________________ परिहार 685 - अभिधानराजेन्द्रः - भाग 5 परिहार मि वा एवमुक्ते (से) तस्य कल्पते स्थविरयोग्य प्रतिगृहीतुम् / तत्र तस्मिन्परिगृहीते सति नो कल्पते अपरिहारिकेण सता पारिहारिकस्य पतद्गृहे अशनं पानं खादिमं स्वादिम वा भोक्तुं वा पातु वा, किंतु कल्पते(से) तस्यापारिहारिकस्य स्वकीये पतद्ग्रहे तुम्बाऽऽदिमये स्वकीये वा पलाशपात्रकै स्थाले स्वकीये वा(खुव्वर त्ति) पलाशाऽऽदिपत्रमये दोन्निके (उझुट्ठ उद्भुटठु इति) अवकृष्यावकृष्य भोक्तुं वा पातु वा। उपलक्षणगेतत-दुर्लभपानीयभावे कालाप्रापणे वा तत्पात्रे एव पारिहारिकेण, सम कल्पते भोक्तुंवा पातुं वा / उपसंहारमाह-एष कल्पोऽपारिहारिकस्य, पारिहारिकतपः पारिहारिकमधिकृत्याएष प्रथमसूत्रसंक्षेपार्थः / परिहारकप्पट्ठिए भिक्खू थेराणं पडिग्गहएणं बहिया थेराणं वेयावडियाए गच्छेज्जा, थेरा णं वदेज्जा-पडिग्गहेहि अनो! अत्थ तुमं पिएत्य भोयसि वा पाहसि वा, एवं से कप्पइ पडिगाहित्तए, तत्थ णो कप्पइ पारिहारिएणं अपारिहारियस्स पडिग्गहंसि असणं वा पाणं वा खाइमं वा साइमं वा भोयए वा पायए वा, कप्पइ से सयंसि पडिग्गहंसि सयंसि वा पलासगंसि वा सयं सि वा कमढगंसि सयंसि वा खुव्वगंसि वा पाणिसि उद्धृठ्ठ उद्धृतु भोयए वा पायए वा, एस कप्पे पारिहारियस्स अपारिहारियओ त्ति बेमि // 28 // द्वितीयसूत्रसंक्षपार्थस्त्वयम्-परिहारिकल्पस्थितो भिक्षुः स्थविराणां पतद्ग्रहेण वसतेबहिः स्थविराणां वैयावृत्याय, भिक्षाऽऽनयनायेत्यर्थः / गच्छेत्, स्थविराश्च तं तथा गच्छन्तं दृष्ट्वा नून सर्वगृहेषु भिक्षाकालः समक वर्तते, ततोऽस्मद्योग्यमानीय पश्चादेष आत्मनो योग्याऽऽनयनाय प्रविष्टो म किमपि लप्स्यते इति कारणवशतो वदेयुः-प्रतिगृह्णीयाः? त्वमप्यत्र भोक्ष्यसे, पास्यसि वा, एवमुक्ते(से) तस्य कल्पते प्रतिगृहीतुंतत्रतस्मिन् आत्मयोग्यग्रहणे सति न कल्पते पारिहारिकेणापारिहारिकस्य पतदग्रहे अशनं पानं खादिम स्वादिम वा भोक्तुं वा पातुवा, किं तु कल्पते तस्य स्वकीये वा पलाशके स्वकीये वा कमठे स्वकीय वा खुव्वके भोक्तुं या पातुंवा, उपलक्षणव्याख्यानमत्राऽपि द्रष्टव्यम्। एष कल्पः पारिहारिकस्य पारिहारिकतपोऽपारिहारिकमधिकृत्य इति ब्रवीमि तीर्थकरोपदेशतो न / स्वमनीषिकयेति। संप्रति नियुक्तिभाष्यविस्तरःसपडिग्गाहे परपडि-गहे य बहि पुव्व पच्छ तत्थेव। आयरियसेहऽभिग्गह-सम संडासे अहाकप्पो।।३७३ / / / पूर्व वसतेर्बहिर्भिक्षाऽऽनयनाय निष्क्रम्य स्वपतग्रहे स्वयोग्यमानीय पश्चात्परपतद्गृहे आचार्ययोग्यमानयति / अथवा-पूर्व परपतद्ग्रहे आवार्ययोग्यमानीय पश्चात्स्वपतद्ग्रहे स्वयोग्यमानयति / अथवाकारणवशतः तत्रैव एकस्मिन्पतद्गृहे उभययोग्यमानयति / आनीते च स्थविरेण पूर्व भुक्तपश्चात् पारिहारिकेण भोक्तव्यम्। अथ कालोन प्राप्यते तत आचार्यः स्थविरः, शैक्षाभिग्रहः पारिहारिकः एतौ द्वावपि सममेक कालमेकस्मिन् पतद्ग्रहे भुजाते। तत्र च संडासोपलक्षितः शुनकमांसदृष्टान्तो वक्तव्यः / एष यथाकल्पोऽयं यथावस्थिता सामाचारी। साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः "सपडिग्गहे परपडिग्गहे य बहि पुव्वं'' इति व्याख्यानयतिकारणिय दोन्नि थेरो, व सो गुरु अह च केणई असहू / पुव्वं सयं व गेण्हइ, पच्छा घेत्तुं च थेराणं / / 374 / / अथवाऽपि कारणवशतो द्वौ आचार्यपरिहारिको कारिणिको जाती। किमुत्तं भवति?-अशिवाऽऽदिकारणवशतः शेषसाधून देशान्तरे प्रेष्य तावेव केवलावेकत्र स्थाने स्थिती, तत्र योऽसौ गुरुःस स्थविर इति कृत्वा / अथवा केनापि रोगेण ग्रस्त इति भिक्षामटितुमसहोऽसमर्थः, यः पुनस्तस्य सहायः सपरिहारतपः प्रतिपन्नो वर्तते, ततस्तत्रेयं सामावारीपारिहारिकः पूर्वमात्मीयेन पतद्ग्रहेणाऽऽत्मनो योग्यमानीय मुक्त्वाआत्मीयपतद्ग्रहं स्थापयित्वा पश्चात्स्थविरसत्कं एतद्ग्रहं गृहीत्वा स्थविराणां योग्य ग्रहीतुमटति। अथवा पूर्व स्थविरसत्क पतद्ग्रहं कृत्वा स्थविरयोग्यमानीय स्थविराणां समर्प्य पश्चादात्मीयेन पतद्ग्रहेन हिण्डित्वा आत्मना भुक्ते। अत्र परस्यावकाशमाहजइ एस समाचारी, किमट्ट सुत्तं इमं तु आरद्धं / सपडिग्गहेतरेण व, परिहारी वेज्जवचकरो।।३७५ / / यदि नाम एषा सामाचारी, यथा-पारिहारी पारिहारिकः स्वपतद्ग्रहण इतरेण वाऽऽचार्यपतद्ग्रहेण यथाक्रमं स्वस्याऽऽचार्यस्य च वैयावृत्त्यकर इति तत इदं 'सूत्र' सूत्रद्वयं किमर्थमारब्धं, सूत्रोक्तस्याऽसंभवात् / आचार्यः प्राऽऽह-न सूत्रोक्तार्थासंभवः, कारणतः सूत्रद्वयस्य पतितत्वात् / अथ कानि कारणानि यद्वशादिदं सूत्रद्वय पतितम्। आह दुल्लहदवं पडुच्चं, तवखेयवियं समं च सति काले। चोयग! कुव्वंति तयं,जं वुत्तमिहेव सुत्तम्मि // 376 / / हे चोदका दुर्लभंद्रवं पानीय प्रतीत्य, यदि वा तपसा खेदितं परिहारिकम् अथवा समकमेककालं सर्वगृहेषु सति भिक्षाकाले आचार्यपरिहारिको न कुर्वतः, यदुक्तमिहैव सूत्रे / तथाहि-स परिहारिकस्तपसा खेदितः सन् आत्मनः स्थविरस्य वाऽर्थाय द्वौ वारौ भिक्षामटितुमसमर्थः, ततस्तं पारिहारिक स्वकीयेन पतद्ग्रहेणाऽऽत्मनोऽर्थाय हिण्डित्वा पश्चात्स्थविराणामर्थाय स्थविरपतद्ग्रहेण हिण्डिष्ये इति बृद्ध्या संप्रस्थित स्थविराः समर्थ ज्ञात्वा बुवते अस्माकमपि योग्यमात्मीयेन पतद्ग्रहेण गृह्णीयाः, तत उपरि एकस्मिन्या पार्श्वे स्थविरयोग्यं गृह्णाति, गृहीते च तथा तस्मिन् स्थविरस्ततः समाकृष्य समाकृष्य भुक्ते एषा स्थविरस्य सामाचारी। परिहारिकस्य पुनरियम्-तं परिहारिक स्थविराणां पतद्ग्रहं गृहीत्वा स्थविरस्यार्थाय हिण्डित्वा पश्चादात्मनोऽर्थाय हिण्डष्ये, एवं बृद्ध्या संस्थितं दृष्ट्वा गृहाऽऽदिकंपरिमितं ज्ञात्वा स्थविरा भाषन्ते। आत्मनोऽप्ययास्मदीयेएव पात्रेप्रतिगृह्णीथा एवंसंदिष्टः सन्सतथैव च गृहीत्वा समागतः,