालभेदेन परस्परमेकैकस्य वैयावृत्य कुर्वन्तोऽविरुध्दा एव भवन्ति। तत्रगएहि छहिँ मासेहि, निविट्ठा य भवंति ते। ततो पच्छा य ववहारं,पट्ठवंति अणुपरिहारिया / / 368 // गएहिं छहिं मासेहि, निविट्ठा य भवंति ते। वहइ कप्पट्ठिओ पच्छा, परिहारं तहाविहं / / 366 / / ते परिहारिकाः षद्भिमसिंर्गतैस्तपसिव्यूढे सति निविष्टा निर्विष्टकायिका भवन्ति, ततः पश्चादनुपरिहारिका व्यवहार परिहारतपसः समाचार प्रस्थापयन्ति कर्तुं प्रारभन्ते / तेऽपि षड्भिमौसैर्गतैर्निविष्टा भवन्ति, पश्चात्कल्पस्थितोऽपि तथाविधं परिहारं तावदेव मासं वहति। एवंचअट्ठारसीहँ मासेहिं, कप्पो होति समाणितो। मूलढवणाए समं, छम्मासा उ अणूणगा।।४०० / / अष्टादशभिर्मासरयं कल्पः समापितो भवतिः कथमित्याह-(मूलढवणा इत्यादि) मूलस्थापना नामयत्परिहारिकाः प्रथमत इदं तपः प्रतिपद्यन्ते, तस्यां षण्मासा अन्यूनास्तपो भवति, एवममुं पारिहारिकाणां कल्पस्थितस्य च मूलस्थापनया समं तुल्यं तपः प्रत्येकं ज्ञेयं, षण्मासान् यावदित्यर्थः / एवं त्रिभिः षद्भिरष्टादश मासा भवन्ति। ते च द्विधाजिनकल्पिकाः, स्थविरकाल्पकाश्च। उभयेषामपि व्याख्यानमाहएवं समाणिए कप्पे,जे तेसिं जिणकप्पिया। तमेव कप्पं ऊणावि, पालए जावजिवियं / / 401 / / एवमनन्तरोक्तविधिना अष्टादशभिर्मासैः कल्पे समापिते सति ये तेषा मध्यात् जिनकल्पिकास्ते तमेव कल्पमूना अपि अष्टाऽऽदिसंख्याका अपि यावद्धीवं पालयन्ति। अट्ठारसेहिँ पुण्णेहिं,मासेहिं थेरकप्पिया। पुणो गच्छं नियच्छंति, एसा तेसि अहाठिती।।४०२।। ये स्थविरकल्पिकास्ते अष्टादशभिर्मासैः पूर्णः पुनः भूयोऽपि (गच्छ ति) गच्छं नियच्छन्ति आगच्छन्तीत्यर्थः / एषा तेषां यथास्थि तिर्यथाकल्पः। अथ षड्धायां कल्पस्थितौ का कुत्रावतरतीत्याहतइयचतुत्या कप्पा, समोयरंति तु ठियम्मि कप्पम्मि। पंचमछट्टटितीसुं, हेठिल्लाणं समोयारो॥४०३ // तृतीयचतुर्थी निर्विशमानकनिर्विष्टकायिकाऽऽख्यौ द्वितीये छेदोपस्थापनीयनास्तिककल्पे समवतरतः। तथा सामायिकच्छेदोपस्थापनीयनिर्विशमानकनिर्विष्टकायिकाऽऽख्या आद्याश्चतस्त्रः स्थितयोरधस्तन्य उत्पद्यन्ते / तासां परमाषष्ठस्थित्योर्जिनकल्पस्थविरकल्पस्थितिरूपयोः समवतारो भवति / गतं निर्विशमानकनिर्विष्टकायिककल्पस्थितिद्वयम्। बृ०६ उ०। स्था० / अनु०। उत्त०। कर्म० प्रज्ञा०। अर्थत परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा भवन्ति? उच्यते-इह क्षेत्राऽऽदिनिरूपणार्थं विंशतिद्वाराणि। तद्यथा-क्षेत्रद्वारम् 1, कालद्वारम 2, चारित्रद्वारम् 3, तीर्थद्वारम् 4, पर्यायद्वारम् 5, आगतद्वारम् 6, वेदंद्वारम् 7, कल्पद्वारम्,लिङ्गद्वारम् ,लेश्याद्वारम् १०,ध्यानद्वारम 11, गणद्वारम् 12, अभिग्रहद्वारम् 13, प्रव्रज्याद्वारम् 14, मुण्डापनाद्वारम् 15, प्रायश्चित्तविधिद्वारम् १६,कारणद्वारम् 17, निःप्रतिकर्मताद्वारम् 18, भिक्षाद्वारम् 16, बन्धद्वारम् 20 // तत्र क्षेत्रे द्विधा मार्गणाजन्मतः, सदभावतश्च, यत्र क्षेत्रे जातस्तत्र जन्मतो मार्गणा। यत्र च कल्पे स्थितो वर्तते तत्र सद्भावतः। उक्तंच-"खेत्ते दुहेह मग्गण, जम्मणओ चेव संति भावे य जम्मणओ जहिँ जातो, सतीभावो जहिं कप्पो॥१॥"तत्र जन्मतः सद्भावतश्व पञ्चसु भरतेषु पञ्चस्वैरावतेषु, न तु महाविदेहेषु,न चैतेषां संहरणमस्ति. येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिष्वकर्मभूमिषु वा प्राप्येरन्। उक्तं च-"खित्ते भरहेरवए, सुहोति संहरणवज्जिया नियमा।" कालद्वारे-अवसर्पिण्यांतृतीये चतुर्थे वाऽऽरके जन्मसद्भावः, पञ्चमेऽपि उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे या जन्मसद्भावः, पुनस्तृतीये चतुर्थे वा / उक्तं च "ओसप्पिणीऍ दोसुं, जम्मणओ तीसु संतिभावेणं / उस्सप्पिणिविवरीओ, जम्मणओ संतिभावे य॥१॥ उत्सर्पिण्यवसर्पिणीरूपे तु चतुऽऽरिकप्रतिभागकाले न सम्भवति, महाविदेहक्षेत्रे तेषामसम्भवात्। चारित्रद्वारेसंयमस्थानद्वारेण मार्गणा, तत्र सामायिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि, तानि परस्परतुल्यानि, समानपरिणामत्वात्, ततोऽसङ्ख्येयलोकाऽऽकाशप्रदेशप्रमाणानि संयमस्थानान्यतिक्रम्योर्द्ध यानि संयमस्थानानि तानि परिहारविशुद्धिकयोग्यानि तान्यपि च केवलिप्रज्ञया परिभाव्यमानानि असङ्ख्येयलोकाऽऽकाशप्रदेशप्रमाणानि, तानि प्रथमद्वितीयचारित्राविरोधीनि, तेष्वपि संभवात्, तत ऊध्र्व यानि संख्यातीतानि संयमस्थानानि तानि सूक्ष्मसम्पराययथाख्यातचारित्रयोग्यानि। उक्तं च-"तुल्ला जहन्नठाणे, संयमठाणेण पढमविइ-याणं। तत्तो असंखलोए, गंतुं परिहारियट्ठाणा // 1 // ते वि असंखा लोगा, अविरुद्धा चेव पढमविइयाणं। उवरि वि ततोऽसंखा, संयमठाणा उदोण्हं पि" // 2 // तत्र परिहारविशुद्धिक कल्पप्रतिपत्तिः स्वकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति, न शेषेषु, यदा त्वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेषेष्वपि स यमस्थानेषु भवति, परिहारविशुद्धिकल्पसमाप्त्यनन्तरमन्येष्वपिचारित्रेषु संभवात्,