________________ परिहार 661 - अभिधानराजेन्द्रः - भाग 5 परिहार तार्थः / तत्र यदि ब्रूते-अहं गीतो-गीतार्थः। ततः पुनरपि पृच्छ्यतेत्व किं वस्त्विति आचार्य उपाध्यायो वृषभाऽऽदिर्वा / तत्राऽन्यतरस्मिन्कथिते भूपः पृच्छ्यते-(कास वऽसि जोग्गो त्ति) कस्य वा तपसस्त्वमसि योग्यः / किमुवतं भवति? किं तपः कर्तुमुत्सहसे, कस्य वा तपसः समर्थ इति पृच्छनीय इति। अथ स ब्रूते-अहमविगीतो, न विशिष्टो गीतः, अगीतार्थ इत्यर्थः / ततोऽविगीत इति भणिते पुनः पृच्छ्यते (थिरमथिर त्ति) किं त्वं स्थिरो वा अस्थिरो वा / तत्र स्थिरो नामधृतिसंहननाभ्यां बलवान, तद्विपरीतोऽस्थिरः / तत्र यदि ब्रूयादहमस्थिरः, ततः पुनः परिपृच्छा कार्या-(तवे य कयजोगो त्ति) तपसि कृतयोगो नामकर्कशतपोभिरनेकधा भाविताऽऽत्मा, इतरस्तु नेति। तत्र यदि तपसि कृतयोगस्तस्तस्मै परिहारतपो दीयते, इतरस्मै शुद्धतपः / गतं पृच्छाद्वारम्। (2) अधुना पर्यायद्वारमाहगिही सामन्ने य तहा, परियाओ दुविह होइ नायव्वो। इगुतीया वीसा य, जहन्न उक्कोस देसूणा / / 353 / / पर्यायो भवति द्विधा ज्ञातव्यः / तद्यथा गृहिणि गृहविषयः, जन्मन आरभ्येत्यर्थः / तथा श्रामण्ये श्रामण्यविषयः, श्रमणभावप्रतिपत्तेरारभ्य इति भावः / इयमत्र भावना-द्विविधः पर्यायः / तद्यथा-जन्मपर्यायो, दीक्षापर्याश्च / (इगुतीसा वीसा य जहन्न त्ति) यथासंख्येन योजनाजघन्यतो जन्मत एकोनत्रिंशद्वर्षाणि विज्ञेयो, दीक्षापर्यायो विशतिवर्षाणि। उत्कर्षत उभयत्राऽपि देशोना, पूर्वकोटी। उक्तंच- 'परियाओ दुविहोजम्मपरियाता य, दिक्खापरियातो य / जम्मपरियातो-जहण्णेणं इगुणतीसं ठाणं, उक्कोसेणं देसूणा पुष्चकोडी दिक्खापरियातोजघण्णेणं वीसं वासा, उक्कोसेणं देसूणा पुव्वकोडी ति।" (अत्र बहु वक्तव्यता ‘परियाय'शब्देऽरिमन्नेव भागे 628 पृष्ठे गता) गतं पर्यायद्वारम्। (3) संप्रति सूत्रार्थमाहनवमस्स तइवत्थू, जहण्ण उक्कोस ऊणगा दसओ। सुत्तत्थाणिअभिग्गह-दव्वाऽऽदितवोरयणमादी।।३५४ // जघन्यतः सूत्रमर्थश्च यावत् नवमय पूर्वस्य तृतीयमाचारनामकं वस्तु, उत्कर्षतो यावदूनानि किञ्चिन्यूनानि दशपूर्वाणि परिपूर्णदशपूर्वघराऽऽदीनां परिहारतपोदनायोगात् / तेषां हि वाचनाऽऽदिपञ्चविधस्वाध्यायविधानसेव सर्वोत्तमं कर्म्म निर्जरास्थानम्। गतं सूत्रार्थद्वारम्। (4) इदानीमभिग्रहद्वारमाह अभिग्रहा द्रव्यादिकाः / तद्यथा द्रव्यतः क्षेत्रतः, कालतो, भावतश्च तत्र द्रव्याभिग्रहाः अद्य मया कुल्माषा ग्राह्याः / यदि वा तक्राऽऽदिकमेकं द्रव्यमिति / क्षेत्रतोऽभिग्रहाःदेहलीमाक्रम्येत्यादिकाः / कालतोऽभ्रिहाः-तृतीयस्यां पौरुष्याम भावतोऽभिग्रहाः यदि हसन्ती रूदन्ती वा भिक्षां ददातीत्येवमादिकाः / गतमभिग्रहद्वारम्। (5) अधुना तपोद्वारमाह-(तपोरयणमादी) तषो रत्नाऽऽदिकम्, पदैकदेशे पदसमुदाोपचारात् रत्नाऽऽवऽऽल्यादिकम् / आदिशब्दात्कनकाऽऽवलिमुक्ताऽऽवलिसिंहविकीडिताऽऽदितपःपरिग्रहः / एवं गीतार्थत्वं यथोक्तं पर्यायसूत्रार्थाभिग्रहककशतपःकर्मलक्षणगुणसमूहयुक्तस्य परिहारतपो दीयते, एतद्गुणविहीनस्य पुनः शुद्धं तपो देयम्। अत्र शिष्यः पृच्छतिएयगुणसंजुयस्स उ, किं कारण दिज्जए उ परिहारो। कम्हा पुण परिहारो, न दिज्जए तविहूणस्स? ||355 / / भगवन् ! किं कारणमेतैरनन्तरोदितैर्गीतार्थत्वादिभिर्गुणैर्युक्तस्य परिहारः परिहारतपो दीयते / कस्मात्पुनस्तद्विहीनस्य गीतार्थत्वाऽऽदिगुणविकलस्य परिहारो न दीयते? अत्राऽऽचार्यो द्वौ मण्डपौ दृष्टान्तीकरोति शैलमण्डपमेरण्डमण्डपञ्च / तथा चाऽऽहजं मायति तं छुब्मति, सेलमए मंडवे न एरंडे / उभयबलियम्मि एवं, परिहारो दुब्बले सुद्धो॥३५६ // शैलमये पाषाणमये मण्डपे यत्किमपि माति तत्सर्वं छुभ्यते इति क्षिप्यते / तस्य तावत्यपि प्रक्षिप्ते भङ्गासंभवात् / एरण्डे एरण्डमये पुनर्मण्डपे न यन्माति तत्सर्व क्षिप्यते, भङ्गसंभवात्, किं तु यावत् क्षमते तावत्प्रक्षिप्यते / एवं उभये धृत्या शरीरसंहनेन च बलिके बलिष्ठे गीतार्थत्वाऽऽदिगुण्णयुक्ते परिहारः परिहारतपो दीयते / दुर्बले धृत्या, संहननेन वा, उभयेन वा बलविहीने शुद्धतपो दीयते। एते च परिहारशुद्धतपसी तुल्यायामप्यापत्तौ पुरुषविशेषाऽऽश्रयणेन दीयते। तथा चाऽऽहअविसिट्ठा आवत्ती, सुद्धतवे तह य चेव परिहारे। वत्थु पुण आसज्जा, दिजइ इयरो व इयरो वा !|357 / / शुद्धतपसि दातुमिष्टे परिहारेच अविशिष्टा तुल्या आपत्तिस्तथाऽपि वस्तु धृतिसंहननसंपन्नं पुरुषवस्तु आसाद्य अपेक्ष्यइतरत् परिहारतपोदीयते, धृतिसहननविहीनं पुरुषवस्तु आसाद्य इतरत् शुद्धतपो दीयते। किमुक्तं भवति?-यद्यपि द्वावपि जनौ तुल्यमापत्तिस्थानमापन्नौ, तथाऽपि यो धृतिसंहनन-संपन्नस्तस्मै परिहारतपो देयम्, इतरस्मैतुल्यायामप्यापत्ती शुद्धतपः। अत्र दृष्टान्तमाहवमण विरेयणमाइं, कक्खड किरिया जहाऽऽउरे बलिए। कीरइ न दुब्बलम्मी, अह दिटुंतो भवे दुविहे // 358 / / यद्यपि द्वावपि पुरुषौ सह रोगाभिभूतौ तथापि तयोर्मध्ये यः आतुरः शरीरेण बलवान् तस्मिन् बलिके यथा वमनविरेचनाऽऽदिका कर्कशा क्रिया क्रियते, न तु दुर्बले तस्मिन् यथा संहते तथा अकर्कशा क्रिया क्रियते। (अह त्ति) एष दृष्टान्तः तपसि द्विविधे परिहारशुद्धतपोलक्षणे। इदमुक्तं भवति-अयमत्रोपसंहारः-बलवत्यातुरे कर्कशक्रियेवधृतिसंहननसंपन्ने परिहारतपो दीयते, बलहीने त्वकर्कशक्रियेव धृतिसंहननविहीने शुद्धतप इति। (6) संप्रति येभ्यो नियमतः शुद्धतः परिहारतपो वा शुद्धतपः परिहारतपोयोग्याऽऽपत्तिस्थानाऽऽपत्तौ तपो देयं तत्प्रतिपादनार्थमाहसुद्धतवो अजाणं, अगियत्थे दुब्बले असंघयणे /