________________ परिहारविसुद्धिय 695 - अभिधानराजेन्द्रः - भाग 5 परिहारविसुद्धिय तष्वपि च वर्तमानस्यातीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वाविरोधात् / उक्त च-''सट्टाणे वडिवत्ती, अन्नेसु वि होज पुव्वपडिवन्नो / तेसु वि वस॒तो सोऽतीतनयं पप्प युञ्चति उ॥३॥ तीर्थद्वारेपरिहारविशुद्धिको नियमतस्तीर्थप्रवर्त्तमान एव सति भवति, न तच्छेदो नानुत्पत्या वा तदभावे जातिस्मरणाऽऽदिना / उक्तं च-"तित्थ त्ति नियमतो च्चिय, होइ स तिथिमि न ऊण तद्दभावे / विगएऽणुप्पन्ने वा, जाईसरणाइएहिं तु " 1.1 / पर्यायद्वारेपर्यायो द्विधा गृहस्थपर्यायो, यतिपर्यायश्च / एकैकोऽपि द्विधा-जधन्यतः, उत्कर्षतश्च। तत्र गृहस्थपर्यायो जघन्यतः एकोनत्रिंशद्वाणि, यतिपर्यायो विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्वकोटीप्रमाणी। उक्तं च- ''एगस्त एस नेओ, गिहिपरियाओ जहन्न गुणतीसा जइपरियाओ वीसा, दोसु वि उक्कोसदेसूणो" / / 1 / / आगमद्वारे-अपूर्वगमागम सनाधीत यस्मात्तत्कल्पमधिकृत्य प्रगृहीतोचितयोगाऽऽराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं तु विस्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यकप्रायोऽनुस्मरति। आह च-- ''अप्पु वं न अहिजइ, आगममेसो पडुच्च कप्पं तु। जमुचियपगहियजोगा-राहणओ चेव कयकिच्चो // 1 // पुव्वाहीपं तु तयं, पायं अणुसरइ निच्चमेवेस। एगग्गमणो सम्म, विस्सोयसिगाएँ खयहेऊ॥२॥' वेदद्वारे -नित्यं प्रवृत्तिकाले वेदे पुरुषवेदो भवेत्, नपुंसकवेदो वा, न सीवेदः, स्त्रियाः परिहारविशुद्विकल्पप्रतिपत्यसंभवात्। अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वाऽवेदो वा, तत्र सवेदं श्रणिप्रतिपत्त्यभावे, उपशमश्रेणिप्रतिपत्तौ त्ववेद इति / उक्तं च--''वेदो प्रवित्तिक ले, इत्थीवेदो उ होइ एगयरो / पुव्वपडिवन्नगो पुण, होज्ज सवेदो अवेदो वा / / 1 / / " कल्पद्वारे-स्थितकल्पे एवायं, नास्थितकल्पे, "ठियकप्पम्मि य नियमा' इति वचनात्। तत्राचेलक्याऽऽदिषु दशस्वपि स्थानेषु य स्थिताःसाधवस्तत्कल्पः स्थितकल्प उच्यते। ये पुनश्चतुर्यु शय्यातरपिण्डेष्वेवावस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलेक्याऽऽदिषु षट्सु अस्थितास्तत्कल्पोऽस्थितकल्पः / उक्तं च-''छिय अट्ठिओ य कप्पो, आचेलुक्काइएसु ठाणेसु / सब्वेसु ठिया पढमो, च उ ठिय छसु अद्विया बीओ।१।।' आचेलक्याऽऽदीनि च दश स्थानान्यमूनि / "आचेलकुदृसिय, सिज्जायर रायपिंड कियम्मं / वयजेट पडिक्कमणं, मासं पलोसवणकप्पो // 1 / / " चत्वारश्चावस्थिताः कल्पा इमे"सेज्जारपिंडम्मी, चाउज्जामे य पुरिसजे? या किइकम्मस्स य करणे, चत्तारि अवडिया कप्पा ॥२॥“लिङ्गद्वारे-नियमतो द्विविधेऽपि लिने भवते। तद्यथा-द्रव्यालिङ्ग, भावलिङ्ग च, एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात् / लेश्याद्वारे-तेजःप्रभृतिकास्वितरासु तिसुषु विशुद्धासु लेश्यासु परिहारविशुद्धिक कल्पं प्रतिपद्यते पूर्वप्रतिपन्नः पुनः सर्वास्वपि कथञ्चिद्भवति, तत्राऽपीश्वराविशुद्धिलेश्यासुनात्यन्तसंक्लिशासु वर्तते, तथाभूतासु वर्तमानो न प्रभूतं कालमवतिष्ठते, किंतु स्तोकं, अतः स्ववीर्यवशात् झटित्येव ताभ्यो व्यावर्त्तते। अथ प्रथमत एव कस्माप्रवर्तते? उच्यते-कर्मवशात्। उक्तंच"लेसासु विसुद्धासुय, पडिवज्जइतीसुन उण सेसासु / पुव्वपडिवन्नओ पुण, होज्जा सव्वासु वि कहिं चि।।१।। णचंतसंकिलिट्टासु, थोवं कालं च वहति न इयरासु / विचित्तकम्माण गई, तहा वि वीरियफलं देइ॥२॥" ध्यानद्वारे-धर्मध्यानेन प्रवर्द्धमानेन परिहारविशुद्धिक प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरातरोतद्वयोरपि भवति, केवलं प्रायेण निरनुबन्धः / आह च'झाणम्मि वि नियमेणं, पडिवज्जइ सो पवड्डमाणेण / इयरेसु वि झाणेसु, पुटवपडिवन्नो न पडिसिद्धो॥१॥ एवं च झाणजोगे, उद्दामे तिव्वकम्मपरिणामा। रोद्वद्देसु वि भावो, इमरन पायं निरणुबंधो // 2 // " गणनाद्वारे-जघन्यतस्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतसङ्ख्याः , पूर्वप्रतिपन्नाः / जघन्यत उत्कृष्ठतो वा शतशः, पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः, उत्कर्षतः सहस्त्र, पूर्वप्रतिपन्नाः पुनर्जधन्यतः शतशः उत्कर्षतः सहस्त्रशः। आह च"गणओ तिन्नेव गणा, जहन्नपडिवत्ति सयस्स उक्कोसा। उक्कोसजहण्णेणं, सयसो चिय पुव्वपडिवन्ना।।१।। सत्तावीस जहन्ना, सहस्स मुक्कोसओ य पडिवत्ती। सयसो सहस्ससोवा,पडिवन्न जहन्न उक्कोसा।।२।।" अन्यत्र यदा पूर्वप्रतिपन्नकल्पमध्यादेको निर्गच्छति, अन्यः प्रविशति तदोनप्रक्षेपप्रतिपत्तौ कदाचिदेकोऽपि भवति पृथकत्वं वा, पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते, पृथक्त्वं वा / उक्तं च"पडिवज्जमाणभयणा-ए होज्ज एक्को विऊणपक्खेवे। पुव्वपडिवन्नया वि य, भइया एक्को पुहुत्तं वा / / 1 / / '' अभिग्रहद्वारे-अभिग्रहाश्चतुर्विधाः / तद्यथा-द्रव्याभिग्रहाः, क्षेत्राऽभिग्रहाः कालभिग्रहाः, भावभिग्रहाश्च / एते चान्यत्र चर्चिताः इति न भूयश्चर्च्यते / तत्र परिहारविशुद्धिकद्धिस्यैतेऽभिग्रहा न भवति। यस्मादेतस्य कल्प एव यथोदितरूपोऽभिग्रहो वर्त्तते। उक्तंच 'दव्वाई अभिग्गह, विचित्तरूवा न होंति पुण केइ। एयस्स जीयकप्पो, कप्पो चियऽभिग्गहो जेण // 1 // एयम्मि गोयराई, नियया नियमेण निरखवादा य। तप्पालणे वि य परं, एयस्स विसुद्धिठाणं तु॥२॥" प्रव्रज्याद्वारे-नासावन्य प्रव्राजयति कल्पस्थितिरेषेति कृत्वा आह च'पव्वावेइ न एसो, अन्नं कप्पट्टिइ त्ति काऊणं / " इति / उपदेश पुनर्यथाशक्ति प्रयच्छति। मुण्डापनद्वारेऽपि नासावन्यं मुण्डयति / अथ प्रव्रज्याऽनन्तर नियमतो मुण्डनमिति प्रव्रज्याग्रहणेनैव तद्गृहीतमिति किमर्थ पृथक् द्वारम्? तदयुक्तम् / प्रव्रज्याद्वारे नियमतो मुण्डनस्यासम्भवात् अयोग्यस्य कथविद् दत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डनायोगादतः पृथगिदं द्वारमिति / प्रायश्चित्तविधिद्वारेमनसाऽपि सूक्ष्ममप्यतिचारमा-पन्नस्य नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्य, यत एष कल्प एकाग्रताप्रधानः, ततस्तद्भङ्गे गुरुतरदोष इति / कारणद्वारे-तथ कारणं नाम आलम्बन, यत्पुनः सुपरिशुद्ध ज्ञानाऽऽदिक, तचास्य न विद्यते ये न तदाश्रिन्यापवादपदसेविता स्यात्। एष हि सर्वत्र द्विरपेक्षक्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव स्वकल्पे यथोक्तविधिना समापयन महात्मा वर्त्तते। उक्तंच''कारणमालंबण मोत्तुं, पुण नाणाई य सुपरिसुद्धं / एयस्स तं न विजइ, उचियतपसाहणोपायं / / 1 / / सव्वत्थ निरवयक्खो, आढत्त चिय दढसमाणंतो। वट्टइ एस महप्पा, किलिट्ठकम्मक्खयनिमित्तं / / 2 / / "