________________ परिहारविसुद्धिय 693 - अभिधानराजेन्द्रः - भाग 5 परिहारविसुद्धिय दसविहे य पच्छित्ते, सव्वे विपरिनिट्ठिया / / 385 / / सर्वेऽपि भगवन्तः चारित्रवन्तो दर्शने च सम्यक्त्वे परिनिष्ठिताः परमकोटिमुपगताः ज्ञानमगीकृत्य तुनवपूर्विणो जघन्येनोत्कर्षतो दशपूर्विणः, किचिन्न्यूनदशपूर्वधरा मन्तव्याः, तथा पञ्चविधे व्यवहारे आगमश्रुताज्ञाऽऽधारणाजीतलक्षणे, द्विविधे च कल्पे अकल्पस्थापनाकल्परूपे जिनकल्पस्थविरकल्परूपे वा दशविधे प्रायश्चित्ते आलोचनाऽऽदौ णराक्षिकान्ते सर्वेऽपि परिनिष्ठिताः परिज्ञायां परां निष्ठा प्राप्ताः। अप्पणो आउगं सेसं, जाणित्ता ते महामुणी। परक्कमं च बलविरियं, पच्चवाए तहेव य॥३८६॥ आत्मन आयुः शेषं सातिशयश्रुतोपयोगेन ज्ञात्वा ते महामुनयो बलं शारीरं सामर्थ्य, वीर्य जीवशक्तिः , तदुभयमपि दर्शितस्वफलं पराक्रमः, एतान्यात्मनो विज्ञायाऽमुं च कल्पं प्रतिपद्यन्ते / प्रत्यपाया जीवितोपट्रटकारिणो रोगाऽऽदयस्तानपि तथैव प्रथममेव भोगयति, किं प्रतिपन्नानां भविष्यन्ति न वेति, यदि न भवन्ति ततः प्रतिपद्यन्ते, अन्यथा तुनेति। आपुच्छिऊण अरहंते, मग्गं देसंति ते इमं / पमाणाणि य सव्वाइं, अभिग्गहे य बहुविहे / / 387 // अर्हतस्तीर्थकृत आपृच्छय तेषामनुज्ञया अमुकल्पं प्रतिपद्यन्ते। ते च / तीर्थकृतस्तेषां प्रन्तुतकल्पस्य इमम् अनन्तरमेव वक्ष्यमाणं मार्ग सामाचारी देशयन्ति / तद्यथा-प्रमाणानि च सर्वाणि, अभिग्रहांश्च बहुविधान्। एतान्येव व्याचष्टेगणोवहिपमाणाई, पुरिसाणं च जाणितुं। दव्वं खेत्तं च कालं च, भावमण्णे य पज्जवे // 385 / / गणप्रमाणानि उपधिप्रमाणानि पुरुषाणां च प्रमाणानि यानि प्रस्तुते काले जघन्याऽऽदिभेदादनेकधा भवन्ति / यच तेषां द्रव्यमशनाऽऽदिक कल्पनीयं, यच्च क्षेत्र मासकल्पप्रायोग्यं च वर्षावासप्रायोग्यं वा यतश्च तयोरेव मासकल्पवर्षावा सयोः प्रतिनियतः कालो, यश्च भावः क्रोधनिग्रहाऽऽदिरूपो, ये चान्येऽपि निष्प्रतिकर्मताऽऽदयो लेश्याध्यानाऽऽदयो वा पर्यायास्तेषां संभवन्ति तान् सर्वानपि भगवन्तस्तेषामुपदिशन्ति, स एको वा द्वौ वा अनेके वा भवेयुः। तत्र यावद्भिः परिहारिकगण ऊनस्तावता उपसंपदर्थमागतानां मध्यात गृहीत्वा गणः पूर्यत, ये शेषास्ते पारिहारिक तपस्तुलनां कुर्वन्तः तिष्ठन्ति, ते च पारिहारिकः सार्द्ध तिष्ठन्तोऽविरुद्धा भवन्ति, पारिहारिकाणामकलनीया भवन्तीत्यु-क्तं भवति; तेच तावत् तिष्ठन्ति यावदन्ये उपसंपदर्थमुपतिष्ठन्ति, तैः पूरयित्वा पृथग् गणः क्रियते। इदमेव व्याख्यातितत्तो य ऊणए कप्पे, उपसंपज्जति जो तहिं। जत्तिएण गणो ऊणो, तत्तिए तत्थ पक्खिवे / / 386 / / ततश्च पूर्वोक्तकारणादूनके एक व्यादिभिः साधुभिरूने कल्पे यस्तत्रोपसंपद्यते तत्रायं विधिर्यावद्भिरेकाऽऽदिसंख्याकैः स गणः ऊनस्तावत्संख्याकान् तत्र गणे प्रक्षिपेत् प्रवेशयेत्। ततो अणूणए कप्पे, उवसंपज्जति जे तहिं / उवसंपज्जमाणं तु, तप्पमाणं गणं करे / / 360 / / अथ कोऽप्युपद्रवैर्न कालगतस्तत एवमन्यूनके कल्पे ये तत्रोपसंपद्यन्ते ते यदि नव जनाः पूर्णास्ततः पृथग् गणो भवति / अथाऽपूर्णास्ततः प्रतिक्षिप्यन्ते यावदन्ये उपसंपदर्थमागच्छन्ति, ततस्तमुपसंपद्यमान साधुजन मीलयित्वा तत्प्रमाणं नवपुरुषमान गणं कुर्यात् स्थापयेत्। पमाणं कप्पट्ठितो तत्थ, ववहारं ववहरित्तए। अणुपरिहारियाणं पि, पमाणं होति से विऊ // 361 // तेषां परिहारिकाणां तत्र कल्पे वचित् स्खलिताऽऽदौ आपन्ने व्यवहारप्रायश्चित्तं व्यवहर्तुं दातुं कल्पस्थितःप्रमाणं, यदसौ प्रायश्चित्तं ददाति तत्तैर्वोढव्यमिति भावः / एवमनुपरिहारिकाणामप्यपराधपदमापन्नानास एव विद्वान् गीतार्थः प्रायश्चित्तदाने प्रमाणम्। आलोयण कप्पठिते, तवमुजाणोवमं परिवहंते। अणुपरिहारिऐं गोवा-लऐं णिचं उज्जुत्तमाउत्तो॥३६२॥ ते परिहारिकानुपरिहारिकाः, आलोचनमुपलक्षणत्वात् वन्दनक प्रत्याख्यानं च कल्पस्थितस्य पुरतः कुर्वन्ति। (तवमुजाणोवमं परिवहते त्ति) यथा किल कश्चिदुद्यानिकां गत एकान्तरतिप्रसक्तस्वच्छन्दसुखं विहरमाण आस्ते, एवं तेऽपि पारिहारिका एकान्तसमाधिसिन्धुनिमग्नमनसस्तत्तप उद्यानोपमम् उद्यानिकासदृशं परिवहन्ति, कुर्वन्तीत्यर्थः। अनुपरिहारिकाश्च चत्वारोऽपि परिहारिकाणां भिक्षाऽऽदौ पर्यटतां पृष्ठतः स्थिता नित्यमुद्यतकाः प्रयत्नवन्त आयुक्ताश्च उपयुक्ता हिण्डन्ते, यथा गोपालको गवां पृष्ठतः स्थित उद्युक्त आयुक्तश्च हिण्डते। पडिपुच्छं वायं णं, मोत्तूणं एत्थि संकहा। आलावो अत्तणिद्देसो, परिहारस्स कारणे // 363!! तेषां च पारिहारिकाऽऽदीनां नवानामपि जनानां सूत्रार्थयोः प्रतिपृच्छां वाचं मृक्त्वा नास्त्यन्योन्यं परस्परं संकथा, पहारिकस्य च कारणे उत्थाननिषीदनाऽऽद्यशक्तिरूपे आलापआत्मनिर्देशरूपो भवति, यथा उत्थास्यामि, उपवेक्ष्यामि, भैक्ष्यं हिण्डिमात्रकं प्रेक्ष्ये इत्यादि। वारस दसऽट्ठ दस अट्ठ छच्चऽट्ठछचउरो य उक्कोसं। मज्झिमजहन्नगा ऊ, वासासिसिरगिम्हे उ॥३६४ || पारिहारिकाणां वर्षाशिशिरग्रीष्मरूपे त्रिविधे काले उत्कृष्ट-मध्यमजघन्यानि तपांसि भवन्ति / तत्र वर्षारात्रे उत्कृष्ट तपो द्वादशं, शिशिरे दशमम् उत्कृष्ट ग्रीष्मे अष्टमं वर्षाराचे मध्यमं दशमं शिशिरे अष्टम, ग्रीष्मे षष्ठ वर्षारात्रे जघन्यमष्टम, शिशिरेषष्ठ, ग्रीष्मे चत्वारि भक्तानि, चतुर्थमित्यर्थः। आयंबिलवारसगं, पत्तेयं परिहारगा परिहरंति। अभिगहितएसणाए, पंचण्ह वि एगों संभोगो।।३६५ || परिहारिका: उत्कर्ष तो द्वादशतपः कृत्वा आचाम्ले न पारयन्ति, ते च परिहारिकाश्चत्वारोऽपि प्रत्येक पृथक परिहरन्ति, न परस्परं समुद्देशनाऽऽदिसंभोगं कुर्वन्तीत्यर्थः /