________________ परिहार 682 - अभिधानराजेन्द्रः - भाग 5 परिहार इत्येवं स्वगणे भण्डनं कृत्वा स्थापयति तस्मिन्गणस्य गच्छस्रा अप्रीतिक यथा भवति एवं स्वाभिप्रेतमाचार्य स्थापयति प्रायश्चित्तं भवति परिहारः परिहारतपः, तत एतदर्थप्रतिपादनार्थदिग्बन्धसूत्रानन्तरंपरिहारसूत्रम्। एष तृतीयः सम्बन्धप्रकारः। सम्प्रति चतुर्थ पञ्चमंचसम्बन्धप्रकारमाहपरिहारो वा भणितो, न तु परिहारम्मि वणिया मेरा। ववहारे वा पगते, अह ववहारो भणे तेसिं // 357 / / वाशब्दः प्रकारान्तरद्योतनार्थः, अघस्तात्परिहार उक्तो, नतुतरिमन्परिहारो वोढव्यो व्यावर्णितो मर्यादा विधिरित्यर्थः / व्यवहारार्थ किल व्यवहाराध्ययनं प्रकृतं . ततस्तस्मिन् नदीस्रोतोवदनुवर्तमाने कृते व्यवहारे ‘अह' एष तेषां परिहारिकाणां च व्यवहारो भण्यते / अनेन सम्बन्धपञ्चकेनाऽऽयातस्यास्य सूत्रस्य(२५) व्याख्या-बहवः प्रभूताः पारिहारिकाः, बहवोऽपरिहारिकाः कारणवशतः तीर्थकरोपदेशेच्छया, नस्वच्छन्देच्छया इच्छेयुरेकत एकत्र स्थाने एकमासं वा द्विमासं वा त्रिमास वा चतुर्मासं वा पञ्चमासं वा षण्मासं वस्तु तेऽन्योन्यं परस्परमपि, परिहारिका इति शेषः / संभुञ्जते सर्वप्रकारैः भुञ्जन्ति परिहारिका यावत्तपो वहन्ति तावत्ते परस्परमपरिहारिकैः वा समं न संभुञ्जति। यैः षण्मासाः सेविताः तेषां यः षण्मासोपरिवर्ती मासस्तं यावत्ते परिहारिकाः परस्परं परिहारिकैः, सममुपलक्षण-मेतत्अपरिहारिकैर्वा सममेकत्र न संभुजन्ते, आलपनाऽऽदीनि कुर्वन्ति, तत उपरितनमासपरिपूर्णीभवनान्तरं पश्चात्सर्वेऽपि पारिहारिका अपारिहारिकाश्च एकत एकत्र स्थाने सर्वप्रकार-भुञ्जते / एष सूत्रसंक्षेपार्थः / अत्र पर आह-ननु बहवः पारिहारिकाः, अपारिहारिकाश्च कथमेकत्र संभवन्ति, येनाधिकृतं सूत्रमुपपद्येत? तत आहकारणिगा ते भोगा, बहुगा परिहारिका भवेज्जाहि। अप्पपरिहारिऍ भोगो, परिहारिन भुंजए बहओ॥३५॥ बहवः पारिहारिका एकत्र मिलिता भवेयुः, कारणिकाः कारणवशेनेति भावः। ततो नाधिकृतसूत्रानुपपत्तिः / तत्रापारिहारिकाणामेकात्र परस्पर भोगो भवति / एतावता "ते अण्णमण्णं संभुजंति' इति व्याख्यातम् / यस्तु परिहारी परिहारतपो वहन् परिहारिभिर्वा समं न भुक्ते, एतेन "अन्नमन्नं तो संभुंजति'' इति व्याख्यातं, पारिहारिका नाम- ये परिहाररूपं प्रायश्चित्तं प्रपन्नाः ते अपरिहारिकास्तत्र परिहारतपः प्रतिपादनविधिः, परिहरणविधिश्च निशीथाध्ययने कल्पे च व्यावर्णितः / यस्तु तत्र नोक्तस्तमिदानी प्रतिपिपादयिषुराह-- गिम्हाणं आवन्नो, चउसु वि वासासु दें ति आयरिया। पुण्णम्मि मासवज्जण, अप्पुण्णे मासियं लहुयं / / 356 / / इह ग्रीष्मग्रहणेन ऋतुबद्धकालग्रहणं, तेषामृतुबद्धाना मासानां मध्ये एकमासं यावत्षण्मासं तावत्परिहारतपः समापनस्तद्वर्षारात्रे चतुर्वपि मासेषु दीयते / अत्रार्थे च कारणं स्वयमेव वक्ष्यति / यस्तु षण्मास | पारिहारतपः प्रपन्नस्तस्य पूर्णेषण्मासे उपरिमासवर्जन मास यावदेकत्र भोजनवर्जनम्, एतेन मासाऽऽदिके परिपूर्ण पञ्चरात्रिन्दिवाऽऽदिभोजनवर्जनमुपलक्षितम्, तचानन्तरगाथायां स्वयमेव वक्ष्यति / तत्र यावद् भोजन प्रतिषिद्ध तत्र तावत्परिपूर्णभोजनं कुर्वतः प्रायश्चित्तं मासिक लघु। ___संप्रति "पुण्णम्मि मासवज्जणं" इत्येतद्व्याचिख्यासुराहपणगं मासे मासे, वजेजइ मास छह मासाणां। न य भद्दपंतदोसा, पुव्वुत्तगुणा य तो वासे // 360 // मासे मासे पश्चक परिवर्द्धमानं तावत्पर्यन्ते यावत्षण्णां मासानामुपरि मासो धज्यते / इयमत्र भावना-यो मासिक परिहारतप अपन्नस्तस्य मासं बहतः पूर्वोक्तो विधिरालापनवर्द्धमानऽऽदिको वेदितव्यः। मासेतु व्यूढे उपरि पञ्चरात्रिन्दिवानि यावदालापनाऽऽदीनि सर्वाणि क्रियन्ते, नवरमेकं भोजनमेकत्र वय॑ते, एवं यो द्वौ वा मासावापन्नस्तस्य दशरात्रिंदियानि त्रीन्मासान् तस्य विंशतिः, यः पञ्चमासान् तस्य भिन्नमासं यावत्, यस्तु षण्मासानापन्नस्तस्य षण्मासेषु व्यूढेषु उपरि मास यावेदकत्र भोजनमेक वय॑ते, शेषं त्वालापनाऽऽदिक सर्व दशरात्रिन्दिवाऽऽदौ क्रियते / अथ करमादृतुबद्धेषु मासेषु प्रपन्नस्यापि रात्रेः तपो दीयते तत आह-(न य भद्दपंतदोसा इत्यादि) ऋतुबद्धे काले यदि परिहारतपो दीयते ततस्मिन् दते सति यदि मासकल्पे परिपूर्णे सति विहरन्ति तर्हि पारिहारिकाणां परितापनाऽऽदिदोषप्रादुर्भावः / अथ न विहरन्ति ततो भद्रकप्रान्तकृतदोषसम्भवः / भद्रकृता उद्गमाऽऽदिकरण, प्रान्तकृतदोषा अतिचिरावस्थानेन चमढनाऽऽदिका वर्षाकाले त्वेते दोषाः प्रयोजनतः संभवन्ति, सर्वदर्शिनां वर्षाकालस्य तपोऽनुष्ठानाऽऽश्रयतया सम्मतत्वेन कस्यचिदपि विशेषतः प्रतिद्वेषस्य वा संभवात् / तथा पूर्वोक्लगुणाश्च कल्पाध्ययनप्रतिपादिताः गुणाश्च वर्षाकाले अवाप्यन्ते, ततो वर्षासु परिहारतपो दीयते। अथ के ते पूर्वोक्ता गुणा इति विस्मरणशीलान् प्रति तान् भूय उपदर्शयतिदासासु बहू पाणा, बलिओ कालो चिरं च ठायव्वं / सज्झायसंजमतवे, धणियं अप्पा निओत्तव्यो॥३६॥ वर्षाकाले सर्वतः प्रायो बहवः प्राणाः, ततो दीर्घाभिवर्या न भवन्ति / तथा स्निग्धतया स कालो बलिको बलीयान्, तपः कुर्वता बलावष्टम्भ करोति इति भावार्थः / तथा चिरं च प्रभूतं कालं चैकत्र स्थातव्यम्। अत एव स्वाध्यायसंयमे तपसि च धणियमत्यर्थमात्मा नियोक्तव्यो भवति। तत एवं प्रभूतगुणोपदर्शनता वर्षाकाले परिहारतपः प्रतिपत्तिः कार्यते। एतेन गिम्हाणं आवन्नो, चउसु वि वासासु देंति आयरिया / " इत्यत्र यदुक्तं तत्र कारण स्वयमेव वक्ष्यतीति तत्समर्थितम्। संप्रति षण्मासवहनानन्तरमुपरियन्मात्रोऽसौ भोजनमधिकृत्य वय॑ते तत्र कारणमाक्षेपपुरस्सरमभिधित्सुराहमासस्स गोणनाम, परिहरणा पूतिनिब्बलणमासो। तत्तो पमोयमासो, भुंजणवजो न सेसेहिं // 362 / /