________________ परिहार 666 - अभिधानराजेन्द्रः - भाग 5 परिहार नाऽऽदिना, स वा कालगतः, ततो यावत्तान् वाचयति तावदव तिष्ठते। (पण्ण ति) ईदृशं किमपि शास्त्रमपान्तराले तेन लब्ध यस्मिन्नधीते गाढ ज्ञावान्भवति, ततः प्राज्ञोऽहं भूयामिति वसेत्। समूलादारभ्य कथं व्रजतीति? अत आहवहमाण अवहमाणो, संघाडगेण वा असति एगो। असती मूलसहाए, अन्ने वि सहासए देंति।।३।। परिहारलया वहन्, यदि वा अवहन् निक्षिप्तपारहारतपाः (संघाडगेणेति) संघाटकेन संघाटसाधुनैकेन सह व्रजेत्। तथा आचार्येण ग्लानाऽऽदिप्रयोजनव्यापृततया तस्य संघटसाधुः सहायो न दत्तः, ततोऽसति संघाटकसाधाविकाकी व्रजेत् / एकाकिनश्च गच्छतः सतोरसति मूलसहाये अविद्यमाने मूलादारभ्य संघटकसाधाबन्येऽपि यषामाचार्याणां मध्येन गच्छति, तेऽपि तस्य सहायान् ददति। मुत्तूण भिक्खवेलं, जाणि य कजाई पुव्वभणियाई। अप्पडिबद्धो वच्चइ, कालं थामं च आसज्ज ! // 84 / / मुक्त्वा भिक्षावेलां थानि च कार्याणि पूर्वभणितानि "उभजोगे लत्ते वा'' इत्यादिरूपाणि, तानि च मुक्त्या अप्रतिबद्धो गोकुलाऽऽदिषु प्रचुरगोरससपिरादिलाभेऽपि प्रतिबन्धकुर्वन्काल विहारोचितं स्थाम च प्राणमात्मीयं गमनविषयमासाद्य, विहारक्रमकालौचित्येन स्वशक्त्यौचित्येन चेत्यर्थः, व्रजेत्। गंतूण य सो तत्थ य, पुट्विं संगिण्हए ततो परिसं। संगिण्हित्ता परिसं, करेइ वादं समं तेणं // 15 // यस्मिन् स्थानेषु प्रयोजनं तत्र सोऽधिकृतः परिहारकल्पस्थितो निक्षिप्तपरिहारतयो वा गत्वा पूर्वमेव संगृह्णाति आत्मीकरोति परिषद, संगृह्य च परिषदं पटहे नाऽऽघोषयतियस्य वादं कर्तुं शक्तिरस्ति स तदभिकाङ्क्षः सत्वरं समागच्छतु, एवं च घोषणायां कारितायां तेन सम वादं करोति। कथमित्याहअबंभचारि एसो, किं नाहिति कोट्ठ एस उवगरणं / वेसित्थी' पराजितो निव्विसयपरूवणा समए / / 86 // वादात् पूर्वमेव निमित्तमुपयुज्य तस्य स्वरूपमवगच्छति, ततस्तस्मिन्ननागते इद ब्रूते-एष तावदब्रह्मणोऽपि दोषान्न जानाति, अत एषोऽब्रह्मचारी अब्रह्मप्रतिसवी पशुवदब्रह्मणोऽपि दोषानजानन् कथमन्यत् ज्ञास्थति? एवमुक्त सभ्याः प्रेक्षका वा ब्रूयुः- कथमवसितमेषोऽब्रहा वारीति? स प्राऽऽह-गच्छत प्रेक्षध्वं यूयं यत्रासाववस्थितः तास्मन् कोष्ठके आश्रयविशेषे उपकरण द्वयादि अमुकप्रदेशे संगोपितमस्तीति। तथा अमुकया वेश्यया सममेष अमुकदिवसे द्यूतेन रममाणः पराजितस्ततः एतस्य सत्वं वरचं ग्रहणगृहीतम्, एवमादिभिश्चिचहरवगच्छत यथैषोऽब्रह्म वारीति ते गत्वा सर्व सवेदितं कथितं राज्ञः। “निविसपरूवणा'' इत्यादि पश्चात् व्याख्यास्यते / तदेवं निमित्ताऽऽभोगबलवतो यत् कर्त्तव्यं तदुक्तम्। सांप्रतमतिशयविशेषमधिकृत्याऽऽहजो पुण अतिसयनाणी, सो भणती एस भिन्नवत्तो त्ति। कोऽणेण समं वादो, दटुं पि न जुज्जए एस / / 87 / / यः पुनरतिशयज्ञानी अवधिज्ञानाऽऽदिकलितः, स च बहुतरं तस्य दुःशीलत्वमवगम्य सर्वमुच्चैनिःशङ्कितं भणति-यथैष भिन्नव्रत इति / ततःकोऽनेन सममस्माकं वादो य एष दृष्टमपि न युज्यते इति। अथ केन समं युज्यते वादः? उच्यते-आर्थत्वाऽऽदिगुणोपेत्तेन / न था चोक्तम्"अजेण भव्वेण वियाणएण, धम्मप्पयण्णेण अलीयभीरुणा। सीलंकुलाऽऽयारसमन्निएणं, वायं च तेणं सममायरेज्जा / / 1 / / आर्य आर्यकर्मकारी, अजुगुप्सितकारीत्यर्थः / तेन, भव्योऽनेकगुणसंभावनीयः, विज्ञो वादाभिज्ञः, धर्मप्रतिज्ञो धर्मकरणाभ्युगमपरः, अलीकभीरुः सत्यवादी, तथा शीलाऽऽचारसमन्वितः, शीलदोषरहितः, कुलाचारसमन्वितः कुलदोषरहितः / तेन सम वादं समाचरेत् / तत ईहशेन सम वादस्तीर्थकरैरनुज्ञातो, नान्यादृशेनेति / अथ स शून्यवाद / भवेत न दर्शनी, ततः स्वशक्तिबलेन यया हन्तुमुच्चरति सस प्रत्युचार्यासिद्धत्वविरुद्धत्वानेकान्तिकत्वदोषैर्दूषयितव्यः, प्रतिज्ञाऽऽदिकमपि दूषयितव्यम्। अथ कदाचित्तेनास्मदीय एव सिद्धान्तो जगृहे-यथा द्वौ जीवाजीवलक्षणो राशी जगतीति मम प्रतिज्ञेति / अत्र पूर्णगाथाखण्डस्याऽवकाशः-(पराजितो निस्विसयपरूवणा समए इति) तेन पारिहारिके ण त्रीन् राशीन् प्रस्थापयित्या वादी पराजे तव्यः, एतच निदर्शनमात्रम् / अन्यथापि सिद्धान्तोत्तीर्णमुचैर्भाषित्वा पराजेतव्यः, पराजितश्च स यदि भवेत् राज्ञा च निर्विषय आदिष्टः, ततः पश्चात्सकलपर्षत्सभक्ष समये स्वसमयविषया प्ररूपणा कर्तव्या। कथमित्याहपरिभूय मतिं एय स्स एतदुत्तं न एस णे समओ। समएण विणिग्गहिए, गज्जइ वसभो व्व परिसाए।८८ | यदुक्तं मया त्रयो राशया-जीवोऽजीवो नोजीव इत्यादि, न एषोऽस्माकं समयः, किं त्वेतस्यवादिनो मतिपरिभवितुमेतदुक्तम् यदि पुनः स्वसमयेन परो विनिगृहीतः स्यात्ततस्तस्मिन्विनिगृहीते वृषभ इव प्रतिवृषभ निर्जित्य पर्षदि पर्षन्मध्ये गर्जति गर्जन्विशेषतः स्वसमयप्ररूपणां कुरूते। तदेवमक्रियावादीति गतम्। (10) संप्रति "जीए त्ति' द्वारव्याख्यानार्थमाहअणुमाणेउं रायं, सण्णातीयग गेम्हमाण विज्ञाऽऽदि। पच्छाकडे चरित्ते, जहा तहा नेव सुद्धो उICE || यदि राजा ब्रूते-मया सह वादो दीयतामिति तदा राजानमनुमानयेत् अनुकूलवचसा प्रतिबोधयेत / यथा राजा पृथिवीपतिः, तच्छयाश्रिताः प्रजाः सर्वे च दर्शनिनः, ततः कथ र सह विवादः? अत्रार्थ चेदमुक्तं च किं तदित्याहअत्थवतिणा निवतिणा, पक्खवता बलवता पयंडेण / गुरुणा नीएण तव-स्सिणा य सह वजए वादं / / 10 / / अर्थपतिना धनपतिना नृपतिना राज्ञा. क्षवना नृपवर्गीयपक्षसमन्वितेन, तथा बलवता विद्यामन्त्रचूण्णऽ गोपेतेन, प्रचण्डेन तीव्रशेषेण, तथा गुरुणा विद्य दायिना, धर्मप्रद, ना वा तथा नीचेन नीचजातीयेन, तथा तपस्विना विकृष्टतपःकारिण। च सह वर्जयेत् वादमिति।