________________ परिहार 661 - अभिधानराजेन्द्रः - भाग 5 परिहारविसुद्धिय हत्थं च भमाडेउ, जं अक्कमते तगं वहइ / / 363 / / यदत्रामीषां प्रायश्चित्तानां मध्ये तव रोचते तद् गृहाण, अमूनि वा अन्तिमानि पञ्च रात्रिन्दिवानि गृहाण / एवमुक्ते स यथालघुस्वकं प्रायश्चित्तं गृह्णाति / अथवा-हस्तं भ्रामयित्वा यत्प्रायश्चित्तं गुरव आत्मन्ति तकं गृह्णाति। सूरयश्चेदं तं प्रतिभणन्तिउन्भावियं पवयणं, थोवं ते तेण मा पुणो कासि। अइपरिणए मुत्तं, वेइ वहंतो वयं एअं / / 364 / / ल्या परवादिनं निगृह्णता प्रवचनमुद्भावित तेन स्तोक, ते प्रायश्चित्तं, मा पुनः भूयोऽप्येव कार्षी : 1 अथातिपरिणताश्चिन्तयेयुः-एष तावन्मात्रेण मुक्त इति / ततो यदि तस्यान्यदपरं प्रदान तपोऽपूर्ण तदा तदेव बहमानोऽतिपरिणामिकाऽऽदीना पुरतो गुरून् भणतिएतत्प्रायश्चित्तं युष्माभिर्दत्तं वहामीति। बृ०५ उ०। वर्जने च। प्रव० 10 द्वार। नि० चू० / विषयसूची१, परिहारशब्दनिक्षेपप्ररूपणम्। से पर्यायद्वारम्। 3. सूत्राथद्वारम्। 4) अभिग्रहद्वारम् / (5) तपोद्वारम्। (6) येभ्यो नियमतः शुद्धतपः परिहारतपो वा देयं तत्प्रतिपादनम्। यदि गच्छवासी एतानि पदान्यतिचरति तत इदं प्रायश्चित्तम्।। 8) शुद्धतपःपरिहारतपसोः कतरत् कर्कशं तपः। परिहारकल्पस्थि तस्य भिक्षोरन्यत्राचार्याणां वैयावृत्याय गमनम्। (8) स्थविराणां वैयावृत्याय गच्छतीत्युक्तं, तत्र किं वैयावृत्त्यं, येन हेतुभूतेन स गच्छति। (10) "जीए ति" द्वारव्याख्यानम् / (11) पिट्टनद्वारम्। (12) द्वयेरिकत्र विहरतोरन्यतरस्य परिहारतपोदानम्। (13) तृतीयं सूत्रम्। (14) परिहारकल्पस्थितंग्लायन्तम्। (15) के व्यवहार केन तपसा पूरयतीति। परिहारकप्पट्ठियपुं० (परिहारकल्पस्थित) परिहारस्य कल्पः सामाचारी परिहारकल्पस्तत्र स्थितः। प्रायश्चित्ततपः प्रकारैर्व्यवस्थिते, व्य० १उ०। परिहाट्ठाण न० (परिहारस्थान) परिहारो विषयः, तिष्ठन्ति जन्तवः कर्मकलुषिता अस्मिन्निति स्थानम् / परिहारश्च तत् स्थान परिहारस्थानम्। प्रायश्चित्तार्हकार्यविषये, व्य०१ उ०। नि० चू० / परिहारग पुं० (प्रतिहारक) पारिहारिके, उत्त० 28 अ०। परिहारविसुद्धिय पुं० (परिहारविशुद्धिक) परिहरणं परिहारस्तपोविशेषस्तेन विशुद्धं, परिहारो वा विशेषेण शुद्ध यस्मिँतत् परिहारविशुद्ध, तदेव परिहारविशुद्धिकम् / स्था० 5 ठा० 2 उ० / परिहरणं परिहारस्तपोविशेषस्तेन कर्मनिर्जरारूपा विशुद्धिर्यस्मिन् चारित्रे तत्परिहार- | विशुद्धिकम् / संयमविशेषे, बृ०६ उ० / पञ्चमहाव्रतानां परिहारे, आ० चू० 1 अ० / तृतीये चारित्रभेंदे, एतदपि द्विभेदम्-निर्विशमानकं, निविष्टकायिकं च। तत्रास्यैव चारित्रस्यासेवकाः साधवो निर्विशमानका उच्यन्ते, तदव्यतिरेकादिदमपि चारित्रं निर्विशमानकं भण्यते आसेवितंतचारित्रकायास्तु मुनयो निर्विष्टकायाः, त एव स्वार्थिकप्रत्ययोपादान्निर्विष्टकायिकाः, तदभेदादिदमपि चारित्रं निर्विष्टकायिकम्, एतत्स्वरूपं च विस्तरतो भाष्येऽभिधास्यत इति।।१२६० / / विशे० / (अत्र "से किं तं परिहारविसुद्धियचरित्तारिया / " इत्यादि सूत्रम् 'चरित्तारिय' शब्दे तृतीयभागे 1152 पृष्ट गतम्) अथ निर्विशमान-निर्विष्टकायिककल्पस्थितिद्वयं विवरीषुराहपरिहारकप्पं पवक्खामि, परिहरंति जहा विऊ। आदिमज्झऽवसाणेसु, आणुपुट्विं जहक्कम // 366 / / परिहारकल्पं प्रवक्ष्यामि / कथमित्याह-यथा विद्वांसो विदितपूर्वगतश्रुतरहस्याः, तं कल्पं परिहरन्ति, धातूनामनेकार्थत्वादासेवन्ते, कथं पुनर्वक्ष्यसीत्यत आह आदिमध्यावसानेषु यथाक्रममानुपूयेति। पंचहिं अग्गहो भत्ते, तत्थेगाए अमिग्गहो। उवहिणो अग्गहो देसे, इयरो एकतरीयओ।।३७०।। भक्ते, उपलक्षणत्वात्-पानके च संसृष्टासंसृष्टाऽऽख्यमाद्यमेषणाद्वयं वर्जयित्वा पञ्चभिरुपरितनाभिरेषणाभिराग्रहः, स्वीकारस्तत्राप्येकस्यामेकतरस्यामभिग्रहः, एकया कयाचिद्भक्तमपरया क्तपरया पानकमन्वेषयन्तीत्यर्थः। आह च वृहद्भाष्यकृत''संसट्ठमाइयाणं, सव्वण्ह एसणाण उ। आइल्लाहिँ उदोहिं तु, अग्गहो गह पंचहि / तत्थ वि अन्नतरीए, एगाएँ अभिग्गहं तु काऊणं / / " इति। उपधिर्वस्वाऽऽदिरूपस्तपस्योदिष्टाःप्रेक्षा अंतरा उज्झितधर्मकाख्याः पीठिकयां व्याख्याता, याश्चतस्र एषणास्तत्र द्वयोरुप-रितनयोराग्रहः स्वीकारः, इतरोऽभिग्रहः, स एकतरस्यामुपरितन्यां भवति, यदा चतुर्थ्यां न तदा तृतीयायां, यदा तृतीयायां न तदा चतुर्थ्यां गृह्णातीति भावः / कदा पुनस्तेऽमुंकल्पं प्रतिपद्यन्ते इत्याह-- अइरुग्गयम्मि सूरे, कप्पं देसंति ते इमं / आलोइय पडिक्कंता, ठावयंति तओ गणे।।३७१।। अचिरोद्गते सूर्ये ते भगवन्तः कल्पमिमं देशयन्ति, स्वयं प्रतिपन्ना अन्येषा दर्शयन्ति, तत आलोचितप्रतिक्रान्ता आलोचनाप्रदानपूर्व प्रदत्तमिथ्यादुष्कृतास्त्रीन् गणान स्थापयन्ति। तेषु च त्रिषु गणेषु कियन्तः पुरुषा भवन्तीत्याह-- सत्तावीसं जहण्णेण, उक्कोसेण सहस्ससो। निग्गंथसूरा भगवंतो, सव्वम्गेणं वियाहिया।।३७२।। सप्तविंशतिः पुरुषा जघन्येन भवन्ति, एककैस्मिन् गणे, उत्कर्षतः सहस्रशः सहस्रसंख्याः पुरुषा भवन्ति, शताग्रशो गणानामुत्कर्षतो वक्ष्यमाणत्वात् / एवं ते भगवन्तो निर्ग्रन्थसूराः सर्वाग्रेण सर्वसंख्यया व्याख्याताः।