________________ परिहार 660 - अभिधानराजेन्द्रः - भाग 5 परिहार श्वापदा: १,स्तेनाः २,श्वापदा अपि स्तेना अपि 3, एतत्रयमा अथवाअनुकम्पया 1, प्रत्यनीकतया 2, अनुकम्पाप्रत्यनीकाभयार्थतया वा 3 / अथवा-तिस्रो विराधनाः, तद्यथा-स ग्रामे पारिहारिकः प्राप्तो बहिमि पर्यटति उत्तरति। अथ वेलाऽतिक्रमो दूरे वा स ग्रामस्न्ततस्तत्रैव मूलग्रामे अर्द्ध परिहारिकः पर्यटति अर्द्ध गच्छसाधवः, तेन अटिते वा गच्छः पर्यटति। किंबहुना? पक्षद्वयस्याप्ययं परमार्थः / उच्यतेकप्पट्ठिएँ परिहारी, अणुपरिहारी व भत्तपाणाणं। पंथे खित्ते व दुवे, सो वि य गच्छस्स एमेव / / 720 / / पथि वा क्षेत्रे वा द्वयोरपि वर्त्तमाने ग्लानत्वाऽऽदौ कारणे कल्पस्थितः परिहारी अनुपरिहारिको वा पारिहारिकस्य भक्तपानौपग्रहं करोति, सोऽपि च पारिहारिको गच्छस्यैवमेवोपग्रह करोति। बृ० 4 उ०। परिहारिकप्पट्टिए भिक्खू बहिया थेराणं वेयावडियाए गच्छेज्जा, से य आहच अइक्कमिजा, तं च थेरा जाणिज्जा अप्पणो आगमेण अन्नेसिं वा अंतिए सुचा, तओ पच्छा तस्स अहालहुस्सए नाम ववहारो पट्टवेयव्ये सिया।।५३ / / अस्य संबन्धमाहनिक्कारणपडिसेवी, अजयणकारी व कारणे साहू। अहवा चिअतकिच्चे, परिहारं पाउणे जोगो॥३५२ / / निष्कारणे मात्रम्रक्षणाऽऽदिकं प्रतिसेवितुं शीलमस्येति निष्कारणप्रतिसेवी स तथा, कारणे वा योऽयतनाकारी पूर्वोक्तयतनां विना गात्रम्रक्षणविधायी साधुः। अथवा-यस्त्यक्तकृत्यो नीरुगभूतोऽपि तदेव मक्षणाऽऽदिकमुपजीवति, स परिहारतपः प्राप्नुयादिति योगः संबन्धः। अनेन संबन्धेनाऽऽयातस्यास्य सूत्रस्य (53) व्याख्यापरिहारकल्पस्थितो भिक्षुर्बहिरन्यत्र नगराऽऽदौ स्थविराणामाचार्याणामादेशेन वैयावृत्यर्थं गच्छेत् / किमुक्तं भवति? अन्यस्मिन् गच्छे केषाश्चिदाचार्याणां वादी नास्तिकोऽऽदिक उपसंस्थितः तेषां च नास्तिवादलब्धिसंपन्नस्ततस्ते येषामाचार्याणां सपरिहारिकस्तेषामन्तिके संघाटक प्रेषयन्ति / स च संघाटको ब्रूतेवादिनं कमपि मुत्कलयत / एवमुक्ते ते आचार्याः परिहारक परवादिनिग्रहक्षम मत्वा प्रेषयन्ति, ततस्तदा देशादसौ परिहारतपो वहमान एव गच्छेत् / इदं च महत्प्रवचनस्य वैयावृत्यं यदग्लानया परवादिनिग्रहणं, ततस्तदर्थ गतः स परिहारिकः (आहच) कदाचिदतिक्रमेत् पादधावनाऽऽदिक प्रतिसेवितुम्, तत् स्थविरा मौलाऽऽचार्या आत्मन आगमनावध्याद्यतशयज्ञानेन अन्येषां वा अन्तिके श्रुत्वा जानीयुः / ततः पश्चात् तत्परिज्ञानानन्तरं तस्य पारिहारिकस्य यथालघुस्वको नाम स्तोकप्रायश्चित्तरूपो व्यवहारः प्रस्थापयितव्यः स्यादिति सूत्रार्थः। अथ भाष्यम्परिहारिओ य गच्छे, आसण्णे गच्छे वाइणा कजं / आगमणं तहिँ गमणं, कारणपडिसेवणा वाए ||353 / / परिहारिकः क्वापि गच्छे विद्यते; क्वचित्त्वासन्नेऽन्यगच्छ वादिना कार्यमुत्पन्नं, ततस्तत्र गच्छे आगमनम्। अन्यगच्छात् संघाटक आगतस्तेन च वादी प्रेष्यतामित्युक्ते गुरोरादेशात् परिहारतपो वहमानस्यैव तस्य तत्र गमनम्। तत्र गतेन तेन परवादी राजसभासमक्षं निःपिष्टप्रश्नव्याकरणः कृतस्ततःप्रवचनस्य महती प्रभावना समजनि, तेन च वादस्य करणे अमूनि प्रतिसेवितानि भवेयुःपाया व दंता व सिया उधोया, वा बुद्धहेतुं च पणीयभत्तं। तं वातिगं वा मइसत्तेहेओ, सभाजयट्ठा सुवयं च सुक्कं // 354 !! पादौ वा दन्ता वा प्रवचनजुगुप्सापरिहारार्थ धौताः स्युर्भवेयुः, प्रणीतभक्त वा घृतदुग्धाऽऽदिकं वागहेतोर्बुद्धिहेतोश्च भुक्तं भवति,''घृतेन वर्द्धते मेधा'' इति वचनात्। वातिकं नामविककट, तद्वा मतिहेतोः सत्त्वहेतोर्वा सेवितं भवेत् / मतिर्नाम परिवाद्युपन्यस्तस्य साधनस्याऽपूर्वापूर्वदूषणोहाऽऽत्मको ज्ञानविशेषः / सत्त्वं प्रभूतप्रभूततरभाषणे प्रवर्धमान आन्तर उत्साहविशेषः सभाजयार्थ वा शुक्लं 'सुवयं' वस्त्रं प्रावृतं भवेत् "जिता वस्त्रवता सभा।" इति वचनात्। थेरा पुण जाणंती, आगमओ अहव अण्णओ सुच्चा। परिसाए मज्झमिए, ठवणा वा होइ पच्छित्ते / / 355 / / एवमादिक तेन प्रतिसेवितं स्थविराः सूरयः पुनरागमतो जानीयुः / अथवा अन्यतः श्रुत्वा, ततस्तस्य भूयः समागतस्य पर्षन्मध्ये प्रायश्चितस्य स्थापना कर्तव्या भवति। इदमेव व्याचष्टेनवदसचउदसओही, मणणाणी केवली य आगमओ। सो चेवऽण्णो उ भवे, तदणुचरो वा वि ओगो वा // 356 // नवपूर्विणो, दशपूर्विणश्चतुर्दशपूर्विणः, अवधिज्ञानिनो, मनःपर्यवज्ञानिनः, केवलज्ञानिनोवा, ते आगमातिशयेन ज्ञात्वा प्रायश्चित्तं दद्युः / अन्यो नाम स एव परिहारिकः सन्मुखादालोचनाद्वारेण श्रुत्वा / यता-ये तस्य परिहारिकस्यानुचराः सहायाः प्रेषितास्तैःकथितम्। उवको नामअन्यः कोऽपि तिर्यगापतितो मिलितः तेषां गच्छसत्को न भवतीत्यर्थः / तेन वा कथितम् यथैतनामुकं पादधावनाऽऽदिकं प्रतिसेवितम्। ततःतेसिं पच्चयहेउं, जे पेसविया सुयं व तं जेहिं। भयहेउं सेसगणे, इमाउ आरोवणारयणा / / 357 / / ये तेन सार्द्ध प्रेषिताः, यैर्वा प्रेषितैरपि तत्प्रतिसेवनं श्रुतं, तेषामुभयेषामप्यपरिणामकाना प्रत्ययहेतोः, शेषाणां च अतिपरिणामिकानां प्रत्ययहेतोः, शेषाणां च अतिपरिणामिकाना भयोत्पादनहेतोरियमारोपणा रचना व्यवहारस्थापना सूरिभिः कर्तव्या। (बृ०) (यथालघुस्वको व्यवहारः अहालहुस्सय'शब्दे प्रथमभागे 870 पृष्ठे विस्तरतो गतः) (कं व्यवहार केन तपसा पूरयतीति अस्मिन्नेव शब्दे 681 पृष्ठे गतम्) एवं प्रस्तारं पूरयित्वा सूरयो भणन्तिजं इत्थं तुह रोयइ, इमे व गिण्हाहि अंतिमे पंच।