________________ परिसह 645 - अभिधानराजेन्द्रः - भाग 5 परिसह शब्दस्य प्रकृत्यर्थत्वात्। (रोण त्ति) उदीर्णकर्मा यतोऽयमुन्मत्तक- भूतः पुरुषस्तेन कारणेन / (मे इति) माम् एषोऽयमाक्रोशति, शपति, अपहसति, उपहासं करोति, अपघर्षति वा अपघर्षणं करोति, निच्छोटयति सम्बन्धान्तरसंबद्धहस्ताऽदौ गृहीत्वा बलात् क्षिपति, निर्भयति दुर्वचनैर्वध्नाति रज्ज्वादिना, रुणद्धि कारागारप्रवेशनाऽऽदिना, छ्वेः शरीरावयस्य हस्ताऽऽदेश्छदं करोति, मारणप्रारम्भः प्रमारो मूर्छाविशेषो मारणस्थानं वा तं नयति प्रापयतीति अपद्रावयति मारयति, अथवाप्रमार मरणमेव / (उद्दवेइ त्ति) उपद्रवयति उपद्रवं करोतीति। पतद्ग्रह पात्रं, कम्बल प्रतीतं, पादप्रोञ्छनं रजोहरणम् आछिनत्ति बलादुद्दालयति / विचिनति विच्छिन्नं करोति दूरे व्यवस्थापयतीत्यर्थः / अथवा वस्त्रभीषाच्छिनत्ति आच्छिनत्ति। विशेषेण छिनत्ति विच्छिनत्ति, भिनत्ति पात्रं स्फोटयति, अपहरति चोरयति, वाशब्दाः सर्वे विकल्पार्था इत्येक परीषहाऽऽदिसहनाऽऽलम्बनस्थानम्, इदञ्चाऽऽक्रोशाऽऽदिकनिह प्राय आक्रोशवधामिधानपरीषहद्वयं रूपं मन्तव्यम्, उपसर्गविवज्ञायां तु मानुष्यकप्राषिकाऽऽधुपसर्गरूपमिति। तथा यज्ञाऽऽविष्टो देवाधिष्ठितोऽय तेनाऽऽक्रोशतीत्यादि द्वितीयम् / तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वाऽऽदिकर्मवशवर्ती (ममंचणं ति) मम पुनस्तेनैव भानुष्यकेण वेन जन्मना वेद्यतेऽनुभूयते यत्तद्भववेदनीय कर्म, उदीर्ण भवत्यस्ति तेनैव मामाक्रोशतीत्यादि तृतीयम् / यथा एष बालिशः पापाभीतत्वात् करोतु नामाक्रोशनाऽऽदि मम पुनरसहमानस्य (कि मन्ने त्ति) मन्ये इति निपातो वितर्कार्थः (कज्जइ त्ति) संपद्यते, इह विनिश्चयमाह-(एगंतसो त्ति) एकान्तेन सर्वथा पापं कर्माऽसाताऽऽदि क्रियते संपद्यत इति चतुर्थः / तथा अयं तावत्पापं बध्नाति मम चेदं महती निर्जरा क्रियत इति पञ्चमम् / (इचेएहीत्यादि)निगमनमिति। शेष सुगमम्। ___ छद्मस्थविपर्ययः केवलीति तत्सूत्रमपंचहिं ठाणेहिं केवली उदिन्ने परीसहोवसग्गे सम्मं सहेज्जा० जाव अहिया सेज्जा / तं जहा खित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसइ वा तहेव० जाव अवहरइ वा।।१।। दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे० जाव अवहरइ वा / / 2 / / जक्खाइट्टे खलु अयं पुरिसे तेण मे एस पुरिसे० जाव अवहरइ वा॥३ / / ममं च णं तब्भववेयणिज्जे कम्मे उदिन्ने भवइ तेण मे एस पुरिसे०जाव अवहरइ वा // 4 || ममं च णं सम्म सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासित्ता बहवे अन्ने छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे एवं सम्म सहिस्संति० जाव अहियासिस्संति॥५॥ इचेएहिं पंचहिं ठाणेहिं केवली उदिन्ने परीसहोवसग्गे सम्म सहेजा जाव अहियासेजा। तत्र च क्षिप्तचित्तः पुत्रशोकाऽऽदिना, नष्टचित्तः पुत्रजन्माऽऽदिना दर्पवचित उन्मत्त एवेति। मां च सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्त्युत्तमानुसारित्वात् प्राय इतरेषाम् / यदाह-"जो उत्तमेहिँ मागो, पहओ सो दुक्करो न सेसाणं। आयरियम्मि जयंते, तयणुवरा केण सीएज?' / / 1 / / इति (इच्चेएहीत्यादि) अत्राऽपि निगमनम्। शेषं सुगममिति। स्था०५ ठा०१ उ०। परीषहाः सोढव्या इत्युपदेश:संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुढें अबोहिए। तं संजमओऽवचिज्जई, मरणं हेच वयंति पंडिया / / 1 / / संवृतानि निरुद्धानि कर्माण्यनुष्ठानानि सम्यगुपयोगरूपाणि वा मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपाणि वा यस्य भिक्षोः साधोः स तथा तस्य यत् दुःखम् असद्वेद्यं तदुपादानभूतं वा अष्टप्रकारं कर्म स्पृष्टमिति बद्धपृष्टनिकाचितमित्यर्थः, तच अत्र 'अबोधिना'' अज्ञानेनोपपंचित सत संयमतो मानीन्द्रोक्तात् सप्तदशरूपादनुष्ठानादपचीयते प्रतिक्षणं क्षयमुपयाति / एतदुक्त भवति-यथा तटाकोदरसंस्थितमुदकं निरुद्धारप्रवेशद्वारं सदाऽऽदित्यकरसंपर्कात् प्रत्यहमपचीयते, एवं संवृताऽऽअवद्वारस्य भिक्षोरिन्द्रिययोगकषायं प्रति संलीनतया संवृताऽऽत्मनः सतः संयमानुष्ठानेन चाऽनेकभवाज्ञानोपचितं कर्म क्षीयते, ये च संवृताऽऽत्मानः सदनुष्ठायिनश्च ते हित्वा त्यक्त्वा मरणं' मरणस्वभावम्, उपलक्षणत्वात् जातिजरामरणशाकाऽऽदिकं त्यक्त्वा मोक्ष व्रजन्ति पण्डिताः सदसद्विवेकिनः, यदि वा-पण्डिताः सर्वज्ञ एवं वदन्ति यत् प्रागुक्तमिति // 1 // येऽपि च तेनैव भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याऽऽहजे विनवणाहिजोसिया, संतिन्नेहिँ समं वियाहिया। तम्हा उर्द्धति पासहा, अदक्खु कामाइ रोगवं / / 2 / / ये महासत्त्वाः कामार्थिभिर्विज्ञाप्यन्ते यास्तदर्थिन्यो वा कामिन विज्ञापयन्ति ता विज्ञापनाः स्त्रियस्ताभिः अजुष्टा असेविताः क्षयं वाअवराायलक्षणमतीतास्ते सन्तीर्णमुक्तः समं व्याख्याताः, अत्तीर्णा अपि सन्तो यतस्ते निष्किञ्चनतया शब्दाऽ दिषु विषयेष्वप्रतिबद्धाः संसारोदन्वतस्तटोपान्तवर्तिनो भवन्ति० तस्मादूर्वमिति मोक्ष योषित् परित्यागादूर्ध्व यद्भवति तत्पश्यत यूयम्। ये च कामान् रोगद्व्याअधिकल्पान् "अद्राक्षुः" दृष्टावन्तस्ते संतीर्णसमा व्याख्याताः / तथा चोक्तम्- 'पुप्फफलाणं च रस, सुराइ मंसस्स महिलियाणं च। जाणता जे विरया, ते दुक्करकारए वंदे॥१॥' तृतीयपादस्य पाठान्तरं वा-'उड्ढे तिरियं अहे तहा' ऊर्ध्वमिति सौधर्माऽऽदिषु (तिरियमिति) तिर्यक्लोके अघ इति-भवनपत्यादौ० ये कामास्तान् रोगवदद्राक्षुर्ये ते तीर्णकल्पा व्याख्याता इति // 2 // पुनरप्युपदेशान्तरमधिकृत्याऽऽहअग्गं वणिएहिँ आहियं, धारती राईणिया इहं / एवं परमा महव्वया, अक्खाया उ सराइभोयणा / / 3 / / 'अय' वयं प्रधान रत्नवखाऽऽ भरणाऽऽदिकम् / तद्यथावणिभिर्द शान्तरादाहितं ढौ कि तं राजानस्तत्क ल्पा ईश्वराऽऽदयः इहाऽस्मिन्मनुष्यलो के धारयन्ति विभूति, एवमेता