________________ परिहार 688 - अभिधानराजेन्द्रः - भाग 5 परिहार गृहीत्वा स्वयमानीय गुरवो ददाति / एतावता "कप्पइ आयरिओ उवज्झाएणं तद्दिवस एगगिहसि पिंडवायं दवावित्तए।" इति सूत्र व्याख्यातं / मन्तव्यम्। ___ अथ "तेण पर से नो कप्पइ'' इत्यादि सूत्रं व्याख्यातिभत्तं वा पाणं वा, ण दिति परिहारियस्स ण करेंति। कारणे उट्ठवणाऽऽदी, चोयग गोणीऍ दिटुंतो।।७०२॥ भक्तं वा पानं वा ततः परं परिहारिकस्य निष्कारणे न प्रयच्छन्ति, नवा | किमप्यालपनाऽऽदिकं कुर्वन्ति, कारणे तु यदा स्थानाऽऽदिकं कर्तुं क्षीणदेहतया न शक्नोति तत उत्थापनाऽऽदिक कारयन्ति / अत्र चोदक: प्राह--कि प्रायश्चित्तं राजदण्ड इवावशेन वोढव्यं, येनेदृशीमवस्था प्राप्तस्यापि भक्तपानमानीय नदीयते। सूरिसह-गौर्दृष्टान्तोऽत्र क्रियते। यथा-नवप्रावृषि या गौरुत्थातुं न शक्नोति, तां गोप उत्थापयति, अटवीं च चारिचरणार्थ नयति, या तु गन्तुं न शक्रोति, तस्या गृहे आनीय प्रयच्छति / एवं पारिहारिकोऽपि यत्कर्तुं शक्रोति तत्कार्यत, यत्पुनरुत्थानाऽऽदिकं कर्तुं न शक्नोति तदनुपरिहारिकः करोति। कथं पुनरसौ करोतीत्याहउद्वेज निसीएज्जा, भिक्खं गेण्हेज भंडगं पेहे। कुवियपियवंधवस्सव, करेइ इयरो वितुसिणीओ // 703 // / स परिहारिकस्तपसा क्लान्तो ब्रवीति-उत्तीष्ठेय, निषीदेयं, भिक्षां हिण्डेयं, भाण्डकं प्रत्युपेक्षथम, एवमुक्त अनुपारिहारिक उत्थापनाऽऽदिक सर्वमपि करोति / कथमित्याह-यथा प्रियबाधवस्य कुपितः कुश्चिन्दन्धुर्यत्करणीयं तत्तूष्णीकः करोति। एवमितरोऽप्यनुपरिहारिकः सर्वमपि तूष्णीकभावेन करोति। अथ भिक्षाहिण्डनाऽऽदौ विधिमाहणीणेति पवेसेति य, भिक्खगए उग्गह ते उग्गहियं / रक्खति य रीयमाणं, उक्खिवइ करे य पेहाए / / 704 / / भिक्षां गतस्य पारिहारिकस्थावग्रहं प्रतिग्रहं तेन पारिहारिकेण गृहीत- / मनुपारिहारिकः पात्र बन्धते निष्काशयति रीयमाणं च पर्यटन्तं तं गवाद्युपद्रवात प्रपतनाऽऽदेवो रक्षयति, भाण्डप्रत्युपेक्षणायामशक्तस्य करौ हस्तावनुपरिहारिक उत्क्षिपति येन स्वयमेव प्रत्युपेक्षते। आह-यदि नामाशक्तस्तर्हि कस्मादसौं भिक्षाहिण्डनाऽऽदिकं | विधीयते ? इत्याहएवं तु असढभावो, इरियायरियाविअणुचिण्णो। भयजणणं सेसाण य, तवो य सप्पुरिसचरियं वा // 705 // एवं यथाशक्ति कुर्वतस्तस्याशठभावो भवति, वीर्याऽऽचारश्चानुचीर्ण भवति, शेषाणामपिसाधूनां भयजननं कृतं भवति, तपः सम्यगनुपालितं भवति, सत्पुरुषचरित च कृतं भवति।। "अथ छिन्नावाएसुपंथेसु'' इत्यादिसूत्रं व्याचष्टछिन्नापाते किलंते, ठवणा खेत्तस्स पालणा दोण्हं। असहुस्स भत्तदाणं, कारणे पंथे व भत्ते वा // 706 / / छिन्नाऽऽपाते अव्वनि गच्छन् परिहारिको यदि बुभुक्षया तृषा क्लान्तो ग्राम प्राप्तुं न शक्रोति, ततोऽनुपरिहारिको भक्तपानं गृहीत्वा तस्यान्तरगाने ददाति / अथवा–स भगवान् अभिगूहितबलवीर्यो यथा काम भिक्षा पर्यटति, तत्र हिण्डित्वा तपः- क्लान्तो यदा न शक्नोत्यागन्तुम, तत आगन्तुमसमर्थे तस्मिन् क्षेत्रस्य स्थापना कर्त्तव्या / मूलग्राम एव स हिण्डते न बहिर्भिक्षाचर्या गच्छतीत्यर्थः / (पालणा दोण्हं ति) द्वयोरपि पारिहारिकानुपारिहारिकयोः पालना कर्तव्या। कथमित्याह (असहुस्स भत्तदाणं कारण त्ति) यदि स पारिहारिकः स्वग्रामेऽपि हिण्डितुं न शक्रोति ततोऽनुपारिहारिको हिण्ड्यिा तस्य प्रयच्छति, अनुपारिहारिकस्तु मण्डलीतः समुद्दिशति / तथाऽनुपारिहारिकोऽपि ग्लानत्वेनासहिष्णुमिक्षां गन्तुं न शक्नोति, तत एवंविधकारणे द्वयोरपि गच्छसत्काः साधवः प्रयच्छन्ति / एवं द्वावपि पालितावनुकम्पिती भवतः। एवं स्थानस्थितानां यतना भणिता। संप्रति पूणे मासे वर्षावासे वा ग्रामानुग्रामौ विहरतां पथि ग्रामे प्राप्तानां वा यतनाऽभिधीयतेठवयंति डहरगाम,पत्ता परिहारिए अपावंते। तस्सऽद्धा तं गाम, ठवेंति अन्नेसु हिंडते // 707|| पथिव्रजन्तो डहरं लघुतरं ग्रामं प्राप्ताः परिहारिकस्यार्थाय स्थापयित्वा द्वितीयम स्वयमटन्तिा एवं तावत्पथि वर्तमाने परिहारिक भणितं यत्र तु साधवःपरिहारिकश्च समकमेव प्राप्तास्तत्राप्य ग्रामे साधको हिण्डन्ते, अर्धे पारिहारिकः। अथ साधूनामार्द्ध पर्यटतांन पूर्यते ततस्तैः सर्वस्मिन् ग्रामे पर्यटिते पारिहारिकः पश्चात्पर्यटति। अथ पारिहारिको यथा कारणे गच्छसाधूनां वैयावृत्त्यं करोति तथाऽभिधीयतेविइयपयकारणम्मि, गच्छे वाऽऽगाढे सो तु जतणाए। अणुपरिहारिउ कप्पट्ठितो व आगाढ संविग्गो ||708|| द्वितीयपदे कारणे कुलाऽऽदिकार्ये पारिहारिकोऽपि साधूनां वैयावृत्त्यं करोति / यथा पाराश्चिकः "अत्थर पदाणुभंगो, महासु पुण सयागरो संघो।'' इत्यादि भणित्वा वैयावृत्यं कृतवान् / तथा गच्छे वा आगाढं कारण समजनि ततः सोऽपि यतनया वक्ष्यमाणया भक्तपानीयाऽऽहरणाऽऽदिवैयावृत्त्यं करोति। (अणुपरिहारिए) इत्यादि पश्चार्द्धम् / अथ गच्छसाधवः प्रज्ञप्तिमहाश्रुताऽऽदीना-मन्यतरमागाढयोग प्रतिपन्ना, उपाध्यायश्च ग्लानः कालगतो वा, ततोऽनुपारिहारिकः कल्पस्थितो वा वाचनां गच्छस्य ददाति। अथ तावप्यशक्ती ततः परिहारिकोऽपि वाचनां ददाति, स च तां ददानोऽपि संविग्न एव मन्तव्यः / इह मा भूत्कस्यापि मतिः-पूर्वसूत्रेण प्रतिषिद्धं, पूर्वसूत्रार्थदानाऽऽदिकमनेनानुज्ञातम्। एवं पूर्वापरविरुद्धमाचरन्नसविनोऽसाविति तन्मतिव्यपोहार्थं संविनग्रहणं व्याचष्टमयणच्छवगविसो मे, देति गणो वा तिरो व अतिरो वा। तज्झाणेसु सएसु व, तस्स वि जोग्गं जणो देति / / 706 / / मदनः कोद्रवः तस्य कू रेण भक्ते न गच्छ: सवो पि ग्लान' जातः / शवकमशिव तेन वा गृहीतः, प्रत्यनीकेन वा विषो दत्तः, अ