________________ परिसह 644 - अभिधानराजेन्द्रः - भाग 5 परिसह स एकस्यां दिशि शीतमन्यस्यां चोष्णमित्येवं द्वयोरपि शीतोष्णपरीषहयोरस्ति सम्भवः / नैतदैवम्, कालकृतशीतोष्णाऽऽश्रयत्वादविकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति। तथा-(जं समयं चरियापरीसहमित्यादि) तत्र चर्या ग्रामाऽऽदिषु सञ्चरणं, नैषेधिकी च ग्रामाऽऽदिषु प्रतिपन्नमासकल्पाऽऽदेः स्वाध्यायाऽऽदिनिमित्तं शय्यातो विविक्तोपाश्रये गत्वा निषदनम् ! एवं चानयोर्विहारावस्थानरूपत्वेन परस्परविरोधान्नैकदा संभवः / अथ नैषेधिकीवच्छय्याऽपि चर्यया सह विरुद्धेति न तयोरेकदा सम्भवः, ततश्चैकोनविंशतेरेव परीषहाणामुत्कर्षेणैकदा वेदनं प्राप्तमिति। नैवम्। यतो ग्रामाऽऽदिगमनप्रवृत्तो यदा कश्चिदौत्सुक्यादनिवृत्ततत्परिणाम एव विश्रामभोजनाऽऽद्यर्थमित्वरं शम्यायां वर्तते तदोभयभप्यविरूद्धेमेव, तत्वतश्चर्याया असमासत्वादाश्रयस्य चाश्रयणादिति / यद्येवं तर्हि कथं षड्विधबन्धकमाश्रित्य वक्ष्यति। (ज समय चरियापरीसह वेएइ नो तं समयं सेज्जापरीसह वेएईत्यादि) अवोच्यतेषड्विधबन्धको मोहनीयस्याविद्यमानकल्पत्वात्स-र्वत्रौत्सुक्याभावेन शय्याकाले शय्यायामेव वर्तते, न तु बादररागवदौत्सुक्येन विहारपरिणामाविच्छेदाचर्यायाभप्पतस्तदपेक्षया तयोः परस्परविरोधायुगपदसम्भवस्ततश्चासाध्वेवं (जं समयं चरिएत्यादि) (छविहबंधत्यादि) षड़िवबन्धकस्याऽऽयुर्मोहवर्जानां बन्धकरय सूक्ष्मसम्परायस्येत्यर्थः, एतदेवाऽऽह- (सरागछउमत्थस्सेत्यादि) सूक्ष्मलोभाणूतां वेदनात्सरागोऽनुत्पन्नकेवलत्वाच्छद्मस्थस्ततः कर्मधारयोऽतस्तस्य / (चोद्दसपरीसह त्ति) अष्टानां मोहनीसम्भवानां तस्य मोहाभादेनाभावाद् द्वाविंशतः शेषाश्चतुदर्श परीषहा / इति / ननु सूक्ष्मसम्परायस्य चतुर्दशानामेवाभिधानात् मोहनीयसम्भवानामष्टानामसम्भव इत्युक्तं, ततश्च सामर्थ्यादनिवृत्तिबादरसम्परायस्य मोहनीयसम्भवानामष्टानामपि सम्भवः प्राप्तः, कथं चैतधुज्यते, यतो दर्शनसप्तकोपशमे बादरकषायस्य दर्शनीयोद्दयाभावेन दर्शनपरीषहाभावात्सप्तानामेव सम्भवो, नाष्टानाम् / अथ दर्शनमोहनीयसत्ताऽपेक्षयाऽसावपीष्यत इत्यष्टावेव, तर्युपशमकत्वे सूक्ष्मसम्परायस्यापि मोहनीयसत्ता-सद्भावात् कथं तदुत्थाः सर्वेऽपि परीषहा न भवन्तीति, न्यायस्य समानत्वादिति / अत्रोच्यते-यस्माद्दर्शनसप्तकोपशमस्योपर्येव नपुंसकवेदाऽऽद्युपशमकाले अनिवृत्तिवादरसम्परायो भवति, स चाऽऽवश्यकाऽऽदिव्यतिरिक्तग्रन्थानतरमतेनदर्शनत्रयस्थ बृहतिभागे उपशान्ते शेषे चानुपशान्ते एव स्यात् / नपुंसकवेदं चाऽसौ तेन सहोपशमयितुमुक्रमते, ततश्च नपुंसकवेदोपशमावसरे अनिवृत्तिबादरसम्परायस्य सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति, न तु सत्तैव, ततस्तत्प्रप्रत्ययो दर्शनपरीषहस्तस्यास्तीति। ततश्चाष्टावपि भवन्तीति; सूक्ष्मसम्परायस्य तु मोहसत्तायामपि न परीषहहेतुभूतः सूक्ष्मोऽपि मोहनीयोदयोऽस्तीति न मोहजन्यपरीषहसंभवः / आह च''मोहनिमित्ता अट्ठ वि, बायररागे परीसहा किह णु / किहि वा सुहुमसरागे, न हुँति उवसामए सव्वे / / 1 / / आचार्य आह 'सत्तगपरउचिय जे-ण बायरो जं च सावसेसम्मि। मग्गिल्लम्मि पुरिल्ले. लग्गइ तो दसणस्सावि।।२।। लब्भइ पएसकम्म, पहुच सुहमोदओ तओ अट्ट। तरस भणिया न सुहुमे, न तस्स सुहुमोदओ विजओ / / 3 / / " इति। यश्च सूक्ष्मसम्यरायसूक्ष्मलोभकिट्टिकानामुदयो नासौ परीषहहेतुलॊभहेतुकस्य परीषहस्यानभिधानात्। यदिच कोऽपि कथञ्चिदसी स्यात्तदा तस्यहात्यन्ताल्पन्वेनाविवक्षेति / (एगविहबंधगास ति) वेदनीयबन्धकस्येत्यर्थः / कस्य तस्येत्यत आह-(वीअराग्छउमत्थस्स त्ति)। उपशान्तमोहस्य, क्षीणमोहस्य चेत्यर्थः / (एवं चेवेत्यादि)। चतुर्दश प्रज्ञप्ता द्वादश पुनर्वेदयतीत्यर्थः / शीतोष्णयोश्चर्याशय्ययोश्चो पर्यायण वेदनादिति / भ०८ श०८ उ०। प्रव०। पं० सं०। (जिनस्यैकादश 11 परीषहा वेद्या इति केवल्याहारचिन्तायामुक्ताः) द्रव्यभावपरीषहेषु उदाहरणम्। एते च परीषहा द्विविधाः। तद्यथा-द्रव्यपरीषहा भावपरीषहाश्च / तत्र द्रव्यपरीषहा नाम य इहलोकनिमित्तं वन्धनाऽऽदिषु वा परवशेनाधिसह्यन्ते / तत्रोदाहरणं यथा-सामायिकेवक्रदृष्टान्ते इन्द्रपुरे इन्द्रदतपुत्रस्या भावपरीषहा ये संसारव्यवच्छेदमन-सानाऽकुलेना स नाधिसह्यन्ते तैरेव वासाधिकारः। आ० म०१ अ०। आ० चू० / पञ्चभि प्रकारैः छद्मस्थपरीसहाःपंचहिं ठाणे हिं छउमत्थेणं उदिण्णे परीसहोवसग्गे सम्म सहेजा, खमेजा,तिक्खेिज्जा, अहियासेजा। तं जहा-उदिन्नकम्मे खलु अयं पुस्सेि उम्मत्तगभूए तेण मे एस पुरिसे अक्कोसइ वा, अवहसइ वा, णिच्छोडइ वा, णिब्भत्थेइ वा, वंधइ वा, रुधइ वा, छविच्छेयं करेइवा, पमारंवा,णेइ उद्दवेइवा, वत्थपडिग्गह कंबलं पायपुंछणमाच्छिंदइ वा, विच्छिंदइ वा, भिंदइ वा, अवहरइ वा // 1 // जक्खाइट्टे खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसइ वा, तहेव० जाव अवहरइ वा / / 2 / / ममं च णं तब्भववेयणिज्जे कम्मे उदिन्ने भवइ तेरा मे एस पुरिसे अक्कोसइ वा० जाव अवहरअवाइ॥३॥ ममं च णं सम्मं असहमाणस्स अक्खममाणस्स अतितिक्खे माणस्स अणहियासेमाणस्स किम्मन्ने कजइ एगंतसो मे पावकम्मे कज्जइ / / 4 || ममं च णं सम्म सहमाणस्स० जाव अहियासेमाणस्स किम्भन्ने कन्जइ? एगंतसोमे निज्जरा कज्जइ॥५॥ इच्चेएहिं पंचहिं ठाणेहिं छउमत्थे उद्दिन्ने परीसहोवसग्गे सम्म सहेज्जा० जाव अहियासेजा।। (पंचहीत्यादि) स्फुट, किंतु छाद्यते येन तत् छ्य ज्ञानाऽऽवरणाऽऽदिघातिकर्मचतुष्टय, तत्र तिष्ठतीति छदास्थः, सकषाय इत्यथः। उदीर्णानुदितान् परीषहोपसर्गानभिहितस्वरूपान् सम्यक्ततकषायोदयनिरोधाऽऽदिना सहेत भयाभावेनाविचलनाद्भट भटवत् क्षमेत, क्षान्त्या तितिक्षेत अदीनतया, अध्यासीनपरीषहाऽऽदावेवाऽऽधिक्येनासीनं न चलेदिति, उदीर्णमुदितप्रबल वा कर्म मिथ्यात्वमोहनीयाऽऽदि यस्य स उदीर्णकर्मा, खलुक्यालङ्कारे, अयं प्रत्यक्ष पुरष उन्मत्तको मदिराऽऽदिना विप्लुतवित्तः स इव उन्मतकभूतोभूतशब्दस्योपमानार्थचात उन्मत्तकएववाउन्मत्तकभूतो भूत