________________ परिहार ६६०-अभिधानराजेन्द्रः - भाग 5 परिहार रिति यावत् / उक्त च-"पज्जाहारो ति वा परिरओ ति वा एगट्ट।" परिरयेण परिहारः, सच परिरयो भवति संभवति गिरिनद्यादीनां विषये। इयमत्र भावनायत् गिरिनदीम्, आदिशब्दात् समुद्रमटवीं वा परिरयेण परिहरति, एष परिरयपरिहारः / तथा परिन्हियते इति परिहरणं, भावे अनट्। तच द्विधा-लौकिकं, लोकोत्तर च। तत्र लौकिकं यथा--माता पुत्रं परिहरति, भ्रातरं परिहरति, न परिभुङ्क्ते इत्येवमादि / लोकोत्तरं साक्षादाहपरिहरणधरणभोगेलोकोत्तरं परिहरणं द्विधा-धरणभोगे धरणपरिहरणं, परिभोगपरिहरणं चेत्यर्थः / तत्र धरणपरिहरणं नामयत्किमप्युकरण संगोपयति, प्रतिलेखयति च, न परिभुङ्क्ते। परिभोगपरिहरणंयत्सूत्रिककल्पाऽऽदि परिभुङ्क्ते, प्रावृणोतीत्यर्थः / उक्तं च-''लोगे जह माता ऊपुत्तं परिहरइ एवमादीओ। लोगुत्तरपरिहारो दुविहो परिभोग धरणे य।।१।।"अत्रैवं व्युत्पत्तिः-परिहरणमेव परिहारः (लोगुत्तर वज इत्तरिए) वर्ज वर्ज तत् द्विधा-(लोग त्ति)लौकिकम् (उत्तर त्ति) लोकोत्तरम्। लौकिकं द्विधा-इत्वरं, यावत्कथितं च / तत्रेत्वरं यत् सूतकमृतकाऽऽदि दशदिवसान् यावत् वय॑ते इति / यावत्कथिकम्"वरूडविंडकचम्मकारडोंबाऽऽदि, एतेहि'' यावजीवं शिष्टेः संभोगाऽऽदिना वय॑न्ते / लोकोत्तरमपि वयं द्विधा-इत्वरं, यावत्कथिकं च / तत्रेत्वरं 'दाणे अभिगमसड्डे" इत्यादि / यावत्कथिकम् "अट्ठारस पुरिसेसुं, वीस इत्थीसु दस नंपुसेसु।" इत्यादि / वज्ज इत्तरिए' इत्यत्र ग्रहणमुपलक्षणं, तेन यावत्कथिकमित्यपि द्रष्टव्यम्, तस्य परिहारः परित्यागो वर्जनपरिहारः। खोडाऽऽदिभंगऽणुग्गह, भावे आवण्ण-सुद्धपरिहारो। मासाऽऽदि आवण्णे, तेण उ पगयं न अन्नेहिं / / 26 / / "खोडभंग इति वा उक्कोडभंग इति वा अक्षोटभङ्ग इति वा एकार्थम्। उक्तं च निशीथचूर्णी-"खोटभंगो त्ति वा उक्कोडभंगो त्ति वा अक्खोडभंगो त्ति एगट्ठ।" खोट नाम यत् राजकुले हिरण्याऽऽदि द्रव्यं दातव्यम् / आदिशब्दात् वेष्टिकरण चारभटाऽऽदीनां भोजनाऽऽदिप्रदानमित्यादिपरिग्रहः / खोटाऽऽदेर्भङ्गः खोटाऽऽदिभङ्गोऽनुग्रह परिहारः / एतदुक्तं भवतिराजकृतानुग्रहवशेन एकद्विव्यादिवर्षामर्यादया यथोक्तरूपं खोटाऽऽदिभञ्जन एक द्वे त्रीणि वर्षाणि यावत् वसति तावन्तं वा कालं यावत् राज्ञाऽनुग्रहः कृतः तावन्तं कालं वसति, न च हिरण्याऽऽदि प्रददाति, नाभि वेष्टिं करोति, नचापि चारभटाऽऽदीना भोजनाऽऽदिप्रदान विधत्ते / एषा खोटाऽऽदिभङ्गोऽनुग्रहपरिहारः / (भावे इति) भावविषयः परिहारो द्विधा / तद्यथा-आपन्नपरिहारः, शुद्धपरिहारश्च / तत्र यत् विशुद्धः सन् पञ्चयामममनुत्तरं धर्म परिहरति, परिहारशब्दस्य पारभोगेऽपि वर्तमानत्वात् स शुद्धपरिहारः, शुद्धस्य सतः परिहारः पञ्चयामानुत्तर धर्मकरणं शुद्धपरिहार इति व्युत्पत्ते / यदि वा-यो विशुद्धकल्पव्यवहारः क्रियते स शुर्दधपरिहारः, शुद्धश्चासौ परिहारश्च इति व्युत्पत्तेः / तथा यन्मासिकं यावत्वाणमासिकं वा प्रायश्चित्तमापपन्नस्तत् आपन्ने अपरिभोगेऽपि वर्तते, परिन्हियते इति परिहारः। कर्मणि घ। आपन्नमेव परिहार आपन्नपरिहार इति व्युत्पत्तेः / तथा चाऽह(मासाऽऽदी आवन्ने इति) मासाऽऽदिकं यत्प्रायश्चित्तस्थानमापन्नं तत् आपन्ने परिहार इति भावः / अथवा-परिहरणं परिहार इति भावे घञ्. आपन्नेन प्रायश्चित्तस्थानेन परिहारो वर्जन, साधोरिति गम्यते। आपन्नपरिहारः। तथाहि-प्रायश्चित्ती अविशुद्धत्वात् विशुद्धचरणैः साधुभिर्यावत्प्रायश्चित्तप्रतिपत्त्या ने शुद्धो भवति तावत् प्रतिहियते, इह तेन आपन्नपरिहारेण प्रकृतमधिकारो न शेषैः परिहारैः तदेवं परिहारशब्दनिक्षेपप्ररूपण्णा कृता / व्य०१ उ०। नि० चू०। (मासिकाऽऽदिपरिहारस्थानं प्रतिसेव्याऽऽलोचयेत् इति पच्छित' शब्देऽस्मिन्नेव भागे 142 पृष्ठगतम्) परिहरण परिहारः। पुं०। तपोविशेषे, स्था० 5 ठा०२ उ०। प्रव०। विशे०! अनेषणीयाऽऽदेस्त्यागे च। अनु० मासिकाऽऽदिपरिहारस्थानं प्रतिसेव्याऽऽलोचयेत् / तत्र परिहारतपोदनाम् जे भिक्खू चाउम्मासियं वा सातिरेगचाउम्मासियं वा पंचमासियं वा सातिरंगपंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचियमाणे।।४।। इत्यस्य सूत्रावयस्य व्याख्या प्राग्वत्। ('पच्छित्त' शब्देऽस्मिन्नेव भागे 145 पृष्ठ कृतः परिहारतपोवक्तव्यतासंग्रहः) अधस्तनसूत्रे परिहारतपो नोक्तमिह परिहारतपो विभाव्यते इति तत्र येन वक्तव्यक्रमेण परिहारतपो वक्तव्यं भवति वद्वक्तव्यक्रमसंसूविका द्वारगाथामाहको भंते! परियाओ, सुत्तत्थाभिग्गहो तवोकम्म। कक्खडमकक्खडे वा, सुद्धतवे मंडवा दोन्नि / / 350 / / प्रथमतः परिहारतपोयोग्यतापरिज्ञानाय को भदन्त ! त्वमसीति पृच्छा कर्तव्या, तदनन्तरं परिहारतपोयोग्यस्य पर्यायो वाच्यः, ततः सूत्रार्थी, तदनन्तरमभिग्रहः, तथा तपःकर्म, तत्र यदि तपसा कर्कशो भवति। किमुक्तं भवति?-कर्कशे तपसि सदा कृताभ्यासतया न कर्कशेन तपा परिभूते ततः परिहारतपस्तस्मै दीयते, इतरस्मिँस्त्वककर्श शुद्ध तपः। अत्रार्थे द्वौ मण्डपावेरएण्डशिलानिष्पन्नौ दृष्टान्तौ। एष द्वारगाथासंक्षेपार्थः। व्यासार्थ तु प्रतिद्वारं विवक्षुः प्रथमतः पृच्छाद्वारं विवृणोतिसगणाम्मि नऽत्थि पुच्छा, अन्नगणा आगतं तु यं जाणे। अण्णयं पुण पुच्छे, परिहारतवस्स जोगट्ठा / / 351 / / स्वगणे स्वगणसम्बन्धिनि पृच्छा उक्तस्वरूपा, वक्ष्यमाणा वा नास्ति, स्वगणवास्तव्यतया परिचितत्वात्। अन्यगणादपि, तुशब्दोऽपिशब्दार्थः / स च भिन्नक्रमत्वादत्र संबध्यते; आगतं य जानाति गीताऽऽदिरूपमाकारोगिताऽऽदिभिः, तस्मिन्नपि नास्ति पृच्छा, अज्ञज्ञतं पुनः परगणादागतं परिहारतपसो योग्यार्थ योग्योऽयं न वेति परिज्ञानार्थ पृच्छेत्। कथमित्याहगीतमगीतो गीतो, अहं ति किं वत्थु कास वऽसि जोग्गो। अविगीए त्ति व भणिए, थिरमथिर तवे य कयजोग्गो // 352 / / स प्रायश्चित्तस्थान प्राप्त आलो चयितुमुपस्थितः पृछय - ते कि त्वं गीतो गीतार्थ:? मकारोऽलाक्षणिकः / अगीतोऽगी