________________ 686 - अभिधानराजेन्द्रः - भाग 5 परिहार परिहार ततः स्थविरः पतद्ग्रहादात्मीये पतद्ग्रहे पलाशभाजने कमठके वा समाकृष्य समाकृष्य भुक्ते, परिहारिकस्य सामाचारी, एतावता ''तवखेयवियं" इति भावितम्। सम्प्रति "समं च सइकाले " इति भाव्यते। यत्र ग्रामे नगरे वा तौ स्थविरपारिहारिकाऽववस्थितौ तत्र सर्वगृहेषु समकालं भिक्षाकालोऽजनिष्ट, तं स्थविराज्ञात्वा मा द्वितीयवारं प्रविष्टः सन्नेष न लभेतेति संप्रस्थितंभाषन्तेएकत्रैवाऽऽत्मनो मम च योग्यं गृह्णीया इति। तत्र चोभयोरपि मृग्यमाणं स्तोक पानीयं लभ्यते, ततः पारिहारिक: पतद्ग्रहस्य च प्रक्षालनाय पानीयं पूर्यते, तत एतत् ज्ञात्वा स्थविरास्त पारिहारिक संदिशन्ति–एकस्मिन्नेव पतद्ग्रहे द्वयोरपि योग्यं गृह्णीथाः, एवं सदीष्ट पारिहारिकस्येयं सामाचारीतस्मिन्पतद्ग्रहे स्थविरयोग्य भक्त तद्विष्वक् गृह्णाति, द्वितीये पार्वे आत्मीययोग्यम्, अथवाऽऽत्मयोग्यमधस्ताद् गृह्णाति, स्थविरयोग्यमुपरिष्टात्. एवं गृहीत्वा वसतावागच्छति, तत्राऽऽचार्यभोजनविधिःतस्य चैकस्य पतदग्रहस्य एकस्मिन्पाचे उपरिष्टात् यदाचार्ययोग्यं गृहीतं तस्मिन्नाचार्यों भुवते, पश्चात्यारिहारिको यदन्यस्मिन्पार्थेऽधस्तदात्मयोग्यं गृहीतं तबुड्यते, अथवायावत् स्थविरेण भुज्यते तावत् सूरोऽस्तमुपयाति, ततो द्वावपि समकं भुजाते / एतावता "सम त्ति' भावितम्। एतदेव व्याचिख्यासुराहपासे उवरि व गहणं, कालस्स दवस्स वावि असतीए। पुव्वं भोत्तुं थेरा, दलंति समगं च भुंजंति / / 377 // द्रवस्य पानीयस्यासति अभावे एकस्मिन्पावें उपरि वा यद् ग्रहीतमाचार्ययोग्य, ततः पूर्वं स्थविरा भुक्त्वा पश्चाच्छेषं पारिहारिकाय ददति, कालस्यद्वयोः क्रमेण भोजनकालस्यासतिसमकं एककालं तौ भुञ्जाते। संप्रति संडासोपलक्षितः शुनकमांसदृष्टान्तभावना क्रियते-यथा कोऽप्यलर्केण शुना खादितः, स यदि तस्यैव शुनकस्य मांसं खदति ततः प्रगुणी भवति / अनेन कारणेन शुनकमासं खाद्यते. स च तं खादितुकामः कथमहं सर्वास्पृश्यं शुनकमासं स्पृशामीति संदंशकेन मुखे प्रक्षिपति, एवं पारिहारिकोऽपि कारणत एकस्मिन्पाचे उपरि वा गृहीतं स्थविरसत्क जुगुप्समान इव तत् परिहरन् आत्मीयं समुद्दिशति / व्यः 2 उ०। अन्यस्मै वसतिदानाऽऽदि, अन्यस्मै अशनाऽऽदिदानम्जे भिक्खू अपरिहारियं वएजा-एहि अजो ! तुमं च अहं च एगओ असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गहेत्ता, तओ पच्छा पत्तेयं पत्तेयं भोक्खामो वा पेहामो वा पञ्जत्तं एवं वदेइ, वदंतं वा साइज्जइ / / 146 / / पायच्छित्तमणावण्णो अपरिहारिओ श्रावण्णो मासाति० जाव छम्मासियं सो परिहारिओ बूया ब्रवीति-अज्ज ! इति आमंत्रणे एगतओ संघाडएण भत्तं भोक्खामो, पाणगं पाहामो, उग्घाए त्ति मासलहुं / सीसा भणति-भगवं! सो कहिं आउत्तो श्रावण्णो? आयरिओ आह / नि० चू० ४उ०॥ परिहारकप्पट्ठियस्स णं भिक्खुस्स कप्पइ आयरि-ओवज्झा एण तदिवसं एगगिहंसि पिंडवायं दवावित्तए, तेण परं नो से कप्पइ असणं वा पाणं वा खाइमं वा साइमं वा दाउंवा अणुप्पयाउं वा, कप्पइ से अन्नयरं वेयावडियं करित्तए। तं जहा-उट्ठावणं वा वि निसीयावणं वा तुयट्टावणं वा उच्चारपासवणखेलजल्लसिंघाणविगिंचणं वा विसोहणं वा करित्तए, अह पुण एवं जाणिज्जाछिन्नावाएसु पंथेसु आउरे झिंझिए पिवासिए तवस्सी दुब्बले किलंते मुच्छिज्ज वा, पवडिज्ज वा, एवं से कप्पइ असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा॥२६।। . अस्य संबन्धमाहपच्छित्तमेव पगतं, सहस्स परिहार एव न उ सुद्धे। तं वहतो का मेरा, परिहारियसुत्तसंबंधो // 686 / / प्रायश्चित्तमेवाऽनन्तरसूत्रे प्रकृतं, तच्च सहिष्णोः समर्थस्य प्रथमसंहननाऽऽदिगुणयुक्तस्य परिहारतपो रूपमेव दातव्यं, नपुनः शुद्धतपोरूमम. अतस्तत्परिहारतपो वहतः का मर्यादा का सामाचारीत्यस्या जिज्ञासायामिदं परिहारिकसूत्रमारभ्यते, एष संबन्धः।। वीसुंवणसुत्ते वा, गीतो बलवं च नं परिट्टप्पा। चोयण कलहम्मि कते, तस्स उ नियमेण परिहारो॥६६०॥ अथवा विष्वग्वनसूत्रे मरणसूत्रे गीतार्थो बलवांश्च प्रथमसंहननयुक्तः तन्मृतकं परिष्ठाप्य काष्ठमानयन् गृहस्थने नोदितो यदि कलह करोतीति तदा तस्य नियमेन परिहारो दातव्यः। तस्य च विधिरनेनाभिधीयतेअनेन संबन्धेनाऽऽयातस्याय सूत्रस्य(२६)व्याख्यापरिहारकल्पस्थितस्य भिक्षोः कल्पते आचार्योपाध्यायेन तद्धिवसमिन्द्रमहाऽऽद्युत्सवदिने एकस्मिन् गृहे पिण्डपातं विपुलमवगाहनाऽऽदिभक्तलाभं दापयितुम्, ततः पर (से) तस्य न कल्पते अशनं वा पानं वा खादिम वा स्वादिम वा दातुमनुप्रदातुम्। दातुम् एकशः, अनुप्रदातुं पुनः पुनः, किंतु कल्पते(से) तस्य परिहारिकस्यान्यतरद् द्वैयावृत्यं कर्तुम् / तद्यथा--उत्थापनं वा निषीदनं वा / त्वग्वपिनं वा, उच्चारप्रस्रवणखेलसिंघानाऽऽदीनां च विवेचन परिष्ठापनं विशोधनं वा उच्चाराऽऽदिखरण्टितोपकरणाऽऽदेः प्रक्षालन कर्तुम् अथ पुनरेवंजानीयाच्छिन्नाऽऽपातेषु व्यवच्छिन्नसमागमेषु पथिषु आतुरो ग्लानः (झिंझितो) बुभुक्षाऽऽतः पिपासितस्तृषितो न शक्नोति विवक्षितं ग्रामं प्राप्तुम् / अथवा-ग्रामाऽऽदावपि तिष्ठतां सतपस्वी षष्टाष्टमाऽऽदिपरिहारतपःकर्म कुर्वन् दुर्बलो भवेत्, ततो भिक्षाचर्यया क्लान्तः सन् मूद्वा, प्रपतेद्वा, एवं (से) तस्य कल्पते अशनाऽऽदिकं दातुमनुप्रदातुं वा / एष सूत्रार्थः। - अथ नियुक्तिविस्तरःकंटकमादिसु जहा, आदिकडिल्ले तहा जयंतस्स। अवसंछणणाऽऽलोयण-ठवणाजुत्तोववोस्सग्गो॥६६१।। ननु भगवान् प्रमादो न कर्तव्य इत्युपदिशति संयमाध्वनि गच्छन कथं परिहारिकत्वं प्राप्त इति? उच्यते-तथा क