________________ परिहार 683 - अभिधानराजेन्द्रः - भाग 5 परिहार अथ षण्णां मासानामुपरि मासस्य परिहरणं भोजनमधिकृत्य क्रियते। उच्यते--निर्बलनार्थ प्रमोदार्थ वेति वाक्यशेषः / तथाहि-कुथितमद्याऽऽदिगन्धं मृत्तिकाभाजनं यावदद्यापि निर्बलितं न भवति. तावत्तत्र क्षाराऽऽदिप्रक्षेपः एवमेषोऽपि दुश्वरितदुरभिगन्धभावितो नियमादेतावता कालेन निर्बलितो भवति नान्यथा, तथा जिनप्रवचनप्रवृत्तेः, तथा कश्चित् केनाप्यगम्यगामित्वेनालीकेनातिशयितुं राजकुले च निवेदितः / स तप्तमासाऽऽदिकं गृहीत्वा शुद्धः सन् तप्तकालाऽऽदिकं गृहीत्वा शुद्धः सन मिथः भाषणादिभिः प्रमोदं कृत्वा परस्परं स्वजनैः सह भुङ्क्ते, एवमेषोऽपि परिहारिक आत्मनामपराधमलिन प्रायश्चित्तेन विशोध्य मासं यावत् मिथः संभाषणादिभिः प्रमोदमादाय तैः सहकत्र भुक्ते, तदेवमुक्ते कारणवशाद्यतोऽन्यः समभुजानो मासं यावदवतिष्ठते, तस्मादेतस्य मासस्य गौणं गुणनिष्पन्नं नाम द्विधा / तद्यथा-पूतिनिर्वलितः मास इति प्रमोदमास इति / पूतिर्दुरभिगन्धिः, तस्य निर्वलितमास्फेटनं तत्प्रधानो माराः पूतिनिर्वालितमासः / तथा प्रमादहेतुर्मासः स च मासो भोजनेन वर्त्यः परिहर्तव्यो, न पुनः शेशैरालापाऽऽदिभिः / यथाऽऽभ्यां कारणाभ्यां मासपरिवर्जनमेवं पञ्चरात्रिन्दिवाऽऽदि परिवर्जनमपि भावनीयम्। किच--अन्यदपि कारणमस्ति पञ्चरात्रिन्दिवाऽऽदिपरिवर्जन। ततस्तदभिधित्सुराहदिज्जइ सुहं व वीसुं, तवसोसिययस्स जं बलकरं तु। पुणरविय होज जोग्गो, अचिरा दुविहस्स वितवस्स॥३६३।। इह यद्यैकत्र भुक्ते ततः सहैव स्वसंघाटकेनैष भुङ्क्ते इत्यनादरबुद्ध्या यत्तपःशोषितस्य बलवर्द्धनकरंतस्य दानं न भवति तेष्वपृथक्प्रतिभोजने पुनस्तपःशाषितगात्रोऽयमद्यापि न मण्डल्यां भुड्क्ते, इत्यादरबृद्धिभावतः तपसा शोषितस्य तद्वलवर्द्धनकरमशनाऽऽउितत्सुखेनैव सर्वैरपि साधुभिरपि दीयते। तस्यापि दाने को गुण इत्याह-बलवर्द्धनकराऽशनाऽऽदिप्रदाने पुनरप्यचिरात्स्तोकेन कालेन द्विविधस्यापि तपसः परिहारतपसः शुद्धतप-सश्वेत्यर्थः, योग्यो भवति। सूत्रमपरिहारकप्पट्ठियस्स भिक्खुस्स णो कप्पइ असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, थेरा य णं वा देज्जा इमं ते अञ्जो! तुम एतेसिं देहि वा अणुप्पदेहि वा, एवं से कप्पई दाउं वा अणुप्पदाउं वा, कप्पइ से लेवं अणुजाणवित्तिए अणुजाणह भंते! लेवाए, एवं से कप्पइ लेवं समासेवित्तए।।२६।। (परिहारकप्पट्टियस्स भिक्खुस्स इत्यादि) अथास्य सूत्रस्य कः संबन्धः? उच्यतेएसा बूढे मेरा, होइ अबूढे अयं पुण विसेसो। सुत्तेणेव निसिद्धे, होइ अणुण्णा उसुत्तेण // 364 / / एषा अनन्तरसूत्रप्रतिपादिता मर्यादा स्थितिर्भवति व्यूढे परिहारतपसि, अव्यूढे पुनः परिहारतपसि अयमधिकृतसूत्रेण्ण प्रतिपाद्यमानो मर्यादाया | 'विहारकप्पट्ठियस्स' विशेषः / एष पूर्वसूत्रेण सहाधिकृतसूत्रस्य संबन्धः / अनेन संबन्धेनाऽऽयातस्यास्य सूत्रस्य(२६) व्याख्यापरिहारकल्पस्थितस्य भिक्षोर्न कल्पते अशनं पानं खादिमं वा अन्यस्मै साक्षात्स्वहस्तेन दातुमनुप्रदातुं वा परम्परकेण प्रदातुमनुशब्दस्य परम्परद्योतकत्वात्। अत्रैवानुज्ञामाह-(थे रा य ण मित्यादि) यदि पुनः स्थविराः, णमिति वाक्यालकृतौ / वदेयुरिमं परिहारकल्पस्थितं भिक्षुम / अहो आर्य! त्वमेतेभ्यो देहि परिभाजय, अनुप्रदेहि वा / एवं स्थविररैनुज्ञाते सति(से) तस्य कल्पते दातुमनुप्रदातुवा, दानेऽनुप्रदाने च तस्य हस्तो विकृतिप्रश्रेणिखरण्टितो भवति, ततः (से)तस्य कल्पते लेपं विकृतिहस्तगतमनुज्ञापयितुम् / यथा-भदन्त ! यूयमनुजानीथ लेपखरण्टितं हस्तम्। (लेवाए इति) समासेवितुमेवमनुज्ञापने कृते सति (से) तस्य कल्पते लेप विकृति हस्तगतां समोसेवितुम्, उपलक्षणमेतदन्यदपि यदुद्वरितं तदप्यनुज्ञातं सत् कल्पते समासेविवितुमिति, इति सूत्रसंक्षेपार्थः / व्यासार्थ तु भाष्यकृद्विवक्षुः प्रथमतःसामान्यत आह चेत्यादि सूत्रेणैव प्रदानेऽनुप्रदानेच प्रथमतो निषिद्धे तदनन्तर तेनैव सूत्रेण दानेऽनुप्रदाने च भवत्यनुज्ञा। एवं संक्षेपतः सूत्रार्थे कथितेकिह तस्स दाउ कप्पइ, चोयग! सुत्तं तु होइ कारणियं / सो दुब्बलो गिलायइ, तस्स उवाएण देंते य / / 365 / / (किह) कथं केन प्रकारेण तस्य परिहारकल्पस्थितस्य भिक्षोतुं क्रियतेऽशनाऽऽदिक, तदानकरणस्य तत्कल्पविरुद्धत्वात् / अत्र सूरिराह-हे चोदकः सूत्रमिदं भवति कारणिक कारणेन निवृत्तं कारणिक, कारणमधिकृत्य प्रवृत्तमित्यर्थः / तदेव कारणमाह-(तो दुव्वलो इत्यादि) स परिहारकल्परिथतो भिक्षुः दुर्बल-स्तपःशोषितशरीरत्वादत एव पदे प्लायति / ततस्तस्यानुकम्प-नार्थमेवमनेनोपायेन दानानुप्रदानकाऽsरोपणलक्षणेन विकृति स्थविरा ददति प्रयच्छन्ति। तत एषाऽपि परिहारकल्पसमाचारी, कश्चिद्दोषः। संपत्ति यथा तस्य दानमनुप्रदानं वा करणीयं भवति, येन च कारणेन स्थविरा अनुजानते, तदभिधित्सुराहपरिमिय असई अण्णे, सो विय परिभायणम्मि कुसलो उ। उच्चूरपउरलंभे, अगीयवामोहणनिमित्तं / / 366 / / तवसोसियमज्झोवा-अओय तब्भाविओ भवे अहवा। थेरा नाऊणेवं, वदंति भाएहि तं अञ्जो! / / 367 / / इह यधानमनुप्रदान वा परिभाजन उच्यते, तच्च यथा संभवति तथोपपाद्यतेसाधुभिः सर्वैस्तपोविशेषप्रतिपन्नवर्जितरेकत्र मण्डल्या भोक्तव्यम् / किं कारणमिति चेत्? उच्यते / इह द्विविधाः साधवो लब्धिमन्तो लब्धिरहिताश्च / तत्र ये लब्धिरहितास्ते बहिर्गतास्तथाविधं प्रायोग्यं न लभन्ते, मण्डल्या तुपविष्टानां लब्धिमत्साधुसंधाटकाऽऽनीतपरिभाजनेन तेषामन्येषामपि च बालशैक्षवृद्धग्लानाऽऽदीनां प्रायोग्यं भवतीति तेषामनुग्रहाय मण्डलीबन्धकरणं मण्डलीबन्धे च कृते कस्यचिदजीर्ण भवति, जीर्णेऽपि च काश्चित विकृती(क्ते, न सर्वः सर्वाः, ततः प्रचुरविकृतिलाभे सर्वजनानुग्रहाय परिभाजनं क्रियते, तत्र स परिहारकल्पस्थितो भिक्षुरतपःशोधितशरीर इति तस्य विकृतिविषयेऽध्युपपातः श्रद्धा जाता।