________________ परिहार 673 - अभिधानराजेन्द्रः - भाग 5 परिहार क्षुल्ल्कस्य यदा प्रथमतो भक्तपानविषये निस्तारण क्रियते तदा तस्थानुकम्पा कृता भवति, यदि पुनस्तस्य प्रथमं निस्तारो न क्रियते किं त्वाचार्याऽऽदीनां तदा जनगरे / यथाधिगेतान् मुण्डान् यद् बाल बुभुक्षाक्लान्तं मुक्त्वा आत्मानं चिन्तितवन्त इति। अपि चबालत्वादेव स तीक्ष्णक्षुत्वाच, स्तोककालेनापि भक्तपाननिरोधेन क्लमुपयाति / तेन कारणेन क्षुल्लकः प्रथमं निस्तार्यते, तदनन्तरं स्थविरः, सोऽपि हि बालवत् स्तोककालेनाऽपि भक्तपान निरोधेन क्लाम्यति० केवलं क्षुल्लकापेक्षया मनाक् सहत इति तदनन्तरं तस्योपादानम्। स्थविरादपि भिक्षुश्चिरकालसह इति तदनन्तरं तस्योपादानम् / ततोऽप्यभिषेकः समर्थस्तस्मादाचार्य इति तदनन्तरं तौ क्रमेणोपात्ताविति / इति प्रथम भक्तपाननिरोधक्षुल्लकाऽऽदिक्रमकरणे प्रयोजनगतं विधिं लभत इतिद्वारम् / अधुना क्षुल्लकभक्तद्वारमाह (दुल्लभभत्ते वि एमेव) एवमेव अनेनैव प्रकारेण दुर्भिक्षत्वेन दुर्लभे भक्ते निस्तारणविधिर्वक्तव्यः। तद्यथा खुड्डे थेरे भिक्खू, अभिसेयाऽयरिऍ दुल्लभं भत्तं / करणं तेसिं इणमो, संजोगगमं तु वुच्छामि / / 117 / / तरुणे निष्फन्त्रपरिवारे, सलद्धिए जे य होइ अब्भासे। अभिसेयम्मि य चउरो, सेसाणं पंच चेव गमा॥११६॥ खुड्डिय थेरी भिक्खुणि, अभिसेय पवित्ति दुल्लभ भत्तं / करणं तासिं इणमो, संजोगगमं तु वुच्छामि ||116 / / तरुणी निप्फन्न परिवारा, सलद्धिया जा य होइ अब्भासे। अभिसेयाए चउरो, सेसाणं पंच चेव गमा।।१२०॥ क्षुल्लकाऽऽदिक्रमकरणप्रयोजनमपि तथैव वक्तव्यम् / गतं दुर्लभभक्तद्वारम्। ___ अधुना भक्तपरिज्ञाद्वारं ग्लानद्वारं च युगपदाहपरिण्णाय गिलाणस्स य, दोण्ह वि कयरस्स होति कायव्वं / असतीएगिलाणस्स य, दोण्ह विसंते परिणाए।१२१॥ परिज्ञातेति पदैकदेशे पदसमुदायोपचारात् भक्तपरिज्ञातशब्दः प्रत्याख्यानवाची क्तान्तस्य च परनिपातः, प्राकृतत्वात्सुखाऽऽदिदर्शनाद्वा। प्रत्याख्यातभक्तस्य, ग्लानस्य च संभवेद्वयोर्मध्ये कतरस्य भवति कर्तव्यम्? उच्यते शक्ती सत्या द्वयोरपि कर्तव्यम्, अथन शक्तो द्वयोरपि कर्तुं ततो ग्लानस्य कर्तव्यं, तस्य जीवितसापेक्षत्वात्। शक्तों सत्यां द्वयोरपि वैयावृत्त्ये क्रियमाणे सति परिज्ञाते प्रत्याख्यातभक्तस्येत्यर्थः, विशेषतर कर्तव्यमिति वाक्यशेषः। अथ शक्तावसत्यां ग्लानस्य कर्तव्यमित्युक्तमकारणमत आहसावेक्खो उ गिलाणो, निरवेक्खो जीवियम्मि उ परिणी। इइ दोण्ह वि कायव्वे, उक्कमकरणं करे असहू // 122 / / ग्लानो जीविते जीवने सापेक्षः, परिज्ञी भक्तपरिज्ञानवान् जीविते निरपेक्षः, ततोऽवश्यं ग्लानो जीवयितव्य इति।द्वयोरपि कर्तव्ये 'असहू' अशक्तः, उत्क्रमेण भक्तपरिज्ञावन्तं मुक्त्वा ग्लानस्य करणं वैयावृत्त्यं कुर्यात् / यदुक्तं शक्ती सत्यां द्वयोरपि कर्तव्यं, प्रत्याख्यातभक्तस्य विशेषतः कर्तव्यमिति। तत्र कारणमाहवसहे जोहे य तहा, निजामगविरहिए जहा पोए। पावति विणासमेवं, भत्तपरिण्णाएँ संमूढो // 123 / / यथा वृषभो बलीवर्दः सुसारथिरहितः, यथा वा योधाः सुस्वामिविरहिताः, यथा च निर्यामकविरहितः पोतः प्राप्नोति विनाशम्, एवं भक्तपरिज्ञाया सम्यग्निर्यामकाभावतः संमूढः सन् समाधिलाभलक्षणं प्राणविनाशमाप्नोति। तत्र प्रथमं वृषभदृष्टान्तं भावयतिनामेणं गोएण य, विपलायंतो वि सावितो संतो। अवि भीरू विनियत्तइ, वसहो अप्फालिओ पहुणा / / 124 / / यथा वृषभः प्रथमं सारथिरहितः सन् प्रतिवृषभेण युद्धे पराजितो विपलायते, न युद्धाऽभिमुखो भवति, विपलायमानश्च कथमपि प्रभुणा सारथिना दृष्टः सन् नाम्ना गोत्रेण च शापितः शब्दितः, आकारित इत्यर्थः / तथा प्रसादपुरस्सरमास्फालितश्च स्कन्धाऽऽदिप्रदेशेषु हस्तेन, तत एवं प्रोत्साहितसत्त्वः सन् अपिः संभावने, भीरुरपि विपलायमानोऽपि पुनरपि प्रतिवृषभेण सह युद्धदानाय प्रतिनिर्वर्तते। एवं कृतप्रत्याख्यानोऽपि सम्यग्निर्यामकभावतो जातमन्दपरिणामोऽपि निर्यामकेन प्रोत्साहितः सन प्रतिवर्तते स परीषहचमूमभिभवितुमिति वृषभदृष्टान्तः। संप्रति योधदृष्टान्तभावनामाहअप्फालिया जह रणे, जोहा भंजंति परबलाणीयं / गीयजुतो उ परिण्णी, तह जिणइ परीसहाणीयं / / 125 / / प्रभुणा नाम्ना गोत्रेण गुणप्रशंसनेन च आस्फालिताः-आसमन्तात् स्फारं प्रापिता यथा योधाः सुभटा रणे संग्रामे परबालनीकं परेषां वैरिणा बलं परवलं, तच तत् अनीकं च परबलानीकं भञ्जन्ति। तथा परिज्ञी भक्तपरिज्ञावान गीतयुतः सम्यग्निर्याभकोपेतो जयति अभिभवति परीषहानीकमिति / उक्ता योधदृष्टान्तभावना। संप्रति पोतदृष्टान्तभावनामाहसुणिउणनिजागमविर-हियस्स पोयस्स जह भवे नासो। गीयत्थविरहियस्स उ, तहेव नासो परिणस्स // 126 / / सुनिपुणः सम्यगजलमार्गकुशलः तेन निर्यामकेन विरहितस्य पोतस्य यथा भवति विनाशः, तथैव गीतार्थविरहितस्य परिज्ञिणः कृतभक्तपरिज्ञानस्य भवति विनाशः, प्रत्याख्यानफलस्य सुगतिलाभस्याभावात्। निउणमतीनिजामग, पोतो जह इच्छियं वए भूमिं / गीयत्थेणुववेतो, तह य परिण्णी लहइ सिद्धिं // 127 // यथा पोतः प्रवहणं, निपुणमतिः निर्यामकः कर्णधरी यस्य स तथा ईप्सिता भूमि व्रजति, एवं गीतार्थेनौपेतो युक्तः सन्परिज्ञी लभते सिद्धिं मोक्षमिति / उक्ता पोतद्दष्टान्तभावना। अथ किं तस्य विशेषतरं करणीयमित्यत आहउव्वत्तणा य पाणग, धीर वणा चेव धम्मकहणा य / अंतोबहिनीहरणं, तम्मि य काले नमोकारो / / 128 / / तस्य कृ तभक्तप्रत्याख्यानस्य स्वयमुर्त्तनं कर्तुमशक्नुवत