________________ परिहार 684 - अभिधानराजेन्द्रः - भाग 5 परिहार अथवा-पूर्व सदैव तस्यां विकृतौ भावित इति तद्भावनया तस्यामध्युपपातो जातस्तत एतत् स्थविरा ज्ञात्वा तदनुग्रहाय परितो विकृतिलाभे सति असत् अविद्यमानोऽन्यः परिभाजनकुशलो यः सर्वेषामौचित्येनाऽऽपूरयति तस्याऽपि पारहिरकल्पस्थितः परिभाजनकुशल इति सर्वसाधूनां वचनेन प्रकाश्यैवं वदति-अहो आर्याः! गाथायामोकारान्तता प्राकृतलक्षणवशात्। त्वमेतेभ्यः साधुभ्यः परिभाजय, यदि पुनः (उच्चूर) नानाविधं प्रचुरमंतिप्रभूतं घृताऽऽदि लब्धं भवति तदा उच्चूरप्रचुरलाभे अगीतव्यामोहननिमित्तम् अगीतार्था मा विपरिणमन्विति / यद्वा तद्वा कारणं वचसा प्रकाश्य तद्व्यामोहननिमित्तमेवं ब्रुवते-आर्य! त्वं साधुभ्यः परिभाजय। परिभाइऍ संसट्टे, जो हत्थो संलेहावए परेण / फुसइ व कुडे लहुओ, अणणुण्णाए भवे लहुओ।।३६८ || आचार्योपदेशेन परिभाजिते सतितस्य हस्तः संसृष्टो घृताऽऽदिना लिप्तो भवति, तस्मिन्संसृष्ट यदितथैव संसृष्टन हस्तेनावतिष्ठते तर्हि प्रायश्चित्तं मासलहुको वा। हस्तं परेण संलेहापयति तस्यापि प्रायश्चित्तं मासलघु। अथवा कृड्ये हस्तं स्पृशति तदापि मासलघु। अथवा काष्ठेन निघृष्य छर्दयति तत्रापि मासलघु / अथवा-अननुज्ञातः सन् स्वयं लेढि हस्तं तदाऽपि तस्य प्रायश्चित्तं लघुको मासः। कप्पति य वियण्णम्मी, चोयगवयणं स सेस सूवस्स। एवं कप्पइ अप्पा-यणं तु कप्पट्टिती चेसा॥३६६ / / वितीर्णे अनुज्ञाते सति कल्पस्थे स्वयं हस्तं परिलेढुम् / इयमत्र भावना-यद्याचार्याः समादिशन्तितं स्वहस्तं घृताऽऽदिविकृतिखरण्टितं स्वयमेव लेढि, चशब्दादन्यदपि यत्परिभाजितशेषं तदप्याचार्येणानुज्ञात भुङ्क्ते (चोयगवयणं ति) अत्र चोदकवचनम्-यथारूपं परिहारिकस्य विकृतेरनुज्ञापन युक्तमिति। सूरिराह-(सेस सूवस्स) सूपस्य सूपकारस्य यथा शेषाऽऽभाव्यं भवति तथा तस्यापीति भावः / एतदुक्तं भवति-यथा सूपकारः केनापि स्वामिना संदिष्ट एतावत्प्रमाणैस्तन्दुलमुद्गाऽऽदिभिभक्षं निष्पाद्यैतावत्तपुरुषान् भोजयेत्यादेशे लब्धे साधिते भक्ते भोजितेषु पुरुषेषु यच्छेषमुदरतितत्सर्वं सूपकारस्याऽऽभाव्यम्। एवमाचार्योपदेशतः परिहारिकेण परिभाजिते यच्छेवमुद्रतितत्तस्य पारिहारिकस्याभाव्यम् / सूपकारदृष्टान्त उपलक्षणं, तेनाऽऽपूपिकदृष्टान्तोऽपि वेदितव्यः / स | चैवम्-केनाप्यापूपिक आदिष्ट एतावता कणिकाऽऽदिना द्रव्येण एतावत्प्रमाण मण्डकाऽऽदि कर्तव्यमेवमादेशे लब्धे तथैव मण्डकाऽऽदिकेनिष्पादिते शेष यदुद्वरति मण्डकाऽऽदितदापूपिकस्य भवत्येवं पारिहारिकस्यापि, तत एवं तपःशोषितशरीरस्याऽऽप्यायननिमित्तमाचार्यास्य कल्पते अनुज्ञापनमित्यदोषः। कल्पस्थितिरेषा यत् ग्लायत आप्यायननिमित्तमेवमनुज्ञापनं कर्त्तव्यं, येन शेषं प्रायश्चित्ततपः सुखेन वहतीति। सूपकारदृष्टान्तमेव सविस्तरं भावयतिएवइयाणं भत्तं, करेहि दिण्णम्मि सेसयं तस्स। इय भाइय पज्जंते, सेसुवरियं च देंतस्य // 370 / / एतावद्धिस्तन्दुलाऽऽदिकैरेतावद्भक्तं कुर्विति समादेशे लब्धे निष्पादिते भक्ते दत्त चोक्तप्रमाणेभ्यः पुरुषेभ्यो भोजने यच्छेषं तस्याऽऽभवति, इत्येवममुना प्रकारेणाऽऽचार्योपदेशतः पर्याप्त भाजिते शेषमुदरितमस्य पारिहारिकस्य परिवेषस्याऽऽचार्यो ददाति। संप्रति येन प्रमाणेनाऽऽचार्यमुपदिशति तत्प्रमाणमभिधित्सुराहदव्वप्पमाणं तु विदित्तु पुव्वं, थेरा से दाए ततियं पमाणं / जुत्ते वि सेसं भवते जहा उ, उच्चूरलंभे तु पकामदाणं // 371 / / इहाऽऽचार्यः पूर्व द्रव्यं प्रमाणयितव्यम्-यथेदं किं युक्लप्रमाणमाहोश्वित्सपरिस्थापनमेवं पूर्व द्रव्यप्रमाणं विदित्वा ज्ञात्वा स्थविरा आचार्याः (से) तस्य परिहारिकस्य तकत्प्रमाणं दर्शयन्ति यथा युक्तेऽपि युक्तप्रमाणेऽपिशेष भवति (उच्चूरलाभे) प्रचुरनानाविधघृताऽऽदिलाभे प्रकामदान यावत् यस्मै रोचते तावत्तस्मै दीयतामित्येवंरूपमनुज्ञाप्यते। सूत्रम्परिहारकप्पट्ठिए भिक्खू सएणं पडिग्गहेणं बहिया अप्पणो वडियावेयाए गच्छिज्जा, थेरा तं वएज्जा-परिग्गहेहि अजो! अहं पि भोक्खामि वा पाहामि वा, एवं णं से कप्पइ पडिग्गहित्तए, तत्थ णो कप्पइ अपरिहारिएणं परिहारिस्स पडिग्गहम्मि असणं वा पाणं वा खाइमं वा साइमं वा भोत्तए वा, पातए वा, कप्पइ से सकंसिवा पडिग्गहगंसि वा सकसि वा पलासगंसि वा सकसि वा कमढगंसि वा सकंसि वा खुवगंसि वा उट्ठ भोत्तए वा पायए वा, एस कप्पे अपरिहारियस्स पारिहारियओ।।२७।। (परिहारकप्पट्ठियं भिक्खू सएणं पडिग्गहेणमित्यादि) अस्य सूत्रस्य पूर्वसूत्रेण सह संबन्धप्रतिपादनार्थमाहआयाणाऽऽदिऽवसाणे,संपुडितो एस होइ उद्देसो। एगाहिगारियाणं, वारेइ अतिप्पसंग वा।।३७२।। आदानमादिः, अवसानंपर्यन्तः,तयोः साधर्मिकाधिकारप्रति-पादनादेष उद्देशः संपुटितः, संपुट सञ्जातमस्येति संपुटितः / तारकाऽऽदिदर्शनादितः प्रत्ययः / इयमत्र भावना-अस्योद्देशकस्याऽऽदावन्ते च प्रत्येकं द्वे द्वे सूत्रे साधर्मिकाऽऽद्यधिकारप्रतिपादके तत एष उद्देशकः, साधर्मिकाधिकारेण संपुटितः, संपुटितत्वाच संपुटनकरणमेवास्य सूत्रस्य संबन्धः / अथवा एकाधिकारिकानि यान्यनन्तरमुद्दिष्टानिपारिहारिकसूत्राणि तेषामेकाधिकारिकाणां यो भक्तदानैकत्रभोजनप्रतिषेधेऽतिप्रसङ्गस्तंवारयत्यधिकृते सूत्रद्वयेनेत्येष पूर्वसूत्रेण सहास्य संबन्धः / अनेन संबन्धेनाऽऽयातस्यास्य(२७) सूत्रस्यव्याख्यापरिहारकल्पस्थितो भिक्षुः स्वकीयेन पतद्ग्रहेण प्रतिग्रहणेन वा वसतेर्वहिरात्मः स्वशरीरस्य वैयावृत्याय, भिक्षाऽऽनयनायेत्यर्थः / गच्छेत् स्थविराश्च तथा गच्छन्तं दृष्ट्वा वदेयुरस्मद्योग्यमपि स्वपात्रके गृह्णीया अहमपि भोक्ष्ये पास्या