________________ परिहार 672 - अभिधानराजेन्द्रः - भाग 5 परिहार म्, षष्ठ्यर्थे सप्तमी। असहमानानां प्रत्यास्तरणे प्रतिकूलमभिमुखी-भूय स्तरत्वकरणे मा सर्वप्रस्तारः समस्तसंघोपद्रवो भूयात् / किमुक्तं भवति?-आगाढतरं प्रद्विष्टः सन् राजा सर्वमपि सङ्घमुपद्रवेत, अनेन कारणेन पिट्टनद्वारे भिक्षुः प्रथममुपात्तः, तदनन्तरं क्षुल्लकः, स हि बालत्वागीरुरनुकम्प्यश्च / ततः स द्वितीये स्थाने स्थापितः, तदनन्तरं स्थविरो, यतः स्थविरत्वेनाङ्गप्रत्याङ्गानां श्लथीभूततया तस्य पिट्टनस्यासहः / (गणि आयरिया उ सहू इत्यादि) गणी गच्छाधिपतीराचार्य आचार्यपदार्हः, एतौ द्वावपि सहौ समर्थी घातस्येति संबध्यते, अपि च देहवियोगेऽपि देहदंशे अपि, तुशब्दोऽपिशब्दार्थे; साध्वसविवर्जना, अविमुश्य प्रवृत्तिः साध्वसं, तद्विवर्जनौ, संमुखीभूय युद्धप्रदानलक्षणसाध्वसरहिताविति भावः / ततः स्थवरानन्तरं तौ द्वावप्युपात्ती, तत्राप्यभिषेकादतिशयेन सहो गच्छाधिपतिरित्यभिषेकानन्तरं गणिन उपदानम्। (एमेवेत्यादि) भंशेन संयमच्यवनद्वारेऽप्येवमेव अनेनैव प्रकारेण भिक्षुका-ऽऽदिक्रमकरणाकरणमभिधानीयम, नवरं भिक्षुरादीपर्णवदोऽपि संभवतीति नानात्वम् / किमुक्तं भवति?यदि भिक्षो स्तरुणतया प्रचुरमोहनीयोदयतया वा उत्प्रव्राजनमनुकूलं भवेत, ततः सक्षिप्रमुत्प्रव्रजेत् इति. प्रथमं भिक्षुग्रहणम्, तदनन्तरं क्षुल्लकाऽऽदिक्रमकरणे प्रयोजनं प्रागुक्तमवसातव्यम् / तासां पञ्चानामपि करणं निस्तारणकरणमिदं वक्ष्यमाणं संयोगगमं वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयतितरुणी निष्फण्णा ऊ, परिवार सलशिया य अडभासे। अभिसेयाए चउरो,सेसाणं पंच चेव गमा।१०५ / / अस्याः साधुगतगाथाया इव व्याख्या। संप्रतिद्वयोरपि साधुसाध्वीवर्गयोः संयोगेन निस्तारणविधिमाहपंतावण मीसाणं, दोण्हं वग्गाण होइ करणं तु। पुव्वं तु संजईण, पच्छा पुण संजयाण भवे // 106 / / "पंतावणं' नाम पिट्टन, तत्र मिश्रयोर्द्वयोरपि वर्गयोः साधुसाध्वी रुपयोः करणं निस्तारणकरण भवति / पूर्व संयतीनां पश्चात्पुनर्भवति / संयतानाम् तद्यथा-भिक्षुभिक्षुक्योः पूर्व भिक्षुकी, पश्चाद्विक्षुः, एवं क्षुल्लिकाक्षुल्लकयोः पूर्व क्षुल्लका, क्षुल्लकास्थविरयोः, स्थविरा, अभिषेकाभिषेकयोरभिषेका, आचार्यप्रवर्तिन्योः पूर्व प्रवर्तिनी, पश्चादाचार्यः / गतं पिट्टनद्वारम्। अधुना संयमच्यावनद्वारमाहभिक्खू खुडे थेरे, अभिसेयाऽऽयरिएँ संजमे पडुप्पण्णे। करणं तेसिं इणमो, संजोगजमं तु वुच्छामि / / 107 / / भिक्षुः, क्षुल्लकः, स्थविरोऽभिषेक आचार्यः, कथंभूत एकैक इत्याहसंयमे प्रत्युत्पन्नो वर्तमानः, तेषां भिक्षुप्रभृतीना पश्चानां निस्तारणकरणमिदं वक्ष्यमाणं संयोगगम संयोगतोऽनेकप्रकारं वक्ष्यामि। ___ यथाप्रतिज्ञातमेव करोतितरुणे निप्फन्न परिवारे सलद्धिए जे य होइ अब्भासे / अभिसेयम्मि य चउरो, सेसाणं पंच चेव गमा।।१०८ / / अस्या व्याख्या प्राग्वत्। संप्रति यदुक्तम्-"उदिन्नवेदो त्ति नाणत्तमिति" तद्व्याचिख्यासुराहअपरिणतो सो जम्हा, अन्नं भावं वएज तो पुव्वं / अपरीणामो अहवा, न निजई किं वि काहीइ / / 106 / / स भिक्षुर्यस्मादपरिणतोऽपरिणामत्वाद् चाऽन्यं भावमुत्प्रव्राजनाभिप्रायलक्षणं, व्रजेत्, ततः स सत्वरमेवोत्प्रव्राज्यते। अन्यच अथवा न ज्ञायते सोऽपरिणामः सन्(किंवीति) किमपि सम्मुखीभूय युद्ध करिष्यति, येन सकलस्यापि संघस्योपद्रवो भवेत्, तत एव तद्दोषभयात् पूर्व भिक्षुर्निस्तारणीय इति पूर्वं तस्योपादानं, शेषाणां तु ०क्रमोपन्यासे प्रयोजनं पिट्टनद्वारवदवसेयमिति। अत्रैव साध्वीरधिकृत्य निस्तारणविधिमाहभिक्खुणि खुड्डी थेरी, अमिसेग पवत्तिणि संजमे पडुप्पण्णा। करणं वा सिं इणमो, संजोगगमं तु वुच्छामि।।११०॥ तरुणी निप्फन्न परिवारा, सलद्धिया जा य होइ अब्भासे। अभिसेयाए चउरो, सेसाणं पंच चेव गमा / / 111 / / इदं गाथाद्वयमपि प्राग्वत्। संप्रति संबन्धे लभन्ते इति द्वारव्याख्यानार्थमाहखुड्डे थेरे भिक्खू, अभिसेयाऽऽयरिएँ भत्तपाणं तु / करण तेसिं इणमो, संजोगगमं तु वुच्छामि // 112 // क्षुल्लकः, स्थविरो, भिक्षुरभिषेक आचार्यः, तेषां पञ्चानामप्येव क्रमव्यवस्थितानां राज्ञा निरुद्धं भक्तपानमधिकृत्य करणं निस्तारणकरण संयोगगर्म संयोगतोऽनेकप्रकारं वक्ष्यामि। यथाप्रतिज्ञातमेव करोतितरुणे निप्फन्नपरिवारे, सलद्धिए जे य होइ अब्भासे। अभिसेयम्मि य चउरो, सेसाणं पंच चेव गमा।।११३।। शक्ती सत्यां पञ्चापि युगपन्निस्तारयेत्, शक्त्यभावे एकैक-हान्या यावत्पूर्व क्षुल्लकं निस्तारयेत् सोऽपि यदैकस्तराणोऽपरोऽतरुणः। तरुणो नामप्रथमकुमारत्वे वर्तमान इति। निष्पन्नता वज्रस्वामिन इव भावनीया ! द्रयोर्निष्पन्नयोर्वा सपरिवारः, द्वयोः सपरिवारयोरपरिवारयोर्वा सलब्धिकयोरलब्धिकयो यो भवत्यभ्यासे स निस्तार्यः / एते पञ्च गमाः क्षुल्लकस्य, अभिषेके चत्वारः निष्पन्नतया अस्य निष्पन्नानिष्पन्नगमाभावात्। शेषाणां स्थवरिभिक्ष्वाऽऽचार्याणां पञ्च गमाः। संप्रति साध्वीरधिकृत्य निस्तारणमाहखुड्डिय थेरी भिक्खुणि, अभिसेय पवित्ति भत्तपाणं तु / करणं तासिं इणमो, संजोगगमं तु वोच्छामि / / 114 // तरुणी निप्फन्नपरिवारा, सलद्धिया जा य होइ अब्भासे / अभिसेयाए चउरो, सेसाणं पंच चेव गमा।।११५॥ इदं गाथाद्वयं साधुगतगाथाद्वयमिव व्याख्यातव्यम्। अधुना क्षुल्लकाऽऽदिक्रमकरणे प्रयोजननाहअणुकंपा जणगरिहा, तिक्खखुहो होइ खुडुओ पढमं / इइ भत्तपाणरोहे, दुल्लभभत्ते वि एमेव // 116 //