________________ परिसह 646 - अभिधानराजेन्द्रः - भाग 5 परिसह न्यापे महाप्रतानि रत्नकल्पानि 'आचार्यैः' आख्यातानि प्रतिपादितानि नियोजितानि सरात्रिभोजनानि रात्रिभोजनविरमणषष्ठानि साधवो विभ्रति, तुशब्दः पूर्वरत्नेभ्यो महाव्रतरत्नानां विशेषाऽऽपादक इति / इदमुक्तंभवतियथा प्रधानरत्नानां राजान एव भाजनम एवं महाव्रतरत्नानामपि महासत्या एव साधवो भाजनं, नान्ये इति॥३॥ किञ्च-- जे इह सायाणुगा नरा, अज्झोववन्ना कामेहि मुच्छिया। किवणेण सभ पगम्भिया, न विजाणंति समाहिमाहितं // 4|| ये नरा लघुप्रकृतयः, इहाऽस्मिन् मनुष्यलोके, सातं सुखमनुगच्छगतीति सातानुगाः ... सुखशीला ऐहिकाऽऽमुष्मिकाऽपायभीरवः समृद्धिरासातागौरोष्यध्युपपन्नाः गृद्धाः / तथा... 'कामेषु' इच्छामदनरूपेषु 'मूर्छिताः कामोत्कटतृष्णाः। कृपणो दीनो बराकक इन्द्रियैः पराजितस्तेन समास्तद्वत्कामाऽऽसेवने 'प्रगल्भिताः धृष्टतां गताः / यदि वाकिमनेन स्तोकेन दोषेणाऽसम्यक् प्रत्युपेक्षणाऽऽदिरूपेणाऽस्मत्संयमस्य विराधन भविष्यत्येरा प्रभादवन्तः कर्तव्येष्ववसीदन्तः समस्तमपि संयम पटवन्मणिकुदिमवद्वा मलिनीकुर्वन्ति, एवंभूताश्च ते समाधि धर्मध्याऽऽदिकम 'आख्यातं' कथितमपि न जानन्तीति। पुनरप्युपदेशान्तरमधिकृत्याऽऽह-- वाहेण जहा व विच्छए, अबले होइ गवं पचोइए। से अंतसो अप्पथामए, नाइवहइ अबले विसीयति / / 5 / / व्याधेन लुब्धकेन (जहा व ति) यथा (गवं ति) मृगाऽऽदिपशुर्विविधमनेकप्रकारेण कूटपाशाऽऽदिना क्षतः परवशीकृतः श्रम वा ग्राहितः प्रणोदितोऽप्यबलो भवति, जातश्रमत्वात् गन्तुसमर्थः, यदि वा-वाहयतीति वाहः शाकटिकस्तेन यथावद् वहन् गौर्दिविध प्रतोदाऽऽदिना क्षतः प्रचोदितोऽसबलो विषमपथाऽऽदो गन्तुमसमर्थो भवति, स चाऽन्तशो मरणान्तमपि यावदल्पसामथ्र्यो माऽतीवावोढुं शक्रोति एवंभूतश्चाऽदलो भारं दोढुमसमर्थस्तत्रैव पाऽऽदौ विषीदतीति। दाष्टान्तिकमाहएवं कामेराणं विऊ, अज सुए पयहेज संथवं / कामी कामे ण कामए, लद्धे वा वि अलङ्ग कण्हुई॥६॥ एवमनन्तरोक्तया नीत्या कामानं शब्दाऽऽदीनां विषयाणा या गवेषण्ण ! प्रार्थना तस्यां कर्तव्याया विद्वान् निपुणः कामप्रार्थनासक्तः शब्दाऽऽदिपङ्के मग्नः स चैवंभूतोऽद्य श्यो वा संस्तवं परिचयं कामसंबन्ध प्रजह्यात् किलेति, एवमध्यवसाय्येव सर्वदाऽवतिष्ठते, न च तान् कामान् अबलो बलीवर्दवत् विषमं मार्ग त्यक्तुनलं, किञ्च न चैहिकाऽऽमुष्मिकापायदर्शितया कामी भूत्वोपनतानपि कामान् शब्दाऽऽदिविषयान पैरस्यामिजम्बूनामाऽऽदिवद्वा कामायेत् अभिलषेदिति / तथा क्षुल्लककुमारवत् कुतश्विन्निमित्तात् "सुट्ठ गाइय" इत्यादिना प्रतिबुद्धो लब्धानपि प्राप्तानपि कामान् अलब्धसमान् मन्यमानो महासच्चतया तनिस्पृहो भवेदिति।।६।। किमिति कामपरित्यागो विधेय इत्याशक्याऽऽह मा पच्छ आसाधुता मवे, अचेही अणुसास अप्पगं। अहियं च असाहु सोयती, से थणती परिदेवती बहुं // 7 // मा पश्चान्मरणकाले भवान्तरे वा कामानुषङ्गादसाधुता कुगतिगमनाऽऽदिकरुपा भवेत् प्राप्नुयादिति, अतो विषयाऽऽसङ्गादात्मानम् अत्येहि त्याजय, तथाऽऽत्मानं च अनुशाधि आत्मनोऽनुशास्तिं कुरु, यथा हे जीव! यो ह्यसाधुः असाधुकर्मकारी हिंसाऽनृतस्तेयाऽऽदौ प्रवृत्तः सन् दुर्गती पतितोऽधिकम् अत्यर्थमेवं शोचति, सच परमाधार्मिकैः कदऱ्यामानस्तिर्यक्षु या क्षुदादिवेदनाग्रस्तोऽत्यर्थ स्तनति सशब्द निः श्यसिति, तथापरिदेवते क्लिपत्याक्रन्दति सुबह्निति-"हाभातः मियत इति, त्राता नैवाऽस्ति सांप्रत कश्चित्। किं शरण मे स्यादिह. दुष्कृतचरितस्य पापस्य? / / 1 / / '' इत्येवमादीनि दुरखान्यसाधुकारिणः प्राप्नुवन्तीत्यतो विषयानुषड़ो न विधेय इत्येवमात्मनोऽनुशासनं कुर्विति संबन्धनीयम् // 7 // किञ्च इह जीवियमेव पासहा, तरूणेव वाससयस्स तुट्टती। इत्तरवासे य बुज्छाह, गिद्धनरा कामेसु मुच्छिया / / 8 / / इहाऽस्मिन् संसारे, आस्तां तावदन्यज्जीवितमेव सकलसुखाऽऽ-- स्पदमनित्यता:ऽघ्रातम् आवीचिमरणेन प्रतिक्षणं विशरारुस्वभावं, तथा-सर्वाऽऽयुःक्षयः एव वा तरुण एव युवैव वर्षशताऽऽयुरप्युपक्रमतोऽध्यवसाननिमित्ताऽऽदिरुपादायुषस्वुठ्यति प्रच्यवते, यदि वा सांप्रतं सुबलप्यायुर्वर्षशतं तच तस्य तदन्ते त्रुटयति, सागरोपमापेक्षया कतिपयनिमेषप्रायत्वात् इत्वरवासकल्पवर्ततेस्तोकनिवासकल्पमित्येवं बुध्यध्यं यूयं, तथैयंभूतेऽप्यायुषि नराः पुरुषा लघुप्रकृतयः कामेषु शब्दाऽऽदिषु विषयेषु गृद्धा अध्युपपन्ना मूर्छिताः तत्रैवाऽऽसक्तचेतसो नरकाऽऽदियातनास्थानमाप्नुवन्तीति शेषः // 8 // अपिचजे इह आरंभनिस्सिया, आतदंडा एगंतलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं |||| ये केचन महामोहाऽऽकुलितचेतसः 'इह' अस्मिन्मनुष्यलोके आरम्भे हिंसाऽऽदिके सायद्यानुष्ठानरूपे निश्चयेन श्रिताः-संबद्भा अध्युपपन्नास्ते आत्मानं दण्डयन्तीत्यात्मदण्डकाः, तथैकान्तेनैव जन्तूनां लूषका हिसकाः सदनुष्ठानस्य वा ध्वंसकाः, ते एवंभूता गन्तारो यास्यन्ति 'पापं लोक' पापकर्मकारिणां यो लोको नरकाऽऽदिः "चिररात्रमिति" प्रभूतकाल तन्निवासिनो भवन्ति / तथा बालतपश्चरणाऽऽदिना यद्यपि तथायिधदेवत्वा- ऽऽपत्तिस्तथाऽप्यसुराणामियमासुरी तां दिन यान्ति, अपरप्रेष्याः किल्विषिका देवाऽधमा भवन्तीत्यर्थः || किञ्च ण य संखयमाहु जीवितं, तह वि य बालजणो पगमई। पचुप्पन्नेण कारियं, को दट्ट परलोकमागते? // 10 // ( य संखयेत्यादि) न च नैव त्रुटितं जीवितमायुः संस्कर्तु संधातुं शक्यते एवमाहुः सर्वज्ञाः / तथाहि- "दंडकलिय करिता, वयंति हु राइओ य दिवसा य / आउंसं