________________ परिसह 638 - अभिधानराजेन्द्रः - भाग 5 परिसह पूरणे, एवोऽवधारणे, ततस्तदेव 'इहापि' परीषहाध्ययने, 'ज्ञातव्यम अवगन्तव्यं, न त्वधिकम्। किमुक्तं भवति?-निरवशेषं तत एवेदमुद्धृत न पुनरन्यत इति गाथाऽर्थः / / 66 / / कस्येति यदुक्त तदुत्तरमाहतिण्हं पिणेगमणओ, परीसहो जाव उज्जुसुत्ताओ। तिण्हं सद्दणयाणं, परीसहो संजए होइ। 170 / / 'त्रयाणामपि' अविरतविरताविरतविरताना, नतु विरतस्यैव नैगमनयः, 'परिषहः' क्षुदादिरिति, मन्यत इति शेषः / त्रयाणामपि परीपहवेदनीयासाताऽऽदिकर्मादयजनितस्य क्षुधादेस्तत्राहनस्य च यथायोगं सकामाकामनिर्जराहेतोः सम्भवाद्अनेकगमत्वेन चास्य सर्वप्रकारसड्ग्राहित्वात, (जाव उज्जुसुत्ताउ त्ति) सोपस्कारत्वादस्यैवं यावदृजुसूत्रः / कोऽर्थः?-संग्रहव्यवहारऋजुसूत्रा अपि त्रयाणामपि परीषहं मन्यन्ते एकैकनयस्य शतभेदत्वेनैतद्भेदानामपि केषाञ्चित् परीषहं प्रति नैगमेन तुल्यमतत्वात, 'त्रयाणां त्रिसङ्ख्याना, केषाम्?-शब्दप्रधाना नयाः शब्दनयाः, शाकपार्थिवाऽऽदिवत् समासः, तेषां शब्दसमभिरूदैवम्भूतानां, मतेनेति शेषः। परीषहः संयते विरते भवति। 'मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः। (तत्त्वा०६ अ०८ सू०) इति लक्षणोपेतनिरुपचरितपरीषहशब्दवृत्तेस्तत्रैव सम्भवात्, इति गाथाऽर्थः / / 70 / / द्रव्यद्वारमधिकृत्य नयमतमाहपढमम्मि अट्ठ भंगा, संगहें जीवो व अहव नोजीवो। ववहारे नोजीवो, जीवदव्यं तु सेसाणं / 71 / / 'प्रथम' प्रक्रमान्नैगमनये अष्टौ भङ्गा, स हि-''णेगेहि माणेहि, मिणइत्ती णेगमस्स नेरुत्ती।" इति लक्षणादनेकधा करणमिच्छन् यदेकेन पुरुषाऽऽदिना चपेटाऽऽदिना परीषह उदीर्यते तदा परीषहवेदनीयकर्मोदयनिमित्तत्वेऽपि तस्य तदविवक्षया जीवेनाऽसौ परीषह उदीरित इति वक्ति१, यदा बहुभिस्तदा जीवैः 2, यदा अचेतनेनैकेन दृषदादिना जीवप्रयोगरहितेन तदाऽजीवेन 3, यदा तैरेव बहुभिस्तदा अजीवैः४, यदैकेन लुब्धकाऽऽदिना वाणाऽऽदिनैकेन तदा जीवेन वाऽजीवेन च 5, यदा तेनकेनैव बहुभिः वाणाऽऽदिभिस्तदा जीवेनाजीवश्च 6, यदा बहुभिः पुरुषाऽऽदिभिरेक शिलाऽऽदिकमुत्क्षिप्य क्षिपद्भिस्तदा जीवरजीवेन च 7. यदा तु तैरव मुद्राऽऽदीन् बहून मुञ्चद्भिस्तदा जीवैश्चाजीवश्वति 8 // 'संग्रहे' संग्रहनाम्नि नये विचार्यमाणे जीवो 'वा' अथवा-नीजयो हेतुरिति प्रक्रमः किमुक्तं भवति?-जीवद्रव्येणाजीवद्रव्येण वा परीषह उदीर्यत। स हि "संगहियपिंडियत्थं, संगहवयण समासतो ति।" इति वचनात् सामान्यग्राहित्वेनैकत्वमेवेच्छति, न पुनर्द्वित्वबहुत्ये। अस्यापि च शतभेदत्वाद्यदा चिद्रूपतया सर्व गृह्णाति तदा जीवद्रव्येण, यदा त्वचिद्रूपतया तदा अजीवद्रव्येण / 'व्यवहारे' व्यवहारनये (नोजीव इति) अजीबो हेतुः / कोऽर्थः? अजीवद्रव्येण परीषह उदीर्यत इत्येकमेव भङ्गमयसिच्छति। तथाहि-'वाइ विणिच्छियत्थ ववहारो सव्वदध्वेसुं।' इति तल्लक्षणम् / तत्र च 'विनिश्चितम्' इत्यनेकरूपत्वेऽपि वस्तुनः / सांव्यवहारिकजनप्रतीतमेव रूपमुच्यते तदाहकोऽयम्। उक्तंच "भमराइ पंचवण्णाइँ विच्छिए जम्मि वा जणवयस्स। अत्थे विनिच्छओ जो, विनिच्छियत्थु त्ति सो गेज्झो।।१।। बहुयरउत्ति व तं चिय, गमेइ संतेऽवि सेसए मुयइ। संववहारपरतया, ववहारो लोगमिच्छतो।।२।।" इति। ततोऽयमाशयः"कालो सभाव नियई, पुवकयं पुरिसकारणेगंता। मिच्छतं ते चेव उ, सभासओ होंति सम्मत्तं / / 1 / / " इत्यागमवचनतः सर्वस्यानेककारणत्वेऽपि कर्मकृतं लोकवैचित्र्यमिति प्रायः प्रसिद्धेर्यत् कर्म कारयिष्यति तत्करिष्याम इत्युक्तेश्च कर्मव कारणमित्याह-तचाचेतनत्वेनाजीव एवेति। (जीवदव्य) तुशब्दस्यैवकारार्थत्वात् जीवद्रव्यमेव, शेषाणाम्-ऋजुसूत्रशब्दसमभिरुदैवम्भूताना पर्यायनयानां मतेन, हेतुरिति गम्यते। अयमर्थः-जीवद्रव्येण परीवह उदीर्यत इत्येष एवैषां भङ्गोऽभिमतः, ते हि पर्यायास्तिकत्वेन परीषहयमाणमेव परीषहमिच्छन्ति, परीषहणं चोपयोगाऽऽत्मकम् उपयोगस्य च जीवस्वाभाव्यात जीवद्रव्यमेव सन्निहितमव्यभिचारि च कारणं तद्विपरीत तुअजीवद्रव्यं दण्डाऽऽदीत्यकारण, जीवद्रव्यमिति तु द्रव्यग्रहणं पर्यायनयस्याऽपि गुणसंहतिरूपस्य द्रव्यस्पेष्टत्वात्। तदुक्तम्-"पर्यायनयोऽपि द्रव्यामिच्छति गुणसन्तानरूपम्।" इति गाथाऽर्थः 71 / सम्प्रति समवतारद्वारमाहसमों यारो खलु दुविहो, पयडीपुरिसेसु चेव नायव्वो। एएसिंनाएत्तं, वुच्छामि अहाणुपुवीए।७२।। 'समवतारः खलु द्विविधः' इति खलुशब्दस्येवकारार्थत्वात विविध एव, द्वैविध्यं च विषयभेदत इति। तमाह-प्रकृतयश्च पुरुषाश्च प्रकृतिपुरुषास्तेषु, कोऽर्थः?- प्रकृतिषु ज्ञानाऽऽवरणाऽऽदिरूपासु, पुरुषेषु, चशब्दात् स्त्रीपण्डकेषु च, तत्तद्गुणस्थानविशेषवर्तिषु, एवेतिपूरण, 'ज्ञातव्यः' अवबोद्धव्यः, 'एतेषां प्रकृत्यादीनां 'नानात्व' भेदं वक्ष्ये, 'अथ' अनन्तरम् 'आनुपूा क्रमेणेति गाथाऽर्थः 72 / / उत्त०२ अ०॥ एए णं भंते ! वावीसं परीसहा कइसु कम्मपगडीसु समोयरंति? गोयमा ! चउसु कम्मपगडीसु समोयरंति / तं जहा--णाणावरणिजे, वेयणिज्जे, मोहणिज्जे, अंतराइए। णाणावरणिजे णं भंते। कम्मे कइ परीसहा समोयंरति? गोयमा ! दो परीसहा समोयरंति / तं जहा-पण्णापरीसहे, णाणपरीसहे। वेयणिज्जे णं भंते ! कइ परीसहा समोयरंति? गोयमा ! एक्कारस परीसहा समोयरंति-''पंचेव आणुपुव्वी, चरिया सेजा वहे य रोगे यतणफास जल्लमेव य, एक्कारस वेपणिज्जम्मि।।१।।"दंसणमोहणिजे णं भंते ! कम्मे कइ परीसहा समोयरंति? गोयमा! एगे दंसणपरीसहे समोयरइ / चरित्तमोहणिज्जे णं भंते! कइ परीसहा समोयरंति? गोयमा ! सत्त परीसहा सभोयरंति। तंजहा- "अरई अवेलइत्थी, निसीहिया जायणा य अक्कोसे / सक्कार पुरकारे, चरित्तमोहम्मि सत्तेते // 1 // " अंतराइए णं भंते ! कम्मे कइ परीसहा समोयरंति? गोयमा! एगे अलाभपरीसहे समोयरइ।।