________________ परिहार 670 - अभिधानराजेन्द्रः - भाग 5 परिहार एवमनुमानितोऽपि तदा न तिष्ठति यदा ये राज्ञा सज्ञातिकाः, स्वजना इत्यर्थः / तैरनुमानयेत् / तैरपि प्रतिबोध्यमानी यदि न तिष्ठति तदा विद्याऽऽदिना वश्य कुर्यात् / आदिशब्दात् मन्त्रेण योगचूर्णवा वश्यं कुर्यादिति परिग्रहः / विद्याऽऽदिनाऽप्यगृह्यमाणे चारित्रविषये पश्चात्कृतो भूयात् स्वलिङ्ग परित्यज्य गृहिलिङ्ग च गृहीत्वा तथा कर्त्तव्यं यथा नैव स राजा भवति। एतदपि स कुर्वाणःशुद्ध एवं, प्रवचनरक्षार्थं तस्य प्रवृत्तेः। यथा च स राजा उत्पाटनीयः तथा तद्विषय मत्कोटकोच्छेदि चाणक्यप्रयुक्तं नन्दसत्कचौरसमूलघाति नलदामकुविन्ददृष्टान्तमुपदर्शयतिनन्दे भोइय खण्णा, आरक्खियघडण गेरु नलदामे / मूइंगगेहडहणा, ठवणा भत्तेसु कत्तसिरा ||1|| नन्दे चाणक्येनोत्पाटिते चन्द्रगुप्ते च राज्ये संस्थापिते नन्दसत्का ये भोजिकास्ते चाणक्येन, "खण्णा" इति / देशीपदमेतत् / सर्वात्मना लूषिताः, ततस्ते अजीवन्तश्चद्रगुप्तारक्षकैः सह संघट्टन कृतवन्तः, कृत्वा घ क्षेत्रखननाऽऽदिना नगरमुपद्रवन्ति, येऽप्यन्ये आरक्षिकाः स्थाप्यन्ते तानपि संवलयत्विा तथैव नगरोपद्रवं कुर्वते / ततश्चाणक्येन चिन्तयित्वा गेरुकवेषेण 'मुबंगो ति देशीपदं मत्कोटवाचकम् / मत्कोटगेहदहने प्रवृतं नलदामनामानं दृष्ट्वा तस्मिन्नारक्षकपदस्य स्थापना कृता / तेन च नन्दसत्कभोजिकानां समस्तानामपि सपुत्राणां भक्ते भक्तदानवेलायां शिरांसि लूनानि / एष गाथासक्षेपार्थः / भावार्थः कथानकादवसेयः / तच्चेदम्-'नंदे निच्छूढरज्जे परिठ्ठाविते चंदगुत्ते नंदस्स जे भोइया ते चाणक्केण लूसिया, ताहे ते अजीवमाणा चंदगुत्तारक्खिएहिं समं संवलिया खेत्तखणणाऽऽदीहिं उवद्दवंति, जे वि अन्ने आरक्खिया ठविचति ते वि संवलंति, ताहे चाणक्केण चिंतिय-कोलभिजा चौरगाहो जो न संवलिज्जा, जो य समूले चोरे उप्पाडेइ, ताहे चाणको परिवायगवेसं काऊण नयरवाहिरियाए हिंडइ. हिंडमाणेण दिवो नलदामकु विदो तंतुवायसालाठितो, तम्मि वेलाए नलदमाकोलियस्स पुत्तो रममाणो मझोडएण खइ तो, रोयंतोऽपि उस्सग्गसमल्लीणो कहियं-मक्कोडएण अहं खइतो, नलदामेण भण्णइ दसेहि जत्थोगासे खतितोऽसि / दसितो सो आयासो, ततो तेण नलदामेण जे विलातो निग्गया दिट्टा मक्कोडया ते विलं खनित्ता, जे विलस्संतो अंडया दिट्टा तेसु तणाणि परिखवित्ता पलीवित्ता अंडयाणि दड्ढाणि / चाणक्केण सो पुच्छितो किं कारणं खण्टा अंतो विलस्स पलीवियं? नलदामो भणइएए अंडया निष्फन्ना खाइरसंति। ततो चाणक्केण चितियएस चोरगाहो कतो संतो समत्थो मुइंगपरिदाह व्व चोरा उच्छेदइउं। ततो सो चोरगाहो ठवितो ताहे केइ नंदपक्खिया चोरा नलदाम मंतर्वेति, सुबहुं चोरभागं दाहामो, मा रक्खेह / नलदामेण भणिय-एवं होउ त्ति, इम च भणियं अन्ने वि एवमुवलभेह, तो सवे पत्तेज्जावेत्ता मसकसमाणेहिं तेंहि तह ति कय सव्वे सम्माणिया नलदामेण। अन्नया तेण नलदामेण तेसिं चोराणां विपुलं भत्त सज्जियं, जाहे सव्वे सपुत्ता आगया, ताहे सव्वेसिं सपुत्ताणं सिराणि छिन्नाणि / तदेवं यथा चाणक्येन नन्द उत्पाटितो, यथा च नलदाम्ना मत्कोटकाश्चौराश्च सूला उच्छेदि० तास्तथा प्रवचनप्रद्विष्ट राजान समूलमुत्पाटयति / ये च तस्य साहाय्यं कुर्वते, ये च तटस्थिता अनुमोदन्ते, ते सर्वे शुद्धाः, प्रवचनोपघातरक्षणे प्रवृत्तत्वात् / न केवल शुद्धिमात्रं, किं त्वचिरान्मोक्षगमनम् / तथा चात्र दृष्टान्तः प्रवचनोपघातरक्षको विष्णुकुमार इति। समतीतम्मि उ कले, परे वयंतम्मि एग दुविहं वा। संवासो न निसिद्धो, तेण परं छेय परिहारो // 11 // समतीते पुनः कार्ये यदि परो वदति-एकरात्रं द्विरात्रं वा संयासः क्रियतामिति / एवं परिस्मिन वदति एकरात्रं द्विरात्रं त्रिरात्रं वा वासो न निषिद्धः, तथा संवासेऽपिन किमपिप्रायश्चित्तमिति भावः। ततो द्विरात्राद् त्रिरात्राद्वा परं यदि वसति ततस्तस्य प्रायश्चित्तं छेदः, परिहारो वा। यदि पुनः सूत्रार्थप्रतिपृच्छादानाऽऽदिलक्षणं कारणं भवेत् तर्हि ततः परमाप वसेत् यावत्प्रयोजनपरिसमाप्तिः / तथा चाऽऽहसुत्तत्थपाडिपुच्छं, करेंति साहू उ तस्समीवम्मि। आगाढम्म उ जोगे, तेसि गुरू होज कालगतो ||2|| सूत्रार्थप्रतिपृच्छां कुर्वन्ति तस्य समीपे साधवः / यदि वाआगाढे योगे व्यवस्थिताना तेषां साधूनां गुरुः, उपलक्षणमेतत्, यो वाचनाप्रदानेन तेषां निस्तारकः सोऽपि कालगतः, ततः स तान् सूत्रार्थप्रदानाऽऽदिना निर्वाहयति, तथा यावत्सूत्रार्थप्रतिपृच्छा यावच तेषामवगाढयोगाना परिसमाप्तिस्तावदवतिष्ठते ततः परंतु नेति / अथ सूत्रे-“से संतरा छेदे वा परिहारे वा।' इत्युक्तम्, तत्र परिहारात् छेदो गरीयान् / प्रथम च लघु वक्तव्यं, पश्चात् गुरु, ततः से संतरा परिहारे वा छेदे वा' इति वक्तव्ये किमर्थ प्रथमः? __उच्यतेबंधाणुलोमयाए, उक्कमकरणं तु होति सुत्तस्स। आगाढम्मि य कज्जे, दप्पेण ठिते भवे छेदो ||3|| एवंरूपो हि पाठो ललितपदविन्यासतस्ततो बन्धानुलोमतया, तथा आगाढे प्रयोजने समुपस्थिते यदि कथमपि दर्पण स्थिते छेद एव प्रायश्चित्ते, तस्य भवति परिहारतप इति, एतदर्थं च सूत्रस्याप्यत्क्रमकरणमिति। तत्र यदि प्रद्विष्ट राजानं समूलमुत्पाटयितुमीशः तर्हि स सलब्धिकः समस्तं संघं निस्तारेत्, अथ नसमस्तं संघ निस्तारयितुमीष्ट, तत इमान् पञ्च निस्तारयेत्। तानेवाऽऽहआयरिए अभिसेए, भिक्खू खुढे तहेव थेरे य। गहणं तेसिं इणमो, संजोगगमंच वोच्छामि // 64 || आचार्या गच्छाधिपतिः, अभिषेकः सूत्रार्थदुभयोपेत आचार्यपदस्थापनार्हः, भिक्षुः प्रतीतः, क्षुल्लको बालः, स्थविरो वृद्धः। एतेषां पञ्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगम संयोगतो गमः प्रकारो यस्य तत्तथा वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयतितरुणे निप्फन्ने परिवारे लद्धीजुते तहेव अब्भासे। अभिसेयम्मि य चउरो, सेसाणं पंच चेव गमा||५||