________________ परिहार 664 - अभिधानराजेन्द्रः - भाग 5 परिहार मिति सर्वं भग्नम् / एवं चारित्रशकटेप्युसंहारो भावनीयः। तथा एरण्डमण्डपे एकः सर्षपः प्रक्षिप्तः, स नापनीतः अन्यः, प्रक्षिप्तः, सोऽपि नापनीतः / एवं प्रक्षिप्यमाणेषु सर्षपेषु भविष्यति सर्षपो येन प्रक्षिप्तेन सोऽल्पीयानेरण्डमण्डपो भज्यते / एवं स्तोकेन स्तोकेनाऽऽपन्नेनाशोध्यमानेन कालक्रमेण चारित्रमण्डपो भज्यते। वस्त्रदृष्टान्तभावना यथा-शुद्धे वस्त्रे कर्दमबिन्दुः पतितः स न प्रक्षालितः, अन्यः पतितः, सोऽपि न प्रक्षालितः / एवं पतत्सु कर्दमबिन्दुषु अप्रक्षाल्यमानेषु कालक्रमेण सर्वं तद्वस्त्रं कर्दमवर्ण संजातम्. एवं शुद्धचारित्रं स्तोकायां स्तोकायामापतितायामापत्तौ प्रायश्चित्तेनाशोध्यमानायां कालक्रमेणाचारित्रं सर्वथा भवति। एवं दृष्टान्तैः प्रायश्चित्तस्य दाने करणे च प्रसाधिते पर आहअनुकंपिया य चत्ता, अहवा सोहीन विजए तेसिं। कप्पट्ठभंडीए, दिट्ठतो धम्मया सुद्धो।।३७०।। तुल्यायामप्यापत्तौ यस्य शुद्धतपः प्रयच्छत स युष्माभिरनुकम्पितः, तद्विषये च भवतामवश्यं रागोऽन्यथेत्थमनुकम्पाकरणानुपपत्तेः / यस्य पुनः परिहारं प्रयच्छत स परित्यक्तः कर्कशतपोदानेन तथा वसतितस्मिन् व्यक्तं प्रद्वेषः / अथवा-परलोकमपेक्ष्य परिहारतपश्चानुकम्पितः, परिहारतपोदानेन तवरणशुद्धिकरणात् शुद्धतपस्वी च परित्यक्तः, शुद्धतपसा तच्चारित्रस्य शुद्धयभावात् / एवं विवक्षातो द्वावप्यनुकम्पिती यदि त्यक्ताविति। (अहवा सोहीत्यादि) अथवा तयोः शोधिः सर्वथा न विद्यते। तथाहि यदि परिहारतपसा शुद्धिस्ततः शुद्धतपस्विनो न शुद्धिः तस्य परिहारतपोऽभावात्। अथ शुद्धतपसा शुद्धिस्तर्हि पारिहारिकस्य यत् परिहारतपसः कर्कशस्य करणं तत् सर्वं निरर्थक, शुद्धतपसा शुद्धयभ्युपगतौ तेन शुद्ध्यभावात्। अत्राऽऽचार्य आह-(कप्पट्टगेत्यादि) कल्पस्थका बालाः, तेषां भण्डी गन्त्री तया दृष्टान्तः। कल्पस्थकग्रहण महदुपलक्षणं, तेन महद्न्या दृष्टान्त इत्यपि द्रष्टव्यम्। इयमत्र भावनाअत्र बालकगन्त्र्या बृहत्पुरुषगन्त्र्या च दृष्टान्तः / तथाहि-डिम्भा आत्मीयया गन्त्र्या क्रीडन्ति स्वकार्यनिष्पत्तिं च साधयन्ति / न पुनः शक्नुवन्ति बृहत्पुरूषगन्त्र्या कार्य कर्तुम् तथा बृहत्पुरुषा अपि आत्मीयया बृहद्गन्त्र्या कार्यं कुर्वन्ति न डिम्भकन्त्र्या। अथ डिम्भकगन्त्र्या कुर्वन्ति ततो भूयान् पलिमन्थदोषो, न चाऽभिलषितस्य कार्यस्य परिपूर्णा सिद्धिः / अथ बृहद्न्त्र्या भारस्तस्या मारोप्यते तर्हि सा भज्यते, मूलत एव कार्य न सिद्धयति। एवं शुद्धतपस्विनां शुद्धतपसा शुद्धिर्भवति, परिहारतस्विनां परिहारतपसा, यदि पुनः शुद्धतपस्विना परिहारतप आरोप्यते ततस्तत्र तेषां शक्त्यभावात् मूलत एव भ्रंशः। अर्थ च परिहारतपस्विनां शुद्धतपस आरोपस्तर्हि चरणशुद्ध्यभावः, तावता तेषां चरणशुद्ध्ययोगात् / अथ कथं शुद्धतपस्वी, परिहारतपस्वी च स्वस्वतपसा शुद्ध्यति, नान्येन, तत आह-(धम्मया सुद्धो) इह शुद्धतपस्वी परिहारतपस्वी वा शुद्धो भवति 'धम्मया' स्त्रीत्व प्राकृतत्वात् धर्मेण स्वशक्तिलक्षणेन स्वभावेन, तत एवमेव शुद्धिर्नान्यथा। एतदेव स्पष्टतरं भावयति जो जं काउ समत्थो, सो तेण विसुज्झए असढभावो। गूहियबलो न सुज्झइ, धम्म सहावो त्ति एगहुँ / / 371 / / यः साधुर्यत् शुद्धतपः परिहारतपो वा कर्तु समर्थः स साधुरशठभावः स्वकीय प्रति मायामकुर्वाणः स्वधर्मव्यवस्थितत्वात्तेन तपसा शुद्ध्यति / यः पुनर्गृहितबलः स्ववीर्य निगृहति सन शुद्ध्यति / स्वधर्मगृहनात्धर्मः स्वभाव इति द्वयमप्येकार्थम् / एतेन "धम्मया सुद्धो'' इति धर्मशब्दस्य पर्यायण व्याख्या कृता पादत्रयेण त्वादिमेन तत्त्वत इति। (8) अथ शुद्धतपःपरिहारतपसोः कतरत् कर्कशं तपः? सूरिराहआलवणाऽऽदी उपया, सुद्धतवे अस्थि कक्खडो न भवे / इयरम्मि उ ते नऽत्थी, कक्खडओ तेण सो होइ॥३७२।। यस्मात् शुद्धतपसि दशप्यालपनाऽऽदीनि सन्ति, तेन कारणेन तत्तपः कर्कश न भवति, इतरस्मिंस्तु परिहारतपसि यस्मात्तान्या-लापनाऽऽदनिपदानि न सन्ति, तेषां पूर्वमेव सकलगच्छसमक्ष स्थापितत्वात्। तेन तद्भवति कर्कशमिति / यः पुनस्तपःकालो, यच तपःकरणं तत् द्वयोरपि तुल्यम्। तम्हा ऊ कप्पट्ठिय अणु-परिहारिं च तो ठवेऊण। कजं वेयावच्चं, किच्चं तं विजवच्चं तु / / 373 // यस्मादेव परिहारतपः स्थितिः तस्मात्कल्पस्थितम् अनुपरिहारिकं च स्थापयेत, स्थापयित्वा च तौ ततस्तदनन्तरं स्वमापन्नं परिहारतपो वोढव्यं, तच्चाऽऽपन्न परिहारतपः प्रपन्नस्य ताभ्यां कल्पस्थितानुपरिहारिकाभ्यां स्थापिताभ्याम्-'करणिज्जं वेयावचं' इति सूत्रपदम्, एतदेवानुवदति कार्य वैयावृत्यम् / एतदेव व्याचष्टे-कृत्यं करणीयं तत् स्वोचितं ताभ्यां वैयातृत्यम्। कि तद् वैयावृत्यं यत्ताभ्यां कर्त्तव्यभित्यत आहवेयावचे तिविहे, अप्पाणम्मि य परे तदुभए य। अणुसट्ठि उवालंभे, उवग्गहे चेव तिविहम्मि // 374 / / वैयावृत्यं त्रिविधम्। तद्यथा अनुशिष्टिरुपालम्भोऽनुग्रहश्च। त्रिविधेऽपि तस्मिन् वैयावृत्ये प्रत्येकं त्रयो भेदाः तद्यथा-अनुशिष्टिरात्मनि आत्मविषया, परस्मिन्परविषया, तदुभयस्मिन्तदुभयविषया, आत्मपरतदुभयविषया इत्यर्थः / एवमुपालम्भोपग्रहावपि प्रत्येकमात्मपरतदुभयविषयौ भावयितव्यौ / तत्र उपदेशप्रदानमनुशिष्टिं स्तुतिकरणं वा अनुशिष्टः, तत्र यत् आत्मानमात्मना अनुशास्ति सा आत्मानुशिष्टिः / यत्पुनः परस्य परेण वाऽनुशासनं सा परानुशिष्टिः। तत्रोदाहरणम्-चम्पायां नगर्या सुभद्रा, सा हि सर्वरपि नागरिकजनैरनुशिष्टा, यथा धन्याऽसि त्वं, कृत पुण्यासि त्वमिति / यत्पुनरात्मानं परं वाऽनुशास्ति सा उभयानुशिष्टिः / तथा--अनाचारे कृते सति यत्सा तु नयोपदेशदानमेव उपालम्भः / सोऽपि त्रिविधः, तद्यथा-आत्मनि परे, तदुभये च / तत्र यदात्मानमात्मनैवोपालम्भते, यत्र त्वयैवेदं कृतं, तस्मात्सम्यक् सहस्वेति स आत्मोपालम्भः / परेणाऽऽचार्याऽऽदिना यदुपालम्भनं स परोपालम्भः / तत्रोदादहरणम्-मृगावती देवी, सा हि आर्यचन्दनया अकालपारिणीति कृत्वा उपलब्धा / उभयोपालम्भनो नामयत्प्रथमत आ