________________ परिहार 686 - अभिधानराजेन्द्रः - भाग 5 परिहार यमौदयों वा न संस्तरति, ततः परमगाढेन कारणेन, पारिहारिको भक्तपानमौषधानि वा तद्भाजने गच्छसत्केषु पात्रकेषु, तेषामभावे स्वभाजनेषु, वा गृहीत्वा तिरोहितमतिरोहित वा गच्छस्य प्रयच्दति / तिरोहितं नामआनीयानुपारिहारिकस्य ददाति, सोऽपि गच्छस्यार्पयति, अथानुपारिहारिकोऽपि ग्लानः, तदा कल्पस्थितस्यापि ग्लानत्वे अतिरोहित तिरोहित वा स्वयमेव गच्छस्य ददाति। यच्च तेषां योग्य जनो ददाति तत्तेषामर्थाय गृह्णाति, यत्तु तस्य योग्यं तदात्मनो गृह्णाति। एवं ता पंथम्मी, तत्थ विय ठिया तहिं पि एमेव / बाहिं अडती डहरे, इयरे अद्धद्ध अडते वा // 710 / / एवं तावत्पथि गच्छतामभिहितं, तत्रापि च ग्रामाऽऽदौ स्थिताः, तत्राप्येवमेव मन्तव्यम् / मार्गे च यत्र गच्छो न प्राप्तः, तत्र बहिः डहरेणान्तःपुरे धर्मकथनार्थ (2) कृतेत्यक्षरार्थः / भावार्थस्त्वयम्-'पाडलिपुते मुरुंडा नाम राया गंगाए नावारूढो उदगे एहायंतो अभिरमइ / साहुणो परकूले पासिता सयमेव नावं नेउं साहुणो विलागविता भणइकह कहेह, जाव नई उत्तरामो / अक्नेवणाइकहालद्धिजुत्तो साहू कहिउमारद्धो / तेण कहितेण अक्खित्तो नावियं सन्नेइसणियं कड्केहि, जेण एस साहू चिरं कहेइ / साहूण कारणे सणिय गच्छंताणं जत्तिया अवेल्लखेवा तत्तिया चउलहुगा / उत्तिण्णेण रण्णा अंतेउरे कहिया कहा, सुदराओ कहाओ तरङ्गवत्याद्याः कथयन्ति साधवः / अंतेउरियाणं कोउग जायं, रायाणं विन्नवेति जइ ते साहुणो इहमाणिजिज्जा ता अम्हे वि सुणेज्जागो / रन्ना गवेसित्ता पवेसिता साहुणो अंतेउरे।" तत्र च प्रविष्टानामेते दोषाःसुत्तत्थे पलिमंथो-ऽणेगा दोसाय णिवघरपवेसे। सइकरण कोउएण च, भुत्ताऽभुत्ताण गमणाऽऽदी।।७११|| सूत्रार्थयोः पलिमन्थः, स्मृतिकरणेन कौतुकेन च भुक्ताभुक्तानां प्रतिगमनाऽऽदयोऽनेके दोषा नृपगृहप्रवेशे भवन्ति / एते अनुकम्पायां दोषा उक्ताः / अथ प्रत्यनीकतायां दोषानाहबुज्झण सिंचण बोलण, कंबलसबला य घाडिते मित्ते। अनुसट्ठी कालगता, णागकुमारेसु उववण्णे |712 / / वाहनं सेचनं बोलनं वा प्रत्यनीकेन साधुना क्रियेत / तत्र सामान्येन दृष्टान्तोऽयम्-मथुरायां भण्डीरयक्षयात्रायां कम्बलशबलौ वृषभौ घाटिकेन मित्रेण जिनदासस्यानापृच्छया वाहितौ तन्निमित्त सञ्जातवैराग्यो श्रावकेणानुशिष्टौ भक्तं प्रत्याख्याय कालगतौ नागकुमारेषूपपन्नौ। ततस्ताभ्यां किं कृतमिति?, आहवीरवरस्स भगवतो, नावारूढस्य कासि उवसग्गं / मिच्छद्विट्ठिपरद्धो, कंबलसबलेहिँ तारिओ भगवं / / 713 // वीरवरस्य भगवतो नावारूढस्य सुदीढो नागकुमार उपसर्गमकार्षीत्, तेन मिथ्याद्दष्टिना प्रारब्धो जले बोलयितुं कम्बलशबलाभ्यां मोचितो भगवान् / कथानकमावश्यकादवधारणीयम्। एवं नावारूढस्य साधोबोलनाऽऽदिकं सम्भवतीति। अथ वाहनाऽऽदिपदानि व्याचष्टेसीसगता वि ण दुक्खं, करेह मज्झं ति एवमवि वोत्तुं / जो छुब्भंतु समुद्देसुं वति णावं विलग्गेसु 714 // सिद्धार्थका इव शिरसि गता अपि मम दुःखं न कुरुष्व एवमप्युक्त्वा कश्चित्प्रत्यनीको यदा साधवो नावं विलनास्तदा नावं नदीमुखेषु मुञ्चति / येन समुद्रे प्रक्षिप्यन्ते, तत्र पतिताःक्लिश्यन्ता भियन्तां चेति कृत्वा। गतं वाहनम्। अथ सेचनं बोलनं चाऽऽहसिंचति ते उवहिं वा, ते चेव जले छुभेज उवधिं वा। मरणोवधिनिप्फन्नं, अणेसग तणानि तरपण्णं // 715 / / नाविकोऽन्यो वा प्रत्यनीकस्तान् साधूनुपधिं वा सिञ्चति, तानेव साधूनुपधिं वा जले प्रक्षिपेत्, बोलयेदित्यर्थः / तत्र चाऽऽत्मविराधनायां मरणनिष्पन्नम्, उपधिनाशे उपधिनिष्पन्नम् यच्चाऽनेषणीयमुपधिंग्रहीष्यन्ति, तृणानि वा सेविष्यन्ते, तन्निष्पन्नं सर्वमपि प्राप्नोति।तरपण्यं वा स मार्गयेत, अदीयमाने चिरं निरुन्ध्यात्, दीयमाने अधिकरणम्। गताः प्रत्यनीकदोषाः। अथ बहवः प्रत्यपाया इतिव्याचष्टेसंघट्टणा य सिंचण, उवकरणे पडण संजमे दोसा। सावयतेणे तिण्हेगतर विराहणा संजमाऽऽताए / 716 / / त्रसाऽऽदीनां संघट्टना जलेन वा सेचनमुपकरणऽऽस्यात्मनो वा पतनं वा एते संयमे दोषाः / श्वापदकृता स्तेनकृता वा आत्मविराधना (तिण्हेगयर त्ति) अनुकम्पाप्रत्यनीकतातदुभयाऽऽदिरूपाणां त्रयाणामेकतरस्मिन् संयमविराधनाऽऽत्मविराधना च भवति। एष संग्रहगाथासमासार्थः। अथैनामेव विवृणोतितसउदगवणे घट्टण, सिंचण लोगे अणावि सिंचणता। बुज्झण उवधी तुभये, मगराऽऽदि समुह तेणे य॥७१७।। जलोद्भवानां त्रसानामुदकस्य वा सेवालाऽऽदिरूपस्य वनस्पतेर्वा संघट्टनं भवेत, लोकेन नाविकेन वा साधोरुपकरणस्य वा सेचन क्रियते, अतिसंबाधे वा उपधेरात्मनस्तदुभयस्य वा स्ताघे अस्ताघे वा जले (बुज्झणं) बोलनं भवति / मकराऽऽदयः श्वापदाः समुद्रे स्तनाश्च तत्र भवेयुः। इदमेव व्याचष्टओहार मगराऽऽदिवा, घोरा तत्थ उसावया। सरीरोवहिमद्दीया, णावा तेणा य कत्थई // 718 / / ओहारमकराऽऽदयस्तत्र तथा घोराः श्वापदा भवन्ति / ओहारो मत्स्यविशेषः, स किलनावमधस्तले जलस्य नयति। शरीरहरा उपधिहरा वा नौस्तेनाः कुत्रापि भवेयुः / एतैरात्मन उपधेर्वा विनाशे तन्निष्पन्न प्रायश्चित्तम्। अथ 'तिण्हेगयर ति" पदं व्याख्यातिसावय तेणा उभयं, अणुकंपादी विराहणा तिपिण! संजम आतुभयं वा; उत्तरणावुत्तरंते य॥७१९ / / अना