________________ पओग 46 - अभिधानराजेन्द्रः - भाग 5 पओगपच्चयफडुयपरूवणा औदारिकमिश्रशरीरकायप्रयोगिणोऽपि, कार्मणशरीरकायप्रयोगिणोऽपि सदा बहव एव लभ्यन्ते, इति पदत्रयबहुवचनाऽऽत्मकः प्रत्येकमेक एव भङ्गः, वायुकायिकेष्वौदारिकद्विकवैक्रियद्विककार्मणशरीरलक्षणपदपञ्चकबहुवचनाऽऽत्मक एको भङ्गः, तेषु वैक्रियशरीरिणा, वैक्रियमिश्रशरीरिणां च सदैव बहुत्वेन लभ्यमानत्वात्। द्वीन्द्रियेषु यद्यप्यन्तर्मुहूर्तकोपपातविरहकालः, तथाऽप्युपपातविरहकालोऽन्तर्मुहूर्त लघु, औदारिकमिश्रगतमन्तर्मुहूर्तमतिबृहत्प्रमाणमत औदारिकमिश्रशरीरकायप्रयोगिणोऽपि तेषु सदैव लभ्यन्ते / कार्मणशरीरकायप्रयोगी तु कदाचिदेकोऽपि न लभ्यते आन्तमौहूर्तिकोपपातविरहकालभावात्। यदाऽपि लभ्यते तदाऽपि जघन्यत एको द्वौ वा, उत्कर्षतोऽसंख्येयाः। ततो यदा एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा प्रथमो भङ्गः / यदा पुनरेकः कार्मणशरीरी लभ्यते, तदा द्वितीयो, यदा बहवस्तदा तृतीय इति। एवं त्रिचतुरिन्द्रियेष्वपि भावनीयम्। (पंचिंदियतिरिक्खजोणिया जहा नेरइया इत्यादि) पञ्चेन्द्रियतिर्यग्योनिका यथा नैरयिकास्तथा वक्तव्याः नवरं वैक्रियनिश्रशरीरकायप्रोगिस्थाने आदारिक औदारिकमिश्रशरीरकायप्रयोगिणो वक्तव्याः / किमुक्तं भवति?-सत्यमनःप्रयोगिणोऽपीत्यादि तावद्वक्तव्यं यावदसत्यामृषावाक्-प्रयोगिणोऽपि, तत औदारिकशरीरकायप्रयोगिणोऽपि, औदारिकमिश्रशरीरकायप्रयोगिणोऽपीति वक्तव्यम् / एतानि दश पदानि बहुवचनेन सदाऽवस्थितानि / यद्यपि व तिर्यग्पश्चेन्द्रियाणामप्युपपातविरहकाल अन्तर्मुहूर्त्तकस्तथाऽप्युपपातविरह-कालान्तर्मुहूर्त लघु, औदारिकमिश्रान्तर्मुहूर्त्तमतिबृहदित्यत्राप्यौदारिकमिश्रशरीरकायप्रयोगिणः सदा लभ्यन्ते / यद्वस्तु द्वादशमुहूर्त्तक उपपतिविरहकालः स गर्भव्युत्क्रन्तिकपञ्चेन्द्रियतिरश्वां, न सामान्यपञ्चेन्द्रियतिरश्चामिति / कार्मणशरीरकायप्रयोगी तु तेष्यपि कदाचिदेकोऽपिनलभ्यते, आन्तर्मुहूर्तकोपपातविरहकालभावात्। ततो यदा एकोऽपि कार्मणशरीरी न लभ्यते तथा प्रथमो भङ्गः। यदा पुनरेको लभ्यते तदा द्वितीयः। यदा बहवस्तदा तृतीयः। मनुष्येषु मनश्चतुथ्यवाक्चतुष्टयौदारिकवैक्रियद्विरूपाण्येकादशपदानि सदैव बहुवचनेन लभ्यन्ते। वैक्रियमिश्रशरीरिणः कथं सदैव लभ्यन्ते?, इति चेदुच्यते-विद्याधराऽऽद्यपेक्षया / तथाहि विद्याधरा अन्येऽपि के चिन्मिथ्यादृष्ट्यादयो वेक्रियलब्धिसम्पन्ना अन्योन्यभावेन सदैव विकुर्वणायां लभ्यन्ते। आह च मूलटीकाकार:-मनुष्या वैक्रियमिश्रशरीरप्रयोगिणः, सदैव विद्याधराऽऽदीनां विकुर्वणाभावादिति। औदारिकमिश्रशरीरकायप्रयोगी, कार्मणशरीरकायप्रयोगी च कदाचित्सर्वथा न लभ्यते, द्वादशमौहूर्त्तिकोपपात - विरहकालभावात् / आहारकशरीरी, आहारकमिश्रशरीरी वा कादाचित्कः प्रागेवोक्तः, तत औदारिकमिश्राऽऽद्यभावे पदैकदेशबहुवचनलक्षणे एको भङ्गगः / तत औदारिकमिश्रपदेन एकवचनबहुवचनाभ्यां द्वौ भङ्गो। एवमेव द्वौ भङ्गो आहारकपदेन, द्वौ चाऽऽहारकमिश्रपदेन, द्वौ कार्मणपदेनेत्येकैकसंयोगे अष्टौ भङ्गाः। द्विकसंयोगे प्रत्येकमेकवचनबहुवचनाभ्यामौदारिकमिश्राऽऽहारकपदयोश्चत्वारः। एवमेव औदारिकमिश्राऽऽहारकमिश्रयोश्चत्वारः, औदारिकमिश्रकर्मणयोश्चत्वारः, आहारकाऽऽहारकमिश्रयोश्चत्वारः, आहारककार्मणयोश्चत्वारः, आहारकमिश्चवार्मणयोश्चत्वार इति सर्वसंख्यया द्विकसयागे चतुर्विशतिभङ्गाः, त्रिकसंयोगे औदारिकमिश्राऽऽहारकाऽऽहारकभिश्रपदानामेकवचनबहु वचनाभ्यामष्टौ भङ्गाः, औदारिकमिश्राऽऽहारककार्मणानामष्टी, औदारिकमिश्राऽऽहारकमिश्रकार्मणानामष्टौ वाऽऽहारकाऽऽहारकमिश्रकार्मणानामिति सर्वसंख्यया त्रिकसंयोगे द्वात्रिंशद्भङ्गाः। औदारिकमिश्राऽऽहारकाऽऽहारकमिश्रकार्मणरूपाणां तु चतुर्णा पदानामेकवचनबहुवचनाभ्यां षोडश भङ्गाः। सर्वसंकलनया भङ्गानामशीतिरिति उक्तप्रयोगः। एकसयोगे 8, द्विकसंयोगे 24, त्रिकसंयोगे ३२,चतुष्कसंयोगे 16 / एवं सर्वसंख्यया भङ्गाः 80 / प्रज्ञा०१६ पद। आचा०। (गतिप्रपातभेदाः 'गइप्पवाय'शब्दे तृ-तीयभागे 776 पुष्ठे द्रष्टव्याः) संक्लेशसंज्ञिते विशोधिसंज्ञिते वा वीर्यकसम्यमिथ्यासम्यमिथ्याप्रयोगः। "तिविहे पओगे प-प्रणत्ते। तं जहा-सम्मप्पओगे,मिच्छप्पओगे,सम्मामिच्छप्पओगे। "प्रयोगः सम्यक्त्वाऽऽदिपूर्वो मनः प्रभृतिव्यापार इति / अथवासम्यगादिप्रयोग उचितानुचितोभयाऽऽत्मक औषधाऽऽदिव्यापारवत् / स्था० 3 ठा० 3 उ० प्रश्न० / विसर्जनकुले , रा०नि० चू० / द्रव्योपार्जनीयविशेषे, स्था०३ ठा०१उ०। सूत्र०।"तिविहे पओगे पण्णत्ते / तं जहामणप्पओगे,वयप्पओगे, कायप्पओगे / जहा जोगो विगलेंदयवज्जाण० जाव वेमाणियाणं तहा पओगो वि।" स्था०६ ठा० / रा०। अधमर्णानां दाने, स्था०८ ठा० / उपाये, आ० चू० 1 अ० / ज्ञा० / प्रयुज्यते- इति प्रयोगः / व्यापारे, धर्मकथाप्रबन्धे, "जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा।'' सूत्र० 1 श्रु०१३ अ०। पओगकम्म न०(प्रयोगकर्मन्) पञ्चदशविधेनापि योगेनाऽऽत्माऽष्टी प्रदेशान् विहायोत्तप्तभोजनोदकवदुद्वर्तमानैः सर्वरवाऽऽत्मप्रदेशैर्वाssत्मप्रदेशावष्टब्धाऽऽकाशदेशस्थकार्मणशरीरयोग्यं कर्मदलिक बधाति तत्प्रयोगकर्मेति। कर्मभेद, आचा०१ श्रु०२ अ०१उ०॥ पओगकरण न० (प्रयोगकरण) पुरुषव्यापारनिष्पाद्ये, सूत्र, 1 श्रु०१ अ० 130 / कुसुम्भरागाऽऽदौ, आ० म०१ अ०१ ('करण' शब्दे तृतीयभागे 360 पुष्ट प्रयोगकरणं व्याख्यातम्) पओगकिरिया स्त्री० (प्रयोगक्रिया) वीर्यान्तरायक्षयोपशमाऽऽविर्भूतवीर्येणाऽऽत्मना प्रयुज्यते व्यापार्यत इति प्रयोगो मनोवाकायलक्षणः, तस्य क्रिया करण व्यापृतिरिति प्रयोगक्रिया। अथवा- प्रयोगैमनःप्रभृतिभिः क्रियते वध्यते इति प्रयोगक्रिया, कर्मेत्यर्थः / अक्रियाभेदे, दुष्टत्वेनास्या अक्रियत्वात् / स्था० 3 ठा०३ उ०। आ० चू०। कायाऽऽदिव्यापारे, स्था०५ ठा०२ उ०। "पओगाकिरिया तिविहा पण्णत्ता / तं जहा-मणपओगाकिरिया, वइप्पओगकिरिया, कायप्पाओगकिरिया / तत्थ मणपओगकिरिया अट्टरुद्दज्झणाई, वइस्पओगो वायाजोगो. जोतित्थकरेहिं सावजादीगरहिओ। सेच्छाए भासइ। कायप्पओगकिरिया पभत्तस्स गमणादकुंचणपसारणादिचेट्टाकायस्स।"आव०४ अ०॥ पओगगइ स्त्री० ( प्रयोगगति) सत्यमनःप्रभृतिकस्य पच्चदशविधस्य प्रयोगस्य प्रवृत्ती. भ० 8 207 उ०। पओगपच्चयफड्डयपरूवणा स्त्री० (प्रयोगप्रत्ययस्पर्धकप्ररूपणा) प्रकृष्टो योगः प्रयोगस्तेन प्रत्ययभूतेन कारणभूतेन येन गृहीताः पुद्गलास्तेषां स्नेहमधिकृत्य स्पर्धकप्ररूपणा प्रयोगप्रत्ययस्पर्धक प्ररुपणा / प्रयोगजन्यस्पर्धकानां प्ररूपणायाम्, क० प्र०) तत्र प्रयोगो योगः, तत्स्थानवृद्ध्या यो रसः कर्मपरमाणुषु के