________________ परिहार 671 - अभिधानराजेन्द्रः - भाग 5 परिहार यदि शक्तिस्तिततः पञ्चापि आचार्याऽऽदीन् युगपन्निस्तारयेत् / अथ न शक्तिस्ततः स्थविरवनि चतुरः, तत्राप्यशक्तौ क्षुल्लकस्थविरवर्जान, तत्राप्यसामर्थ्य आचार्यमेकं, सोऽप्येकः स्थविरो यदि दर्तते अपरन्तरुणस्तर्हि तयोर्मध्ये तरुणो निस्तारणीयः, द्वयोस्तरुपयोर्वा मध्ये निष्पन्नः सम्यक् सूत्रार्थकुशलः द्वयोरनिष्पन्नयो सपरिवारः, द्वयोः सपरिवारयोर्वा लब्धियुक्तयोर्वा अभ्यासे समीपे स्थितः / अत्र संप्रदाय:-द्वयोरभ्यासे स्थितयोर्यो नंष्टुमशक्तः स निस्तारणीयः / एतेषां पञ्च गमा आचार्ये भवन्तिा अभिषेकस्तु नियमान्नि ष्पन्न एव भवति, अन्यथा तत्त्वत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः। ततस्तस्मिन्नभिषेके निष्पन्नानिष्पन्नगमाभावात्० शेषास्तु चत्वारो गमाः। तद्यथा- स्थविरतरुणयोर्मध्ये तरुणः द्वयोस्तरुणयोर्वा सपरिवारः, द्वयोः सपरिवारयोर्वा लब्धियुक्तः, द्वयोर्लब्धियुक्तयोरलब्धियुक्तयोवाऽभ्यासे स्थितः। इति शेषाणां भिक्षुक्षुल्लकस्थविराणां पञ्चैव गमा भवन्ति। ते यथा-अनन्तरमाचार्यो भावितस्तथा भावनीयाः। तथा चैतदेव व्याचिख्यासुर्गाथाद्वयमाहतरुणे बहुपरिवारे, सलद्धिजुत्ते तहेव अब्भासे / एते वसहस्स गमा, निप्फण्णो जेण सो नियमा॥६६॥ तरुणे निप्फन्ने वा, बहुपरिवारे सलद्धि अब्भासे / भिक्खूखुड्डाथेरा--ण होंति एए गमा पंच / / 67 / / गाथाद्वयमपीदं व्याख्यातार्थ, नवरं वृषभोऽभिषेकः, स परिवारश्च, वृषभाऽऽदीनामाचार्यप्रदत्तः, प्रव्रजितस्वजनवर्गो वा द्रष्टव्यः / तदेवं साधूनां निस्तारणविधिरुक्तः। इदानीं साध्वीनां तमाहपवित्तिणि भिसेयपत्ता, भिक्खुड्डा तहेव थेरी य। गहणं तासिं इणमो, संजोगगमं तु वोच्छामि // 18 // प्रवर्तिनी समस्तसाध्वीनां नायिकाऽऽचार्यस्थानीया, अभिषेकप्राप्ता प्रवर्तिनीपदयोग्या, भिक्षुल्लिका, स्थविरा च प्रतीता। एतासां पञ्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगमं संयोगतोऽनेकप्रकारं वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयतितरुणि निप्फन्न परिवार सलद्धिया जाय होति अब्भासे। अभिसेयाणं चउरो, सेसाणं पंच चेव गमा।|६६ / यदि शक्तिरस्ति ततः पञ्चापि प्रवर्त्तिन्यादयो युगपन्निस्तारणीयाः, अशक्तौ चतस्रः तत्राप्यशक्तौ तिस्रः तदभावे द्वे प्रवर्तिन्यभिषेके, तत्राप्यशक्तौ प्रवर्त्तिन्येका तत्रापि यद्येका प्रवर्तिनी स्थविरा भवति अपरा च तरुणी तरुणीस्थविरयोर्मध्ये तरुणी निस्तारणीया, द्वयोस्तरुपओः स्थविरयोर्या मध्ये निष्पन्ना द्वयोर्निष्पन्नयोर्वा मध्ये सपरिवारा, द्वयोः सपरिवारयोरपरिवारयोर्वा मध्ये लब्धियुक्ता, द्वयोर्लब्धियुक्तयोरलब्धिकयोर्वा या भवत्यभ्यासे सा निस्तारणीया / एते पञ्च गमाः प्रवर्त्तिन्याम, अभिषेकायां चत्वारो गमाः, तस्या निष्पन्नतया निष्पन्नानिष्पन्नगमासंभवात् / शेषाणां भिक्षुकीक्षुल्लिकास्थविराणां पञ्च गमा भवन्ति / तेऽपि पञ्चापि गमाः प्रवर्त्तिन्या एव भावनीयाः। तदेवं साधूनां साध्वीनां च प्रत्येक निस्तारणविधिरूक्तः। सांप्रतमुभयेषा संयोगत आहआयरिय गणिणि वसभे, कमाण गहणं तहेव अभिसेया। सेसाण पुव्वमित्थी, मीसगकरणे कमो एस / / 100 / / यद्यस्ति शक्तिस्ततो द्वावपि वर्गी युगपन्निस्तारयेत्, अथा-समर्थस्तत एवं यतना आचार्यप्रवर्त्तिन्योर्मध्ये प्रथमत आचार्य निस्तारयेत् ततः प्रवर्तिनीम्, प्रवर्तिनीवृषभयोर्मध्ये पूर्व प्रवर्तिनी पश्चात् वृषभम्, वृषभाभिषेकयोर्मध्ये पूर्व वृषभं पश्चादभिषेकम् / (सेसाण पुष्वमित्थी ति) शेषेषु षष्ठी सप्तम्यर्थे प्राकृतत्वात्, पूर्व स्त्री निस्तारणीया, अनुकम्प्यत्वात्पश्चात्पुरुषाः। तद्यथा-भिक्षुभिक्षुक्योर्मध्ये पूर्व भिक्षुकी पश्चाद्भिक्षुः, क्षुल्लिकाक्षुल्लकयोर्मध्ये प्रथमतः क्षुल्लिका, पश्चात् क्षुल्लकः, स्थविरास्थविरयोः पूर्व स्थविरा, पश्चात् स्थविरः। अत्रापि सुनिपुणेन भूत्वा अल्पबहुत्वचिन्ता कर्तव्या। कृत्वा च यद् बहुगुणं तत्समाचरणीयम्। उक्तंच-"बहुवित्थरमुस्सग, बहुतरमुववायवित्थर नाउं / जह जह संजमवुड्डी, तह जयसू निजरा जह य // 1 // एष मिश्रकरणे युगपत्साधुसाध्वीवर्गनिस्तारणकरणे एषोऽनन्तरोदितःक्रमः / गत 'जीय त्ति' द्वारम्। (11) अधुना पिट्टनद्वारमाहभिक्खू खुडुग थेरे, अमिसेगे चेव तह य आयरिए। गहणं तेसिं इणमो, संजोगगमं तु वुच्छामि / / 101 / / भिक्षुः क्षुल्लकः स्थविरोऽभिषेक आचार्यः, तेषामेवं क्रमेण व्यवस्थिताना पञ्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगम संयोगतोऽनेकप्रकारं वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयतितरुणे निप्फन्ने परिवारे सलद्धिए जे अहोति अब्भासे / अभिसेयम्मि य चउरो, सेसाणं पंच चेव गमा।।१०२।। यदि शक्तिस्ततः पञ्चापि युगपन्निस्तारयेत्, तदशक्तावेकैकहान्या यावेदक भिक्षु सोऽपि यदेकः तरुणोऽपरश्च स्थविरः तदा तरुणो निस्तारणीयः / द्वयोस्तरुणयोरतरुणयोर्वा निष्पन्नो, द्वयोर्निष्पन्नयोर्वा सपरिवारः, द्वयोः सपरिवारयोर्वा सलब्धिकः, द्वयोः सलब्धिकयोर्वा यो भवत्यभ्यासे समीपे स निस्तारणीयः / एते पञ्च गमा भिक्षौ भवन्ति, अभिषेकगमाश्चत्वारो निष्पन्नतया तस्य निष्पन्नानिष्पन्नगमाभावात् / शेषाणं तु क्षुल्ल्कस्थविराऽऽचार्याणां च भिक्षोरिव पञ्चैव गमाः। तत्र भिक्षुकाऽऽदिक्रमकरणे कारणमाहअसंहते पचासू, रणम्मि मा होज्ज सव्वपत्थारो। खुड्डो भीरु णुकंपो; असहो घायस्स थेरा य / / 103 / / गणि आयरिया उसहू, देहविओए वि साहसविवजी। एमेव भंसणम्मि वि, उइण्णवेदो त्ति नाणत्तं // 104 / / भिक्षवो हि यदा राज्ञा पिट्टयितुमारभ्यन्ते तदा ते किञ्चिदगीतार्थ त्वेनासह माना: प्रत्यास्तरये यु: / प्रत्यास्तरणं नामसंमुखीभूय युद्धक रणम् / ततोऽसहमाने, जातावेक वचन