________________ परिहार 657 - अभिधानराजेन्द्रः - भाग 5 परिहार घटकाऽऽकीर्णो मार्ग उपयुक्तस्याऽपि कण्टको लगति, आदिशब्दाद्विषमे वा पथ्युपयुक्तोऽप्यागच्छन् प्रपतति, कृतप्रयत्नो वा यथा नदीवेगेन न्हियते, सुशिक्षितोऽपि यथा खगन लुज्यते, एवं कण्टकाऽऽदिस्थानीयमादिकडिल्लकम, आदिग्रहणाद् यदुद्गमोत्पादनैषणारूपं ज्ञानाऽऽदिरूपं वा, तत्र यतमानस्याप्यवश्य कस्याऽपिछलना भवति, छलितेन वाऽवश्य-मालोचना दातव्या, ततो यः संहननाऽऽगमाऽऽदिभिर्गुणैर्युक्तः सहितस्तस्य स्थापना परिहारतपःप्रायश्चित्तदानं कर्त्तव्यम्। तत्र चाय विधिः-प्रशस्तेषु द्रव्यक्षेत्रकालभावेषुतस्य साधोनिविघ्नतपः कर्मसमाप्त्ये शेषसाधूनां च भयजननार्थं सकलेनाऽपिगच्छेन व्युत्सर्गःकर्तव्यः। तत्राऽऽचार्यो भणति-"तस्स साधुस्स निरुवसग्गनिमित्तं ठामि काउस्सगंजाव वासिरामि। ततश्चतुर्विशतिसूत्रमनुप्रेक्ष्य-''नामो अरिहताणं' भणित्वा चतुर्विंशतिसूत्रं सुखेनोचार्य भणतिएस तवं पडिवञ्जति, ण किंचि आलवति मा णमालवहा। अत्तट्ठचिंतगस्स, वाघातो ते ण कायव्यो।।६६२।। एष आत्मविशुद्धिकारकपरिहारतपः प्रतिपद्यते, अतो न किश्चिद् युष्मानालपति। अत्र ''सतसामीये सद्वद्वा // 5 / 4 / 1 / / (हैम०) इति सूत्रेण भविष्यदर्थे वर्तमाना। ततो नालप्स्यतीत्यर्थः। तथा न एष युष्मान् सूत्रार्थोभयं, शरीरोदन्तवा न पृच्छति, यूयमप्येनं मा पृच्छत्। एवमन्येष्यपि परिवर्तनाऽऽदिपदेषु भावनीयम्। इत्थमात्मार्थचिन्तकस्यास्य ध्यानस्य परिहारतपसश्च व्याघातो 'ते' भवद्भिर्न कर्त्तव्यः। अथ यानि पदानि तेन साधुभिश्च परस्परं परिहर्तव्यानितानि दर्शयतिआलावण पडिपुच्छण, परिदृट्ठाण बंदणग मत्ते। पडिलेहण संघाडग, भत्तदाण संभुंजणा चेव।।६६३|| आलापनं संभाषणमनेन युष्माकं न कर्तव्यं, युष्माभिरप्यस्य न विधेयम् / एवं सूत्रार्थयोः, शरीरवार्ताया वा प्रतिप्रच्छनं, पूर्वाधीतस्य | परिवर्तनं कालग्रहणनिमित्तम् (उट्टाणं ति) उत्थापनं, रात्रौ सुप्तोत्थितैर्वन्दनकरणं, खेलकायिकसंज्ञामात्रकाणां समर्पणम्, उपकरणस्य प्रत्युपेक्षण भिक्षाविचाराऽऽदौ गच्छतः संघाटकेन भवनं, भक्षस्य पानकस्य वा दानं एकभण्डल्यां वा समेकीभूय भोजनं न कर्तव्यम्। अथ कुर्वन्ति तत इदं प्रायश्चित्तम्संघाडगा उजाव उ, लहुओ मासो दसह उपयाणं। लहुगा य भत्तपाणा, संभुंजण होतऽणुग्घाता।।६६४।। एतेषामालपनाऽऽदीनां दशानां पदाना मध्यादालापनादारभ्य यावत् संघाटकपदं तावदष्टाना पदानां कारणे गच्छसाधूना प्रत्येक मासलघु, अथ भक्तदानं कुर्वन्ति ततश्चतर्लघु, एकमण्डल्यां संभुञ्जते ततस्तेषामेव चत्वारोऽनुद्धाता मासाः। परिहारकस्य इदं प्रायश्चित्तम्अट्ठण्हं तु पदाणं, गुरुओ परिहारियस्स मासा उ। भत्तपदाणे संभु जणे य चउरो अणुग्घाया।।६६५।। परिहारकस्याष्टानां पदानां संघाटकान्तानां करणे मासगुरु, भक्तदानं संभोजनं वा कुर्वन्तश्चत्वारो मासा अनुद्वाताः। इमे च दोषाःकुव्वंताणेयाणि उ, आणाऽऽदि विराहणा दुवण्हं पि। देव, पमत्तछलणा, अधिगरणाऽऽदी उदेतम्मि|६६६।। एतान्यालपनाऽऽदीनि कुर्वतामाज्ञाऽऽदयो दोषाः, विराधना द्वयोरपि पारिहारिकगच्छसाधुवर्गयोर्भवति, प्रमत्तस्य च दवतया छलनमन्येन वा साधुना भणितः-किमित्यालपनाऽऽदीनि करोषि, एवमुदिते भणिते सत्यधिकरणाऽऽदयो दोषा भवन्ति। अथ "कप्पइ एगगिहम्मि' इत्यादि सूत्रं व्याख्यानयतिविउलं च भत्तपाणं, दवणं साहुवजणं चेव। नाझणं तस्सं भावं, संघाडं देंति आयरिया।।६६७।। संघबाह्यमुत्सवे वा विपुलं भक्तपानं साधुभिरानीतं दृष्ट्वा तद्विषय ईषदभिलाषो भवेत, साधुवर्जनां च साधुभिः सुदुश्चरितैः परित्यक्रोऽहमित्येवं मनसि चिन्तयेत, एवं ज्ञात्वा तदीयभावमाचार्याः संघाटददति। अथेदमेव भावपदं व्याचष्टेभावो देहावत्था, तप्पडिबद्धो व ईसिभावो से। अप्पाइय हयतण्हो, बहति सुहं सेस पच्छित्त।।६६८| भावो नाम देहावस्था देहस्य दुर्बलता, तत्प्रतिबद्धा वा विपुलभक्तपानविषय ईषत् भावाऽभिलाषस्तस्य सञ्जातः, ततश्च यथाऽभिलषिताऽऽहारेणाऽऽप्यायितो हततृष्णश्च सन् सुखेनैव शेष प्रायश्चित्तं वहतीति मत्या संघाटको दीयते। अमुमेवार्थमन्याऽऽचार्यपरिपाट्या किश्चिद्विशेषयुक्तमाहदेहस्स उ दोब्बल्लं, भावो ईसिंच तप्पडीबंधे। अगिलाऐं सोधिकरणे--ण वा वि पावं पहीणं से||६६६|| देहस्य दौर्बल्यम्, ईषता मनोज्ञाऽऽहारविषयप्रतिबन्ध एष भाव उच्यते। यद्वा--अग्लान्या शोधिकरणेन पापं तस्य प्रक्षीणप्रायम् एवंविधा भावमाचार्या जानीयुः कथं पुनरेतत् जानन्ति?, इत्युच्यतेआगंतु-एयरो वा, भावं अतिसेसिओ उजाणिज्जा। हेऊअहि वेसभावं, जाणित्ता अणतिसेसी वि। 700|| आगन्तुक इतरो वास्तव्योऽतिशयी नवपूर्वधराऽऽदिरवधिज्ञानाऽऽदियुक्तो वा स एवंविधं भावं (से) तस्य जानीयात्। अथवाऽत्ततिशयज्ञान्यपि बाौरादिभिहेतुभिस्तस्य भावं चेतो जानीयात्। सक्कमहादी दिवसो, पणीयमत्ता व संखडी विपुला। धुवलंभिग एगघरं, तं सागकुलं असागं वा ||701 / / शक्र महाऽऽदेर्दिवसो यदा संजातस्तदा तं वापि श्राद्धगृहे नयन्ति, प्रणीतभक्ता वा काचिद्विपुला संखडिस्तत्र वा विसर्जयन्ति / तच्च धुवलम्भिकमवश्यसंभावनीयलाभमेकमेव गृहं विद्यते, इह च श्रावक-गृहमश्रावकगृह वा भवेत् उभयत्राऽपि गुरवः स्वयं प्रथमतो गच्छन्ति, तं च परिहारिक बुवते-आर्य ! समागन्तव्यममुकगृहे पात्रक मुद्ग्राह्य त्वयेति, ततस्तत्र प्राप्तस्य विपुलमवगाहिमाऽऽदिक भक्तं दापयन्ति / अथाऽसौ तत्र गन्तुं न शक्रोति ततो भाजनानि