________________ परिहार ६६६-अभिधानराजेन्द्रः - भाग 5 परिहार क्षिप परिहारतपः / तत्र यदि सामर्थ्यमस्ति, ततः परिहारतपः प्रपन्नो गच्छति, अथ नास्ति, ततो निक्षिपति० निक्षिप्प च (से) तस्य कल्पते एकरात्रिक्या प्रतिमया, अत्र प्रतिमाशब्दोऽभिग्रहवाची, एकराविकेणाभिग्रहेण / किमुक्तं भवति?-यत्रापान्तराले वसामि तत्र गोकुलाऽऽदी प्रवुरगोरसाऽऽदिलाभेऽपि प्रतिबन्धमकुर्वता कारणमन्तरेण मयैकरात्रमेव वस्तव्यं० नाधिकमित्येवंरूपेणाभिग्रहेण (जणं जंणं दिसमित्यादि) अत्र द्वितीया सप्तम्यर्थे, यस्यां यस्यां दिशि, णशब्दो वाक्यालङ्कारे। अन्य साधर्मिकाः-(लिङ्गसाधर्मिकाः) प्रवचनसाधर्मिका वा सविनसांभोगिकाऽऽदयो वक्ष्यमाणास्तिष्ठन्ति / (तणं त णं दिसमिति) तां तां दिशं, णंशब्दौ प्राग्वत् / उपलातुं ग्रहीतुम्, आश्रवितुमित्यर्थः / 'ला आदाने' इति वचनात्। (नो से कप्पइ इत्यादि) (नो) नैव (से) तस्य परिहारकल्पस्थितस्य, निक्षिप्तपरिहारतपसो वा कल्पते, तत्रेति गच्छन् यत्र दसति भिक्षा वा करोति, तत्र सुन्दर आहारः, सुन्दर उपधिः, सुन्दरा शय्येति समीचीनो विहार इति विहारप्रत्ययं वस्तुम् (कप्पइ से इत्यादि) कल्पते (से) तस्यानन्तरोदितस्य यत्र भिक्षां कृतवान् उषितवान् वा, तत्र कारणप्रत्यय वक्ष्यमाणसूत्रार्थप्रतिपृच्छादानाऽऽदिकरणनिमित्तं वस्तुम, (तस्सिं च णमित्यादि)। येन कारणेनोषितस्तस्मिन् कारणे निष्ठित परिसमाप्ते यदि ब्रूयात्-अहो आर्थ! वंस एकरावं द्विराव वा तत एवं तदुपरोधतः (से) तस्य कल्पते एकरात्रं, द्विरात्र वा वस्तुं, न पुनः(से) तस्य कल्पते एक रात्रात् द्विरात्राद् नापरं वस्तु, यत्पुनस्तत्रैकरात्रात् द्विरात्राद्वा परं वसति निष्कारणवसनरूपात वा (से) तस्य प्रायश्चित्त छेदो वा परिहारो वा परिहारतपो वेति / एष सूत्रसंक्षेपार्थः / / 23 / / (परिहारकप्पटिए) एतदपि सूत्रत्रयं तथैव नवरमेतावान् विशेषः--(थेरा य से सरिज्जा वा नो सरिजा वा नो कप्पइ से निविसमाणरस त्ति) अस्याऽयमर्थःस्थविराः (से) तस्य परिहारकल्पं स्मरेयुः / यदि वाव्यक्षेपान्न स्मरेयुः, वाशब्दादुभावपि न स्मरेयाताम्, तथाऽपि यदि निविशमानको गच्छति ततः (से) तस्य निविशमानकस्य एकरात्रिक्या प्रतिमया एकरात्रिकेण दा साभिग्रहेण कदाचिदपि प्रतिबन्धमन्तरेण गच्छत इत्यादि / तथा चाऽऽह-इह त्रीणि सूत्राणि, तद्यथा-प्रथम स्मरणसूत्र, द्वितीयस्मरणसूत्रम, तृतीयं मिश्रकसूत्रम् स्मरणास्मरणसूत्रमित्यर्थः // 24 // 25 // __ साम्प्रतमेतदेव सूत्रं विवरीषुः प्रथमतो भि क्षुशब्दविषये चालनाप्रत्यवस्थाने आहपरिहारियगहणेणं, भिक्खुग्गहणं तु होइ किं पगयं / किंच गिहीण विभणित्ति, गणिआयरियाण पडिसेहो? 167 / अथवा-परिहारिकग्रहाणेन परिहारकल्पस्थितग्रहणेन भिक्षुग्रहणं किन भवतीति भावः, परिहारिकस्य भिक्षुत्वाव्यभिचारात् न खलु पारिहारिकत्वं गृहस्थस्याऽपि भवति। एतदेव काका आह-(किं च गिहीणं वि ति) कि वा गृहिणामपि गृहस्थानामपि भवति पारिहारिकत्व, येन तद् व्यवच्छेदकरणतो भिक्षुग्रहणं सफलतामश्नुवीत? नैव भवतीति भावः / ततो निरर्थक भिक्षुग्रहणम् / अत्राह-मण्यते उत्तरं दीयतेगण्याचार्ययोर्गणी गच्छाधिपतिराचार्यस्तयोः, उपलक्षणमेतत्-उपाध्यायस्य च प्रतिषधो भिक्षुग्रहणेन, आचार्योपाध्यायप्रतिषेधार्थ भिक्षुग्रहणमिति भावः / पुनरप्यत्राऽऽक्षेपपरिहारावाहवेयावचुज्जमणे, गणिआयरियाण किन्नु पडिसेहो। भिक्खुपरिहारिओ विहु, करेइ किमु आयरियमादी? / / 6 / / वैयावृत्योद्यमने वैयावृत्त्यविषयोद्यतकरणे, किंन खलु गण्या चार्ययोर्गच्छाधिपत्यनुयोगाऽऽचार्योपाध्यायानां प्रतिषेधः, नैवाऽसो युक्त इति भावः / यतो भिक्षुरपि, अभिशब्दो भिन्नक्रमत्वादत्रोपात्तोऽप्यन्यत्र संबध्यते / पारिहारिकः करोति। संघवैयावृत्त्यं किमुताऽऽचार्याऽऽदिन करोति, सुतरां तेन कर्तव्यम्, गुणोत्तमतया विशेषतस्तस्य तत्करणाधिकारत्वात्। अत्र सूरिराहजम्हा आयरियाऽऽदी, निक्खिविज्झणं करेइ परिहारं ! तम्हा आयरियाऽऽदि, विभिक्खुणो होंति नियमेण // 66 // यस्मादाचार्याऽऽदिकः परिहारं परिहारतपः करोति आचार्याऽऽदिपर्द निक्षिप्य मुक्त्वा, तस्मादाचार्याऽऽदयोऽपि भवन्ति नियमेन भिक्षव इति / भिक्षुग्रहणेन तेऽपि तदवस्थोपगता गृहीता इति। (E) अथ स्थविराणां वैयावृत्त्याय गच्छतीत्युक्तं, तत्र किं वैयावृत्त्यं, येन हेतुभूतेन स गच्छति? तत आहपरिहारिओ उ गच्छे, सुत्तत्थविसारओ सलद्धीओ। अन्नेसिं गच्छाणं, इमाइ कजाई जायाई॥७०।। यस्मात्स पारिहारिकः सूत्रार्थविशारदः सम्यक सूत्रार्थतदुभयकुशलः। तथा सलब्धिकोऽनेकलब्धिसंपन्नः / ततः सूत्रार्थप्रतिपृच्छाप्रदाननिमित्तम्, तथाऽन्येषां गच्छाऽऽदीना षष्ठी सप्तम्यर्थे प्राकृतत्वात्, अन्येष गच्छेषु, इमानि वक्ष्यमाणानि, कार्याणि जातानि, ततः साधनार्थ च गच्छेत्। इदं तु महत्प्रवचनस्य वैयावृत्त्यं यत् सूत्रार्थप्रदानादि करोति। अथ कान्यन्येषु जातानि कार्याणि, यदर्थ स व्रजेत्? अत आहअकिरिय जीए पिट्टण-संजम बंधे य भत्तमलभंते। भत्तपरिण्ण गिलाणे, संजमऽतीए य वादी य॥७१।। अक्रियावादी नास्तिको वादी स राजसमक्षं वादं याचते। (जीए त्ति) जीविते वा साधूना प्राणेषु वा राजा केनपि कारणेन प्रद्विष्टः (पिट्टण त्ति) पिट्टयति वा लकुटाऽऽदिमिः साधून (संयम त्ति) संयमाद्वा च्यावयति, उत्प्रवाजयतीति भावः / (बंध त्ति) बधाति वा साधून, बन्धे च कृते साधवो राज्ञः सकाशाद्भक्तपानं लभन्ते वा, न वा / किमुक्तं भवति? बन्धयित्वा स्वयं ददाति वा, वारयति वा यदेतेभ्यो हिण्डमानेभ्यः कोऽपि मा भिक्षा दद्यादिति। (भत्ते त्ति) दुर्भिक्षे वा समापतिते भक्तमतीव दुर्लभ जातमिति गत्वा स संपादयति। (भत्तपरिण त्ति) भक्तप्रत्याख्यानं वा केनाऽपि साधुना कृतं, सच परिहारिकः शोभनो निर्यामकः (गिलाण त्ति) ग्लाने वा कोऽप्याचार्याऽऽदिकः प्रवचनाऽऽधारभूतो जातः स च पारिहारिकः सम्यक् वैद्यक्रियाकुशलः / (सं जमतीत ति) संजमातीताः उत्प्रव्रजिताः ते राज्ञा कृताः, कृत्वा च धृता वर्तन्ते इति तन्मोचनार्थ गच्छति (वादि त्ति) नास्तिकवादिव्यतिरिक्तो दर्शनान्तरस्थः कोऽपि वाद याचते / एतेषां कारणानामन्यतमस्मिन्नपि