________________ पओग 42 - अभिधानराजेन्द्रः - भाग 5 पओग सथामोसमणप्पओग इति) यन्न सत्यं नापि मृषा तदसत्यामृषा।। इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाऽऽशया सर्वज्ञमतानुसारेण विकल्प्यते। यथा- अस्ति जीवः सदसद्रूप इत्यादि, तत्किल सत्यपरिभाषिकमाराधकत्वात् / यत्पुनर्विप्रतिपती सत्यां यद्वस्तु प्रतिधऽऽश्याऽपि सर्वज्ञम- | तोत्तीर्ण विकल्पते,यथा नास्ति जीवः, एकान्तनित्यो वा इत्यादि। तदसत्यम, विराधकत्वात्, यत्पुनर्वस्तुप्रतिष्ठाऽऽशामन्तरेण स्वरूपमात्रपर्यालोचनपरं. तया देवदत्तात्घट आनेतव्यो, गौर्याचनीया इत्यादि चिन्तनपर, तत् असत्यमृषा / इदं हि स्वरुपमात्रपर्यालोचनपरत्वात् न यथोक्तलक्षणं सत्यं, नापि मृषा एतदपि व्यवहारनयमतापेक्षया द्रष्टव्यम्, अन्यथा विप्रतारणबुद्धि पूर्वकमसत्येऽन्तर्भवति, अन्यत्र तु सत्ये, तच तन्मनश्च, तस्य प्रयोगोऽसत्यमृषामनःप्रयोगः। (एवंवइप्पओगो विचउहा इति ) यथा गनः प्रयोगश्चतुर्दा, तथा वाहमयोगोऽपि चतुर्दा तद्यथा सत्कप्रयोगो, मृषावाक्प्रयोगः, सत्यमृषावाक्प्रयोगः, असत्यामृषावाक्प्रयोगः। एताश्व सत्यवागादयः सत्यमनःप्रभृतिवद्भावनीयाः पूर्ववद् भाविता इति / (ओरालियसरीरकायप्पओगे इति) औदारिकाऽऽदिशब्दार्थमग्रे वक्षामः / औदारिकमेव शरीरम् औदारिकशरीरम्, तदेव पुद्गलस्कन्धसमुदायरूपत्वात्, उपचीयमानत्वात् च काय औदारिकशरीरकायः, तस्य प्रयोगः औदारिकशरीरकायप्रयोगः। अयं च तिरश्चो मनुष्यस्य च पर्याप्तस्य औदारिकमिश्रशरीरकायप्रयोग इति। औदारिकं | च तन्मिनं च औदारिकमिश्र, केन सह मिश्रितमिति चेत् ? उच्यतेकार्मणेन / तथा चोक्तं नियुक्तिकारेण शस्त्रपरिज्ञाऽध्ययने- ''जोएण कम्मएणं, हारे अणंतरं जीवो। तेणं परं मिस्सेण व, जाव सरीरस्म निष्फ ती॥११॥" न तुमिश्रत्वमुभयनिष्ठम्। तथाहि- यथा औदारिक कार्मणन मिश्र,तथा कार्मणमप्यौदारिकेण मिश्र, ततः कस्मादौदारिकमि श्रमेवा यदुच्यते-न कार्मणमिति?। उच्यते-इहव्यपदेशसप्रवर्तनीया येन विवक्षितार्थप्रतिपतिर्निषप्रतिपक्षी श्रोतृणामुपजायते, अन्यदा सन्देहाऽऽपत्तितो विवक्षितार्थाप्रतिपत्त्यान तथा तेषूपकारः कृतः स्यात्, कार्मण च शरीरमासंसारभविच्छेदनावस्थितत्वात्सकलेष्वपि शरीरेषु सम्भवति, ततः कार्मणमिश्रमित्युक्तं, न ज्ञायते किं तिर्यग्मनुष्याणामपर्याप्तावस्थायां तद्विवक्षितमुत देवनारकाणामिति? तत उत्पत्तिमाश्रित्यौदारिकस्य प्रधानत्वात्, कादाचित्कत्वाच निष्प्रतिपक्षविवक्षि तार्थप्रतिपत्त्यर्थमौदारिकेण व्यपदिश्यते औदारिकमिश्रमिति / तथा यदौदारिकशरीरो वैक्रियलब्धिसम्पन्नो मनुष्यतिर्यकपञ्चेन्द्रियः पर्याप्तकबादरवायुकायिको वा वैक्रियं करोति तदा किलौदारिकशरीरप्रयोग एव वर्तमानप्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान पुद्गलानुपादाय वैक्रियशरीरपर्याप्त्या यावन्न पर्याप्तिमुपगच्छति तावत् यद्यपि वैक्रियेण मिश्रतौदारिकस्योभयनिष्ठा तथाऽप्यौदारिकस्य प्रारम्पकतया प्रधानत्वात्तेनव्यपदेश औदारिकमिति न वैक्रियेणेति। तथा आहारकमपि शरीरं यदा कश्चिदाहारकलब्धिमान् पूर्वधरः करोति तदा यद्यप्याहारकेण मिश्रत्वमौदारिकस्योभयनिष्ठ, तथाप्यौदारिकमारम्भकतया प्राधान्यमिति, तेन व्यपदेशप्रवृत्तिरौदारिकमिश्रमिति, नत्वाहारफेणेति। औदारिकमिश्रं च तत् शरीरं चेत्यादि पूर्ववत् / वैक्रियशरीरकायप्रयोगो वैक्रियशरीरपर्याप्त्या पर्याप्तस्य | वैक्रियमिश्रशरीरकायप्रयोगो देवनारकाणामपर्याप्तावस्थायां, मिश्रता च तदानीं कार्मणेन सह वेदितव्या। अत्राक्षेपपरिहारौ प्राग्यत् / तथा यदा मनुष्यस्तिर्यपञ्चेन्द्रियो, वायुकायिको वा वैक्रियशरीरीभूत्वा कृतकार्यो वैक्रियं परिजिहीर्घरौदारिके प्रवेष्टु यतते, तदा किल वैक्रियशरीरवलेन औदारिकोपादानाय प्रवर्वते इति वैक्रियस्य प्राधान्यात्तेन व्यपदेशो नौदारिकेणेति वैक्रियमिश्रितमिति / तथा आहरकशरीरकायप्रयोग आहारकशरीरपर्याप्त्या पर्याप्तस्य आहारकमिश्रशरीरकायप्रयोग आहारकादौदारिकं प्रविशतः। एतदुक्तं भवति-यदा आहारकशरीरीभूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदा यद्यपि मिश्रत्वमुभयनिष्ठ तथाऽप्यौदारिके प्रवेश आहारकवलनस्याहारकस्य प्रधानत्वात्तेन व्यपदेशो नौदारिकेणाऽऽहारकमिश्रमिति। एतच सिद्धान्ताभिप्रायेणोक्तं, कर्मग्रन्थिकाः पुनक्रियस्य प्रारम्भकाले, परित्यागकाले च वैक्रियमिश्रमाहारकशरीरस्य प्रारम्भकाले, परित्यागकाले च औदारिकमिश्र न त्वेकस्यामप्यवस्थायामौदारिकमिश्रमिति प्रतिपन्नाः / तैजसकार्मणशरीरप्रयोगो विग्रहगतौ समुद्र-घातावस्थायां वा सयोगिकेवलिनस्तृतीयचतुर्थपञ्चमसमयेषु इह तैजसकामणेन सहाव्यभिचारीति युगपत्तैजसकार्मणग्रहणम्। ___ अमूनेव पञ्चदश प्रयोगान्जीवाऽऽदिषु स्थानेषु चिन्तयन्नाहजीवाणं भंते ! कतिविहे पओगे पण्णत्ते ? गोयमा ! पन्नरसविहे पओगे पण्णत्ते / तं जहा-सच्चमणप्पओगे० जाव कम्मसरीरकायप्पओगे। "जीवाणं भंते! कतिविहे पओगे पण्णते" इत्यादि।तत्रजीवपदे पञ्चदशापि प्रयोगाः, नानाजीवापेक्षया सदैव पशदशानामपि योगानां लभ्यमानत्वात्। नेरइयाणं मंते ! कइविहे पओगे पण्णते? गोयमा ! एकारसविहे पओगे पण्णत्ते / तं जहा-सच्चमणप्पओगे जाव असचमणप्प ओगे। वइयप्पओगे चउहा / वे उव्वियसरीरकायप्पओगे, वेउव्वियमीससरीरकायप्पओगे, कम्मासरीरकायप्पओगे। एवं असुरकुमाराण वि० जाव थणियकुमाराणं / पुढविकाइयाणं पुच्छा? गोयमा ! तिविहे पओगे पण्णत्ते / तं जहा ओरालियसरीरकायप्पओगे, ओरालियमीससरीरकायप्पओगे, कम्माससरीरकायप्पओगे / एवं० जाव वणस्सइकाइयाणं, नवरं वाउकाइयाणं पंचविहे पओगे पण्णत्ते / तं जहा-ओरालियकायप्पओगे, ओरालियमीससरीरकायप्पओगे, वेउव्विए दुविहे, कम्मासरीरकायप्पओगे। वेइंदियाणं पुच्छा ? गोयमा ! चउविहे पओगे पण्णत्ते / तं जहा असच्चामोसवइप्पओगे, ओरालियसरीरकायपपओगे, ओरालियमीसकायप्पओगे, कम्मासरीरकायप्पओगे / एवं जाव चउरिदियाणं पंचिंदियतिरिक्खजोणियाणं पुच्छा?| गोयमा!तेरसविहेपओगेपण्णत्ते।तंजहा-सचमणप्पओगे० जाव अचामोसमणप्पओगे / एवं वइप्पओगे वि / ओरालियसरीरकायप्पओगे,ओरालियमीससरीरकायप्पओगे, वेउव्वियसरीरकायप्पओगे, वेउव्वियमीससरीरकायप्पओगे, कम्मासरी