________________ परिसा 662 - अभिधानराजेन्द्रः - भाग 5 परिसा धितिबलिए य समन्ना-गए य सव्वेसि परिहारो।।३५६ / / परिहारतपोयोग्येऽप्यापत्तिस्थाने समापतिते आर्याणामाथिकाणां शुद्धतपो देयम्, आर्यिकाणां धृतिसंहननदुर्बलतया पूर्वानधिगमाच परिहारायोग्यत्वात्। तथा योऽगीतार्थो, यश्च धृत्या दुर्बलो रोगाऽऽदिना अनुपचितदेहो दुर्बलो, यश्चासहनन आदिमानां त्रयाणां संहननानामन्यतमेनाऽपि संहननेन विकलः, एतेभ्यो नियमतः शुद्धं तपो दातव्यम् अगीतार्थत्वाऽऽदिना परिहारायोग्यत्वात्। यः पुनर्धत्या बलिको बलवान् वज्रकुड्य समानो, यश्च समन्वागतः, आदिमानां त्रयाणां संहननानामन्यतमेन संहननेन गीतार्थत्वाऽऽदिगुणैश्च युक्तः, एतेभ्यः सर्वेभ्यो नियमतः परिहारतपोयोग्याऽऽपत्तिस्थानप्राप्तौ परिहारतपो देयम् / तस्याऽयं विधिः-"ठवणिज्ज ठवइत्ता।" यत्तेन सह नाऽऽचरणीयं तत् स्थानीयमुच्यते, तत् सकलगच्छसमक्ष स्थापयित्या। कथं स्थापयित्वेत्यत आहविउसग्गो जाणणट्ठा, ठवणा तीए य दोसु ठविएस / अगडे नदीय राया, दिटुंतो गीय आसत्थो // 360 / / परिहारतपोदानात् प्राक् आदावेव कायोत्सर्गः क्रियते। कथमिति चेत्? उच्यते-गुरुः पूर्वदिगभिमुखः, उत्तरदिगभिमुखो वा, चरन्तीदिगभिमुखोः वा, चैत्यानां चाभिमुखः, एवं परिहारतपस्यपि, नवरं गुरोवमिपाचे ईषत्पृष्टतस्तौ द्वावपि भणतः-"परिहारतवपज्जावणट्ठा करेमि काउस्सग्ग निरुवसग्गवत्तियाए सद्धाए मेहाए धिइए धारणाए० जाव वोसिरामि, पणुवीसुस्सासकालं सुभज्झवसायी च उवीसत्थवं वा वितेजा, नमोझारेण पारेत्ता अक्खलियं चउवीसत्थयं उच्चरंति। अत्र शिष्यः प्राऽऽह-किमर्थमेष कायोत्सर्गः कियते? उच्यते-(जाणणट्टा) साधूनां परिज्ञानार्थम् / अथवा-निरुपसर्गनिमित्तम् / एतचानन्तरगाथायां वक्ष्यति / (ठवण त्ति) कल्पस्थितस्य अनुपारिहारिकस्य च स्थापना कर्तव्या। ततो (दोसु ठविएसु) कल्पस्थिते अनुपारिहारिके च स्थापिते सति स पारिहारिकः / कदाचिगीतो भवेत्-कथमहमालपनादिपरिवर्जितः सन्नुग्रं तपः करिष्यामीति? तत एवं स भीतः सन् आश्वासयितव्यः। तत्रावटः, कूपो, नदी, सरित राजा च दृष्टान्तः। तथाहि यथा कोऽप्यवटे पतितः सन् भयमगमत्-कथमुत्तरिष्यामि? ततः स तटस्थैराश्वास्यते-मा भैस्त्वं, वयं त्वामुत्तारयिष्यामः, तथा च रज्जुरियमानीता वर्त्तते इति। एवमाश्वासितो निर्भयः सन् स्ताधां बघ्नाति, यदि पुनस्तः प्रत्येवमुच्यते-मृत एष वराको न कोऽप्युत्तारयिष्यति, ततः स निराशः सन्ननिस्सह मुक्त्वा म्रियते, ततः स यथा नियमत आश्वासनीयस्तथा पारिहारिकोऽप्याश्वासनीयः / यथा वा कोऽपि नद्या अनुश्रोतसो ह्यमानो भयभायासीत्, ततः स तटस्थैराश्वास्यते, आश्वासितश्च सन् स्ताघां प्राप्नोति, अनाश्वासितो निराशो भयेनैव मियते / यथा वा कस्यचित् राजा रुष्टः, ततः स भीतो नूनमहं मारयिष्ये इति। ततः सोऽन्यैराश्वास्यते-मा भैर्वयं राजानं विज्ञपयिष्यामो, न च राजाऽपन्यायं करोति। एवं पारिहारिक आश्वासनीयः आश्वासनदानेन च तस्मिन् भीते आ समन्तात् स्वस्थे जाते अधिकृततपसः प्रतिपत्तिः क्रियते। (7) संप्रति कायोत्सर्गकरणाय कारणान्तरमाहनिरुवस्सग्गनिमित्तं, भयजणणट्ठाएँ सेसगाणं च। तस्सऽप्पणो य गुरुणो, य साहए होइ पडिवत्ती॥३६१ / / कायोत्सर्गकरणमादौ निरुपसर्गनिमित्तम्-निरुपसर्ग परिहारतपः समाप्तिं यायादित्येवमर्थम् / तथा शेषाणां साधूनां भयजननार्थम्यथाऽमुकमापत्तिस्थानमेष प्राप्त इत्यस्मै महाघोरं परिहारतपो दास्यते, तस्मान्नेतदापत्तिस्थान सेवनीय, किं तु यत्नतो रक्षणीयमिति / ततः कायोत्सर्गस्य करणानन्तरं तस्य परिहारतपः प्रतिपत्तुर्गुरीश्च साधके अनुकूले शुभे तिथिकरणमुहूर्ताऽऽदिके शुभे ताराबले शुभे चन्द्रबल परिहारतपसः प्रतिपत्तिर्भवति। अन्यत्र कायोत्सर्गकरणानन्तरम् आदावेवतं परिहारिकमिदं गुरुबूतकप्पद्वितो अहं ते, अणुपरिहारी य एस ते गीतो। पुध्वं कयपरिहारो, तस्सऽसतीयरोऽवि दढदेहो // 362 / / यावत्तव कल्पपरिहारसमाप्तिस्तावदहं तवकल्पस्थितः वन्दनवाचनाऽऽदिषु कल्पभावे स्थितो, नतु परिहार्यः शेषाः पुनः साधवः परिहार्याः / अन्यच एष साधुर्गीतो गीतार्थः / पूर्व कृतपरिहारत्वेन सकलमाचारीज्ञाता तवायमनुपरिहारी-यत्र यत्र भिक्षाऽऽदिनिमित्तं परिहारी गच्छति तत्र अनु पश्चात् पृष्टतो लग्नः सन् गच्छतीत्यनुपरिहारी। अथवा--अणुपरिहारीत्यापिशब्दसंस्करः / तत्राऽयमन्वर्थः-परिहारिणोऽणु स्तोकं प्रतिलेखनाऽऽदिषु साहाय्यं करोतीत्यणुपरिहारी, तत्र यदि पूर्व कृतपरिहारोऽनुपहारी नलभ्यते, ततस्तस्य असति अभावे, इतरोऽपि अकृतपरिहारतपा अपि दृढदेहो दृढसंहननो गीतार्थोऽनुपहारी स्थाप्यते। एवं कल्पस्थितमनुपरिहारिणंच स्थापयित्वा स्थापना स्थापनीया। तां च स्थापना स्थापयान्नाचार्यः शेषसाधूनिद वक्तिएस तंवं पडिवाइ, न किंचि आलवति मा य आलवह। अत्तट्टचिंतगस्सा, वाघातो मे न कायव्वो।।३६३ / / आचार्यः समस्तमपि सबालवृद्धं गच्छमामन्त्र्य ब्रूते एषः 'साधुः' परिहारतपः प्रतिपद्यते, ततः कल्पस्थितिरेषा, न किञ्चित्साधुमितर वा आलापयति / “वर्तमानसामीप्ये वर्तमानवता' // 3 // 3 / 131 / / इति (पाणि०) वचनतो भविष्यति वर्तमाना। ततोऽयमर्थः-न कञ्चिदालपयिष्यति, मा च यूयमपि एनमालापयथ आलापयिष्यथा तथा आत्मन एव केवलस्याऽर्थ भक्ताऽऽदिलक्षणं चिन्तयति, न बालाऽऽदीनाम्, तथा कल्पसमाचारादित्यात्मार्थचिन्तकः।यदिवा-आत्मार्थो नामअतीचारमलिनस्याऽऽत्मनो यथोत्केन प्रायश्चित्तविधिना निरतिचारकरणं विशोधनमिन्यर्थः / चिन्तयतीत्यात्मार्थ चिन्तकस्तस्य (भे) भवद्भिरतः पदैव्याधातो न कर्तव्यः। तान्येव पदान्याहआलावण पडिपुच्छण-परियट्ठाण वंदणग मत्ते। पडिलेहण संघाडग-भत्तदाण संभुंजणा चेव // 364 / / एष न कञ्चिदप्यालापयिष्यति युष्माभिरप्येष नालपयितव्यः / तथा सूत्रमर्थमन्यद्वा किंचिदेष न युष्मान् प्रक्ष्यति