________________ परिहार 668 - अभिधानराजेन्द्रः - भाग 5 परिहार यदि पारिहारिकोऽपि गच्छति ततः सुतरामपारिहारिकेण गन्तव्यमिति स्थापनार्थ पारिहारिकग्रहणम्: न चोभयग्रहणमुपपत्तिमत, पारिहारिकग्रहणेनेवोक्तयुक्तित उभयग्रहणस्य सिद्धत्वात्। यदि पुनपारिहारिकग्रहणमेव केवलं स्यात्ततः पारिहारिको न यातीति प्रतिपत्तिः स्यात्। न चैव तत्समीचीनम् अतो यथान्यासः श्रेयानिति। संप्रति तस्य संस्थितस्य सहायचिन्तां करोतिसंविग्गमणुण्णजुओ, असती अमणुण्ण मीस पंथेणं / समणुण्णेसु भिक्खं, काउं वसएऽमणुण्णेसु / / 76 / / स पारिहारिकः संविग्नमनोज्ञयुक्तोऽसति मनोज्ञे संविग्नामनोज्ञसहायो गच्छेत् / इयमत्र भावना-तस्य पारिहारिकस्य गन्तुं प्रस्थितस्य संविग्नो मनोज्ञश्च सहायो दातव्यः / मनोज्ञः सांभोगिकः, तदभावे सविनोऽसांभोगिकः / एवंभूतसहायस्य च यदि सामर्थ्यमस्ति तत उत्सर्गतः कल्पते निर्विशमानकस्य सतो गन्तुम, निर्विशमानको नामपरिहारकल्पस्थितः। अथ नास्ति सामर्थ्य, ततः परिहारतपो निक्षिप्य गोकुला ऽऽदिषु प्रतिबन्धमकुर्वन गच्छति। तत्र यदुक्तम्-"जण्णं जण दिस साहम्मिया तण्ण तण्णं दिसं उवलित्तए'' इति / तद्व्याख्यानमाह--(मीसपथेण) मिश्रेण साधर्मिकयुक्तेन पथा गन्तव्यम् / तस्यैव व्याख्यानमाह(समणुण्णेसु इत्यादि) स पारिहारिकः समनोज्ञेषु वसति 1, एष प्रथमो भङ्गः साक्षादुपात्तः। एतस्यासंभवे साभोगिकेषु भिक्षां कृत्वा असाभोगिकेषु वसति 2 / एतस्याप्यभावे तृतीयः--असांभोगिकेषु भिक्षा कृत्वा साभोगिकेषु वसति३ / एतस्याप्यसंभवे चतुर्थ:-असांभोगिकेषु भिक्षा कृत्वा असांभोगिकेषु वसति 4 / एवमेते संविग्रसांभोगिकेषु चत्वारो भड़ा उक्ताः। एवं संविनासांभोगिकाऽऽदिष्वपि द्रष्टव्याः। तथा चाऽऽहएमेव य संविग्गे, असंविग्गे चेव एत्थ संजोगा। एमेव य पच्छाकड-सावगसंविग्गपक्खा य॥८०।। यथा संविग्रसांभोगिकासांभोगिकेषु चतुर्भया भिक्षा वसतय उक्ताः, एवमेव अनेनैव प्रकारेण संविग्ने असविग्ने वा सांभोगिके भिक्षावसतिविचारे संयोगा वक्तव्याः। एवमेव असविनाः सांभोगिकाः पश्चात्कृतसाभिग्रहनिरभिग्रहश्रावकेषु, तदभावे पश्चात्कृतनिरभिग्रहश्रावकसंविग्नपाक्षिकश्रावकेषु, तेषामप्यसंभवे संविग्नपाक्षिकासविग्नपाक्षिकश्रावकेषु प्रत्येक चत्वारः संयोगाः / सर्वत्र च पूर्वपूर्वचतुर्भङ्गी उत्तरोत्तरचतुर्भद्या प्रथमो भङ्गः। तद्यथा संविग्नासंभोगिकेषु भिक्षा कृत्वा संविनासांभोगिकेषु वसति 1 / एतस्य भङ्गस्याभावे सविग्नासांभोगिकेषु भिक्षां कृत्वा असंविनासांभोगिकेषु वसति / असविनासांभोगिकेषु भिक्षां कृत्वा संविनासांभोगिकेषु वसति 3 / अस्यासंभवे असंविग्नासांभोगिकेषु भिक्षां कृत्वा असविग्नासांभोगिकेषु वसति / तदेवं सविनासंविग्नासांभोगिकचतुर्भङ्गी भाविता। सांप्रतमसंविग्रासांभोगिकपश्चात्कृतसाभिग्रह चतुर्भङ्गी भाव्यतेअसंविग्रासांभोगिकेषु भिक्षां कृत्वा असं विग्नासांभोगिकेषु वसति 1 / एष पूर्वचतुर्भङ्गाश्चतुर्थो भङ्गः / एतस्यासंभवे असंविग्नासांभोगिकेषु भिक्षा कृत्वा पश्चात्कृतसामिग्रहश्रावकेषु वसति / पश्चात्कृतो व्रतपर्यायैस्तैः पश्चाकृताः मुक्तव्रतपर्यायाः, पुराणा इत्यर्थः / एतस्यापि भङ्गस्याऽभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा असविना सांभोगिकेषु वसति 3 / एतदभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहाकेषु वसति 4 / इदानीं पश्चात्कृतसाभिगृहनिरभिग्रहश्रावकचतुर्भङ्गी भाव्यतेपश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति 11 एष पूर्वचतुर्भङ्गयाश्चतुर्थो भगः। एतस्याभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति 2 / एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षांकृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति 3 / एतदभावे पश्चात्कृतनिरभिग्रह-श्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति 4 / संप्रति पश्चात्कृतनिरभिग्रहसंविग्नपाक्षिकश्रावकेषु चतुर्भणीभावनापश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति 1 / एष प्राकृतचतुर्भझ्याश्चतुर्था भङ्गः एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा संविग्नपाक्षिकश्रावकेषु वसति 2 / एतस्याप्यसंभवे संविग्नपाक्षिकश्रावकेषु भिक्षां कृत्वा सविग्नपाक्षिकश्रावके षु वसति 1 / एष पूर्वश्चतुर्भझ्याश्चतुर्थो भङ्गः / एतस्याभावे संविनपाक्षिकश्रावकेषु भिक्षां कृत्वाऽसंविग्नपाक्षिकश्रावकेषु वसति 2 / एतस्याभावे असंविग्नपाक्षिकश्रावकेषु भिक्षां कृत्वा संविनपाक्षिकश्रावकेषु वसति 3 / अस्याऽप्यसंभवे असंविनपाक्षिक श्रावकेषु भिक्षां कृत्वा असंविग्नपाक्षिकश्रावकेषु वसति / संप्रति यदुक्तम्-"नो से कप्पइ विहारवत्तियं वत्थए'' इति। तत्र विहारं व्याख्यानयन्नाहआहारोवहिजातो, सुंदर सेजा वि होइ हु विहारो। कारणतो उ वसेजा, इमे उ ते कारणा हुति।।१।। आहारः खल्वत्र शोभनो लभ्यते, यदि वा-उपधिः, स्वाध्यायो वा तत्र सुखेन निर्वहति / अथवा-सुन्दरा शोभना शय्या वसतिरिति / एष आहाराऽऽदिर्विहारहेतुत्वाद्भवति विहारः, तत्प्रत्ययं न कल्पते वस्तुम, कारणतः पुनः चशब्दस्य पुनः शब्दार्थत्वात् / एतेन "कारणवत्तिय वत्थए'' इति व्याख्यानयति / तानि पुनःकारणानि इमानि वक्ष्यमाणानि भवन्ति। तान्येवाऽऽहउभतो गेलने वा, वास नदी सुत्तअत्थपुच्छा वा। विज्जा निमित्तगहणं, करेइ आगाढपन्ने व // 2 // उभयता द्वाभ्यां प्रकाराभ्यां ग्लान्यं ग्लानत्वं भवेत्। किमुक्तं भवति?स एव परिहारिको गच्छन् अपान्तराले ग्लानोजानः ततो वसेत् / यदि वाऽन्यः कोऽपि साधुग्लानस्तं दृष्ट्वा श्रुत्वा वा तत्परिचरणार्थ तिष्ठेत् / यदि वा-वर्ष पतति, नदी वा पूरेण समागता / (सुत्तअत्थपुच्छा वा इति) केचिदाचार्याः सूत्रमर्थ प्रतिपृच्छेयुः, ततः सूत्रार्थप्रतिपृच्छादाननिमित्त वसेत् / (विजेति) परवादिनो मुखबन्धकारणी कस्यापि पायें विद्या समस्ति, यदि वामायूरी नाकुली इत्यादिकाः कस्यापि विद्याः सन्ति, निमित्तं वा अतिशायि कस्यचित्सकाशेऽस्ति, ततो यावद् विद्याग्रहणं वा करोति तावदास्ते / तथा (आगाढ त्ति) आगाढ्योपप्रविष्टाः केचन साधवः, तेषामाचार्याः / यदि वा–यस्तं निर्वाहयति वाचनाप्रदा