________________ परिहार 665 - अभिधानराजेन्द्रः - भाग 5 परिहार त्मानमात्मनोपालभते, पश्चादाचार्याऽऽदीना परेणोपालभ्यते। यदिवागुराणा उपालभ्यमानस्तत् गुरुवचनं सम्यक् प्रतिपद्यमानः प्रत्युचरति, एष उभयोपालम्भः / तथा उपग्रहणमुपग्रहः, उपष्टम्भकरणमित्यर्थः / सोऽपि त्रिविधः / तद्यथा-आत्मोपग्रहः, परोपग्रहः, उभयोपग्रहश्च। तत्र यदात्मन उपष्टम्भकरणं स आत्मोपग्रहः, यत्पुनः परमुपगृह्णाति स परोपग्रहः, आत्मनः परस्य चोपष्टम्भकरणमुभयोपग्रहः / उपग्रहश्च स्वरूपतो द्विधाद्रव्यतो, भावतश्च / अत्र चतुर्भड्किाद्रव्यतो नामैक उपग्रहो, न भावतः 1 / भावत एको, न द्रव्यतः 2 / एको द्रव्यतोऽपि भावतोऽपि 3 / एको नाऽपि द्रव्यतो नापि भावतः / अत्र चतुर्थो भङ्गः शून्यः! तृतीयभड़े उदाहरणमाचार्यः। तथा च उक्तानेव दृष्टान्तानुपदर्शयतिअणुसट्ठीएँ सुभद्दा, उवालंभम्मिय मिगावती देवी। आयरिओ दोसुव-गहे य सव्वत्थ वाऽऽयरिओ।।३७४ / / अनुशिष्टौ परानुशिष्टावुदाहरणं सुभद्रा, उपालम्भे परोपालम्भे उदाहरणे मृगावती देवी। एते च द्वे अप्युदाहरणे प्रागेव भाविते, परस्य द्रव्यभावयोर्विषये उपग्रहे उदाहरणमाचार्यः / स हि द्रव्यमन्नपानाऽऽदिकं दापयति, भावतः प्रतिपृच्छाऽऽदिकं करोति / (अथवा दोसु उवग्गहे यत्ति) द्वयोः पारिहारिकानुपारिहारि-कयोरुपग्रहे आचार्यो वर्तते / तस्मात्परोपग्रहे आचार्य उदाहरणम् / अथवा सर्वत्र अनुशिष्टौ उपालम्भे उपग्रहे च उदाहरणमाचार्यः / यतः सपरिहारिकस्यानुपारिहारिकस्य समस्तस्याऽपि च गच्छरयानुशिष्ट्यादीनि करोतीति। व्य०१ उ०। (सर्वोऽप्यनुशिष्टिविषयः 'अणुसट्ठी' शब्दे प्रथमभागे 420 पृष्ठ गतः) संप्रत्यात्मोपालम्भोल्लेखं दर्शयतितुमए चेव कयमिणं, न सुद्धगारिस्स दिज्जए दंडो। इह मुक्को वि न मुच्चइ, परत्थ अह होउपालंभो // 377 / / त्वयैव स्वयं कृतमिदं प्रायश्चित्तस्थानं, तस्मान्न कस्याप्युपर्यन्यथाभावः कल्पनीयः, न खलु शुद्धकारिणो लोकेऽपि दण्डो दीयते। किंचयदि इह भवे कथमप्याचार्येणैवमेव मुच्यते। तथा इह भवे मुक्तोऽपिपरत्र परलोके न मुच्यते / तस्मात्प्रमादाऽऽपन्नं प्रायश्चित्तमवश्यं गुणवृद्ध्या कर्तव्यमिति। अथ एष भवत्युपलम्भः / एषः आत्मोपलम्भः, एतदनुसारेण परोपालम्भः, उभयोपालम्भोऽपि भावनीयः। संप्रति परोपग्रहे युदक्तम्-"आयरिओ दोसुवगहे य'' इति / तत् व्याख्यानयति-- दवेण य भावेण य, उवग्गहो दव् अण्णपाणाई। भावे पडिपुच्छाई, करेति जं वा गिलाणस्स // 37811 उपग्रहो द्विविधः-द्रव्येण, भावेन च। तत्र "दव्ये' इति तृतीयार्थे सप्तमी, द्रव्येणोपग्रहः, कल्पस्थितोऽनुपारिहारिको वा असमर्थस्य सतोऽन्नपानाऽऽद्यानेतुं ददाति / भावे भावेनोपग्रहो यत् सूत्रेऽर्थे वा प्रतिपृच्छाऽऽदि करोति। अथवा यत् ग्लानस्य क्रियते समाधानोत्पादनमेव भावोपग्रहः / अधुना 'दोसुवग्गहे य" इत्यस्य व्याख्यानान्तरमाह परिहाराणुपरिहारी, दुविहेण उवग्गहेण आयरिओ। उवगेण्हइ सव्वं वा, सबालबुड्डाऽऽउलं गच्छं / / 376 / / व्यरूपेण भावरूपेण वोपग्रहेणाऽऽचार्य उपगृह्णाति, ततः आत्मोपग्रहे आचार्य उदाहरणम्। 'सव्वत्थ वाऽऽयरिओ'' इत्यस्य व्याख्यानमाह(सव्वं वा इत्यादि) वाशब्दः पूर्वार्धोक्तपक्षापेक्षया पक्षान्तरसूचने, सर्व पारिहारिकमनुपारिहारिक सबालवृद्धाऽऽकुलं च गच्छमाचार्यो द्रव्यतो भावतश्चोपगृह्णाति, ततः सर्वत्र समस्तेऽपि गच्छे आचार्य उपग्रहे वर्तते, तस्मात्परोपग्रह स उदाहरणम्। अत्रैव व्याख्यानान्तरमाहअहवाऽणुसछ्वालं-भुवग्गहे कुणति तिन्नि वि गुरू से। सव्वस्स वि गच्छस्स, अणुसट्ठाईणि सो कुणति॥३०॥ अथवेति प्रकारान्तरे, अनुशिष्ट्यपालम्भोपग्रहान् त्रीनपि गुरुराचार्यः (से) तस्य पारिहारिकस्य यथायोगं करोति, न केवलं पारिहारिकस्य यथायोग करोति किं तु सर्वस्याऽपि गच्छस्य अनुशिष्ट्यादीनि त्रीण्यपि स आचार्यः करोति। व्य०१ उ०। नि० चू०। (बहवः पारिहारिका इच्छन्ति अभिनिषद्यां गन्तुमिति तद्वक्तव्यता 'अभिणिसज्जा' शब्दे प्रथमभागे 715 पृष्ठे दर्शिता) (8) परिहारकल्पस्थितस्य भिक्षोरन्यवाऽऽचार्याणां वैयावृत्याय गमनम्परिहारकप्पद्विते भिक्खू बहियाथेराणं येयावडियाए गच्छेज्जा, थेरा य से सरेज्जा, कप्पइ से एगराइयाए पडिमाए, जंणं जंणं दिसि अण्णे साहम्मिया विहरंतितं णं तं णं देसं उवलातुं णो से कप्पइ, तत्थ विहारवत्तियं वत्थए, कप्पइसे तत्थ कारणवत्तिय वत्थए, तस्सिं च णं कारणंसि निट्ठियंसि परो वएजा-वसाहि अञ्जो! एगरायं वा दुरायं वा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कप्पइ एगरायं वा दुरायं वा परं वत्थए, जं तत्थ एगरायाओ वा दुरायाओ वा परं वसइ, से संतराए छेदे वा परिहारे वा // 23 / / परिहारकप्पट्ठिए भिक्खू बहिया थेराण वेयावडियाए गच्छेज्जा, थेराय से णो सरेजा, कप्पइसे णिविसमाणस्स एगराइयाए पडिमाए जंणं जं णं दिसिं० जाव तत्थ एगराओ वा दुराओ वा परं वसति, से संतरा छेदे वा परिहारे वा // 24 || परिहारकप्पट्टिते भिक्खू बहिया थेराणं वेयावडियाए गच्छेजा, थेरा य से सरेजावा, णो सरेजावा, कप्पइसे णिविसमाणस्स एगराइयाए० जाव छेदे वा परिहारे वा।।२५।। परिहारस्य कल्पः समाचारी परिहारकल्पस्तत्र स्थितः परिहारकल्पस्थितः, प्रायश्चित्ततपःप्रकारे व्यवस्थित इत्यर्थः / भिक्षुर्वती, बहिरन्यत्र नगराऽऽदौ स्थविराणामाचार्याऽऽदीनां, वैयावृत्त्याय वैयावृत्त्यकरणाय गच्छेत। स्थविराश्य येषां समीपे तिष्ठन्ति ते स्मरेयुर्यथैष परिहारकल्पस्थितो वर्तते, स्मरद्धि स्थविरैः स वक्तव्योयावत्प्रत्यागच्छसि तावन्नि