________________ परिहार 674 - अभिधानराजेन्द्रः - भाग 5 परिहार उद्वर्तना वक्तव्या, तस्यां च क्रियभाणायां महानाश्वासो भवति, समाधि च परमं लभते, ततः साधयति परममुत्तमार्थम् / तथा तृषापीडितस्य सतः पानकं पानं समर्पणीयम् (धीरवणा चेव त्ति) दुःखेन परिताप्यमानस्य धीरापना कर्त्तव्या, यथा-धीरो भव अहं तवैतत् दुःखं विश्रामणाऽऽदिना अपनेष्यामि / अपि च पुण्यभागिन्! सहस्यैतद् दुःखं सम्यग्यत एव तत्सहनानन्तरमचिरात्सर्वदुःख-प्रहीणो भविष्यसीति इत्यादि / तथा धर्मकथना पूर्वपरमदुष्कर-कारिमुनिचरितरूपा कथयितव्या, मध्ये धर्ममसहमानस्य बहिर्निर्हरणं बहिर्नयनं, बहिर्वाताऽऽदिकम सहमानस्य अन्ते निर्हरणम् / तथा तस्मिन् काले मरणसमये नमस्कारो दातव्यः / गतं परिज्ञाद्वारं, ग्लानद्वारं वा। संप्रति संयमातीतद्वार वादिद्वारम्, तथा चाऽऽहजो चिय भंसिञ्जते, गमओ सो चेव भंसियाणं पि। हेट्ठा अकिरियवादी, मणितो इणमो किरियवादी / / 126 // य एव चारित्राद् भ्रंश्यमाने संयमप्रत्युत्पन्नद्वारे गमक उक्तः स एव भ्रंशितानामुत्प्रताजितानामपि ध्रियमाणाना वेदितव्यः, न पुनः किञ्चिदपि नानात्वम् / गतं संयमातीतद्वारम्। अधुना वादिद्वारमाह-(अकिरियवादी इत्यादि) य एवं प्राक्परवादिनि गम उक्तः स एवात्रापि द्रष्टव्यः, केवलं सोऽक्रियावादी भणितोऽयं तु क्रियावादीति विशेषः। यत्र स्थाने वादो दातव्यः तत्र गतस्य यत्कर्त्तव्यम, तथा चाऽऽहवादे जेण समाही, विजागहणं च वादिपडिवक्खे / न सरइ दिक्खेवेणं, निव्विसमाणो तहिं गच्छे // 130 // वादे वादविषये येन तस्य समाधिरूपजायते तत्सर्व क्रियते / तद्यथा वादी भणति-वाक्पाटवकारि ब्राह्मयाद्यौषधं दीयताम्, इति तबीयते। शरीरजाड्यापहारि तदुपदिष्ट वैद्योपदिष्ट वा किञ्चिद्वस्तु / यदि वा दुग्धाऽऽदिविकृतिप्रणीतभक्तम् / अथवा-देशस्नानं सर्वस्नान वस्त्राऽऽदिविभूषा वा। विद्याग्रहाणं च (वादिपडिवक्खे त्ति) विद्याग्रहणं वा वादिप्रतिपक्षे वादिभिर्विद्याप्रतिपक्षभूत कार्यते / किमुक्तं भवति?, याः प्रतिवादिज्ञाताः, तासां प्रतिपन्थिन्यो या अन्या विद्याः / यथा-"मोरी नउलि विराली" इत्यादि। तासां ग्रहण कार्यते। करमादेतत्सर्व : क्रियते इति चेत्? उच्यते-गुणदर्शनात् / तथाहि-ब्राह्म्याऽऽद्यौषधोपयोगतो वाक्पाटवं, शरीरजाड्यापहार्योषधाभ्यवहारतः शरीरलघुता, दुग्धप्रणीताऽऽहाराभ्यवहारतो मेधाविशिष्ट च धारणाबलं, सर्पिः सन्मिश्रभोजने भुक्ते तु ऊर्जा,"घृतेन पाटवम्' इति वचनात्। देशतः सर्वतो का स्नानेन वस्वाऽऽदिभूषायां च तेजस्विता, प्रतिपक्षविद्याग्रहणतो महान्मानसिकोऽवष्टम्भः / एतत्सर्वं वादवेलायामुपयोगि। तथा चाऽऽहवाया पुग्गललहुया, मेहा उज्जा य धारण बलं च। तेजस्सिया य सत्तं, वायामइयम्मि संगामे / / 131 / / वाग्व्यत्काक्षरा, पुद्गललघुता शरीररपुद्गलाना जाड्यापगमः, मेधा अपूर्वापूर्वऊहाऽऽत्मको ज्ञानविशेषः, ऊर्जा बलं प्रभूततरभाषणेऽपि प्रवर्द्धमानस्वबलः, आन्तर उत्साहविशेष इत्यर्थः। धारणाबलं प्रतिवादिनः शब्दतदर्थावधारणबलं तेजस्विता प्रतिवादिक्षोभाऽऽदिका शरीरस्थ स्फूर्तिमती देदीप्यमानता, सत्त्वं प्राणव्यपरोपणसमर्थविद्याप्रयोगेऽप्यविचलितस्तन्मानोपमर्दहेतुरवष्टम्भः / एतत्सर्व वाड़मये संग्राम उपयुज्यते। सूत्रम्-(परिहारकप्पट्टिते भिक्खू बहिया थेराण वेयावडियाए गच्छेज्जा, थेरा य से नो सरेजा, कप्पइ से निविसमाणस्रा एगराइयाए पडिमाए // 24 / / इत्यादि) अत्र 'नो सरेज्जा'' इति विशेषः / शेष समस्तमपि पूर्ववत् / 'नो सरेजा" इत्यस्यायमर्थः-एष परिहारतपो वहन, तिष्ठतीति स्थविरा आचार्या न स्मरेयुः / कस्मान्न स्मरेयुरिति चेत्? उच्यते-व्याक्षेपात् / तथा चाऽऽह- "नसरइ" इत्यादि पूर्वगाथापश्चार्द्धम् / विद्याना निमित्तानां प्रत्युत्तराणां च कथनतो, बहुविधसंदेशकथनतो वा आचार्यो न स्मरति, ततस्तस्मिन्नस्मरणे सति स निर्विशमानक एव गच्छेत्, गत्वा च यत्र गन्तव्यम्, नत्र यत्करोति तदाहतत्थ गतो वि य संतो-पुरिसं थामं च नाउ तो ठवणं / साहीणमसाहीणे, गुरुम्मि ठवणा असहणाओ।।१३२॥ तत्र गतोऽपि च सत्पुरुष प्रतिवादिलक्षणं प्रचण्ड वा स्थाम च प्राणमात्मनो ज्ञात्वा तदनन्तरं यदि समर्थमात्मान संभावयति तदा न निक्षिपति / अथाशक्तिः संभाव्यते ततः स्थापना निक्षेपणं परिहारतपसः कर्तव्यम् / किमुक्तं भवति?-दुर्जयः खलु प्रतिवादी न यथा कथञ्चन जेतुं शक्यते, अहं च क्षामतया बहुविधनुत्तरं दातुमशक्तो मतिमोहो वा तदानीं मम क्षामतया भवेत्, इति यदि संभावयति तर्हि निक्षिपति। अथ कथं स निक्षिपतीत्यत आह-(साहीणेत्यादि) स्वाधीने सन्निहिते अस्वाधीने असन्निहिते गुरौ च सहस्य स्थापना परिहारतपसो निक्षेपण भवति / इयमत्र भावना-यद्याचार्यः सन्निहितो भवति ततः स एव तं निक्षेपयति; अथ नास्ति सन्निहितः ततोऽशक्तः क्षामत्वेन परवादिन जेतुमित्यालम्बनतः स्वयमेव निक्षिपति। अत्र पर आह-ननु यदि स्वयं निक्षिपति ततः स आत्मच्छन्दसा निक्षिपन यदि उद्धातितं वहति ततोनुद्धातित प्राप्नोति, अथानुद्घातितं ततः परतरं स्थानमाप्नोति इति / सूरिराहकामं अप्पच्छंदो, निक्खिवमाणो उदोसवं होइ। तं पुण जुजइ असढे, वीरियकज्जे पुण वाहेजा।।१३३ / / कामशब्दो मकरध्वजे, अवधृतौ च / इहावधृते काममवधृतमेतत् / आत्मच्छन्दसा निक्षिपन दोषवान् भवति, परं निष्कारणे यदि पुनरशठः सन् एवं चिन्तयति-न शक्तः क्षामतया परवादिन जेतुमिदानी वीरितकार्यः समाप्तकार्यः पुनर्भूयो वहेयमिति ततस्तद् निक्षेपणं युज्यते एच, अदुष्टमेट, पुष्टाऽऽलम्बनत्वात् / सूत्रम्-(परिहारकप्पट्ठिए भिक्खू बहिया थेराणं वेयावडियाए गच्छेजा, थेरा य से सरिजा वा नो सरिजा वा नो कप्पइ, से निविसमाणस्स // 25 / / इत्यादि) एतदपि सूत्रं तथैव, नवरमेतावाविशेषः-(थेरा य से सरिजावा नो सरिता था नो कप्पड़ से निविसमा