________________ परिहार 675 - अभिधानराजेन्द्रः - भाग 5 परिहार णस्सेति) अस्यायमर्थः-स्थविराः(से) तस्य परिहारकल्पं स्मरेयुर्यदि वा व्याक्षेपान्न स्मरेयुः, वाशब्दादुभावपि न स्मरेयाता, तथापि यदि निर्विशमानको गच्छति ततः (से) तस्य एकरात्रिक्या प्रतिमया एकरात्रिकण वा साभिग्रहेण कचिदपि प्रतिबन्धमन्तरेण गच्छत इत्यादि। तथाचाऽऽहसरमाणे जो उ गमो, अस्सरमाणे वि होइ एमेव / एमेव मीसगम्मि वि, देसं सव्वं च आसज्ज / / 134 / / इह त्रीणि सूत्राणि / तद्यथा-प्रथम स्मरणसूत्र, द्वितीयमस्मरणसूत्रम, तृतीय मिश्रकसूत्र, स्मरणास्मरणसूत्रमित्यर्थः / तत्र य एव गमः स्मरणे स्मरणसूत्रे उक्तः, एवमेव अनेनैव प्रकारेण प्रथमसूत्रप्रकारेणेत्यर्थः / अस्मरणे अस्मरणसूत्रे भवति गमः, एवमेव अनेनैव प्रकारेण मिश्रकसूत्रेऽपि तत्र सूत्रत्रयेऽपि वहनं निक्षेपणं झोषो वा देशं सर्वं वा आसाद्य प्रतीत्य द्रष्टव्यः। तत्र द्वयोरपि विस्मरण सूचितं, तत्र कारणमाहविजानिमित्तउत्तर कहणे अप्पाहणा य कहियाओ। अतिसंभम तुरियविणिग्गयाण दोण्ह पि विस्सरियं // 135 / / | विधान प्रतिवादिप्रतिपक्षभूतानां निमित्तानामनेकप्रकाराणाम्, उत्तराणां प्रतिवादिविषयाणां यथा यदिसवादी एवं ब्रूयात. ततो भवानित्थं वेदेदित्येवमादिरूपाणा, कथने, तथा "अप्पाहणा य' संदेशकाः | कथितास्तत आचार्यस्यातिसंभमेण इतरस्यापि वाऽतिसंभ्रमादेव त्वरितविनिर्गतस्य द्वयोरिप विस्मृतम् यथा-परिहारतपो निक्षेपणीयभिति / तत्र यदि आचार्याः स्मरेयुः, स वा स्मारयति, तदा निक्षिप्य गच्छति, अथ द्वयोरपि विस्मृतं तदा निर्विशमानक एव याति। यदा तुपूर्व स स्मृतवान् विस्मृतवान् पश्चात्तदा का वार्तेत्यत आहपुव्वं सो सरिऊणं, संपत्थिऍ विज्जमादिक हिं। जस्स पुणो विस्सरियं, निव्विसमाणो तहिं वि वए॥१३६।। पूर्व स परिहारिकः स्मृत्वा परिहारतपो निक्षिप्य मया गन्तव्यमिति विविन्त्य संप्रस्थिते संप्रस्थानकाले विद्याऽऽदिकार्यविद्यागहणाऽऽदिकार्याकुलीभूततया यस्य पुनर्विस्मृतं, यो वा विस्मरणं गतवान्, तत्रापि पूर्व स्मरणे निर्विशमानो व्रजेत्। संप्रति यदुक्तम्-देशं सर्व वा आसाद्येति तद्व्याख्या नयतिदेसं वा वि वहेज्जा, देसं वठवेज अहव झोसिज्जा। सव्वं वाविवहेजा, सव्वं ठवेज सव्व झोसिज्जा।।१३७।। त्रिष्वपि सूत्रेषु देशं वा वाहयेदपि, देशं वा स्थापयेदपि, अथवा-देशं | झोषयेदपि / वाशब्दाः सर्वं चैत्याद्यपेक्षया विकल्पार्थाः / अपिशब्दाद् वहनाऽऽदिषु परस्परसमुच्चयार्थः / तथा–त्रिष्वपि सूत्रेषु सर्व वा स्थापयदपि, सर्व वा झोषयेदपि / अत्र वाशब्दो देश वेत्याद्यपेक्षया / विकल्पार्थः / अपिशब्दाः पूर्ववत्। अथ कथं देशस्य वहनाऽऽदि? उच्यतेपरिहारतपः प्रायः पूर्वव्यूढ स्तोक तिष्ठति, अत्रान्तरे चगमनकार्यमधिकृतं समुत्पन्नम्, तत आचार्यैरूक्तम्निक्खिव न निक्खिवामी, पंथि चिय देसमेव योज्झामि। असहू पुण निक्खिदए, भोसंति मएऽज्जतवसेसं // 13 // निक्षिप मुञ्च अधिकृतं परिहारतपः, यत इदं गमनकार्यमिदानीं समुत्पन्नम्। तत्र समर्थः सन्प्राह-न निक्षिपामि न मुञ्चामि, यत एव देश पथ्येव मार्ग एव वोक्ष्यामि, न च पथि क्लमं गमिष्यामि, शक्तत्वात्। असहोऽसमर्थः पुनर्नूनमहं गमिष्यामीति विचिन्तयन्त देशं निक्षिपति। अथवा (स) तस्य यदवशेष स्तोकमव्यूढमवतिष्ठते, तत्तस्यसंप्रस्थितस्य वाऽऽचार्याः प्रसादबुद्ध्या समस्तं झोषयन्ति मुञ्चन्ति / यथा महति प्रयोजने त्वं संप्रस्थितो वर्तसे इति मुक्तं प्रसादतस्तवैतत्तपः शेषमिति / तदेवं देशस्य वहननिक्षेपणझोषा भाविताः। संप्रति सर्वस्य तान् भावयतिएमेव य सव्वं पि व, दूरद्धाणम्मि तं तवे नियमा। एमेव सव्वदेसे, वाहणझोसा पडिनियत्ते / / 136 / / एवमेव अनेनंव प्रकारेण सर्वमपि बाह्यं निक्षेपणीयं च भावनीयम्। नवरं तद्भवति याह्याऽऽदिकं नियमात्तद्दूराध्वनि / तथाहि-कस्यापि परिहारतपो।दत्तं, वोढु च स प्रवृत्तः, अत्रान्तरे च गमनप्रयोजनमुपजातं, तत आचार्या ब्रुवते--भद्र! समुत्पन्नमिदं गमनप्रयोजनं तस्मान्निक्षिप परिहारतप इति / स समर्थः सन् प्राऽऽह-भगवन्! गच्छन्नपि समर्थोऽहं वोढुमध्वनो दूरत्वाच मार्गे एव समस्त वोक्ष्यामि / तथाहि सर्वजघन्य परिहारतपो मासिकं तदापन्नोऽसौ, गन्तव्यं चाऽऽनन्दपुरात् मथुरायां, ततस्तत्तपो मार्ग एव समाप्तिमुपयातीति असमर्थः पुनर्निक्षिपति, यदि था-महत्प्रयोजनमुपस्थितं, गरीयांश्चाध्या. एतस्य च प्रयोजनस्यायमेव गुणगरीयस्त्वात् कर्ता, ततः सम्यक्प्रवचनभक्तोऽयं परमदुष्करकारीति विचिन्त्य सूरयः सर्वमपि तस्य प्रसादतो मुञ्चन्ति / एवं सर्वस्य वहननिक्षेपझोषा(एमेवेत्यादि) एवमेव अनेनैव प्रकारेण, प्रतिनिवृत्ते प्रत्यागतस्य देशस्य सर्वस्य वाहनाझाषौ वेदितव्यौ। तद्यथा यदिगच्छता देशो निक्षिास्ततः सदेशःप्रत्यागते वोह्यते, अथसमस्तंततः सर्वमिति। यदि वा-अहो दुष्करमिदं कार्यमेनन कृतमिति परितुष्टाः सूरयो निक्षिप्त देशं सर्वं वा मञ्चन्ति। एवं प्रत्यागतस्य देशसर्ववाहनझोषौ / अथ कथं देशस्य सर्वस्य वा प्रसादतो झोषकरणं? न खलु प्रसादतः पापमुपयातीति। तत आहवेयावच्चकराणं, होति अणुग्धातिए वि उग्घायं / सेसाण अणुग्घाया, अप्पच्छंदोववेताणं // 140 / / यथा अनुद्घातिते परिहारतपसि प्राप्ते वैयावृत्यकराणां संघाऽऽदिवैयावृत्त्यप्रवृत्तानासुद्धाति परिहारतपो भवति दानयोग्य, वैयावृत्त्याऽऽलम्बनेन तेषामवलम्बितत्वात् / एवं कदाचित् देशकालाऽऽद्यपेक्षया देशस्य सर्वस्य वा झोषोऽपि क्रियते, तथा तीर्थकरानुज्ञाप्रवृत्तेः / तथा चोक्तम्--"तित्थगरेहिं भणियं, वेयावचकराणां झोसो भवति, अणुग्धातितकजइ।" इति। शेषाणं वैयावृत्त्याऽऽलम्बनरहितानामु