________________ परिसर 637 - अभिधानराजेन्द्रः - भाग 5 परिसह परिसर पुं० (परिसर) प्रान्ते, औ०। 'नगरपरिसरेइ वा।' आ० म०१ अ।" परिसरो मृत्यौ, देवोपान्तप्रदेशयोः। है। 'परिसरापासा।" पाइ० ना० 236 गाथा। परिसह पुं० (परिषह) परीति समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यजननिर्जरार्थ साध्वादिभिः सह्यन्ते इति परिषहाः / उत्त० 2 अ० / साधुभिः सहनीयेषु क्षुदादिषु, भ० 1 श०६ उ०। औ० विशे०। सूत्र० / आ० चू०। आव०। ननु केऽमी परीषहाः? किंरूपाः? किञ्चाऽऽलम्बनमुररीकृत्यैतेषु सत्स्वपि न विनयलिङ्घनमित्याशङ्काऽऽपोहाय परिषहास्तत्-रूपाऽऽदि चाभिधेयमित्यनेन सम्बन्धेनाऽऽयातस्यास्य महार्थस्य महापुरम्येव चतुरनुयोगद्वार स्वरूपमुपवर्णनीयं, तत्र च नाम निष्पन्ननिक्षेपस्य परीषह इति नाम, अतस्तन्निक्षेपदर्शनायाऽऽह भगवान्नियुक्तिकारःणासो परिसहाणं, चउविहो दुव्विहो उदव्वम्मि। आगम नोआगमतो, नोआगमओ य सो तिविहो // 65 / / नियतं निश्चितं वाऽऽसनं नामाऽऽदिरचनाऽऽत्मक क्षेपणं न्यासो निक्षेप इत्यर्थः / अयं च केषामित्याहपरीति समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थं साध्वादिभिः सह्यन्त इतिपरीषहास्तेषां, चत्वारो विधाः प्रकारा अस्येति चतुर्विधो, नामस्थापनाद्रव्यभावभेदात् / तत्र नामस्थापने क्षुण्णे, इत्यनादृत्य द्रव्यपरीषहमाह-'द्विविधो द्विभेदः तुः पूरणे, भवति 'द्रव्ये' इति द्रव्यविषयः, प्रक्रमात्परीषहः / स च (आगम णोआगमतो त्ति) आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता, तत्र चानुपयुक्त इत्यागमस्वरूपमतिपरिचितमिति परिहृत्य नोआगमत आह नो आगमतस्तु नोआगमं पुनराश्रित्य 'स' इति परीषहः 'त्रिविधः' विप्रकार इति गाथाऽर्थः / / 65 / / त्रैविध्यमेवाऽऽहजाणगसरीर भविए, तव्वइरित्ते य से भवे दुविहे। कम्मे नोकम्मे या, कम्मम्मि य अणुदओ भणिओ॥६६॥ / (जाणगसरीर त्ति) ज्ञायको ज्ञो वा तस्य शरीरं ज्ञायकशरीरं, ज्ञशरीरं वा जीवरहित सिद्धशिलातलगतं निषीधिकागतं वा, अहो ! अमुना शरीरसमुच्छ्रयेणोपात्तेन परीषह इति पदं शिक्षितम्, अयं घृतघटोsभूदितिवत्संभाव्यमानं, तथा (भविय त्ति) शरीरशब्दस्य काकाक्षिगोलकन्यायेनोभयत्र सम्बन्धात् भव्यशरीर, तत्र भविष्यतितेन तेनावस्थाऽऽत्मना सत्ता प्राप्स्यति यः स भव्यो जीवस्तस्य शरीरं यदद्यापि परीषह इति पदं न शिक्षते, एप्यति तु शिक्षिष्यते, तदयं घृतघटो भविष्यतीतिकसंभाव्यमानम्। नोआगमतो द्रव्यपरीपहः (तब्वइरित्ते य त्ति) ताभ्यां ज्ञशरीरभव्यशरीराभ्यां व्यतिरिक्तः पृथग्भूतः तह्यतिरिकक्तः, स च प्रकृतत्वाद् द्रव्यपरीषहो भवेत्, 'द्विविध' द्विभेदः। कथमित्याह-क्रियते मिथ्यात्वाविरतिकषाययोगानुगतेनाऽऽत्मना निवर्त्यत इति कर्म, तत्र | ज्ञानाऽऽवरणाऽऽदिरूपे, 'नोकर्मणि च तद्विपरीतरूपे, चः समुच्चये, दीर्घत्वं च 'हस्वदीर्घा मिथो वृत्तौ / / 811 / 4 / / इति प्राकृतलक्षणात्। तत्राऽऽद्यमाह-कर्मणि विचार्य, चः पूरणे, द्रव्यपरीषहः अनुदयः उदयाभावः, प्रक्रमात् परीषवेदनीयकर्मणामेव, ‘भणितः' उक्त इति गाथाऽऽर्थः // 66 // . द्वितीयभेदमाहणोकम्मम्मिय तिविहो, सच्चित्ताचित्तमीसओ चेव। भावे कम्मस्सुदओ, तस्स उ दाराणिमे हुंति // 67 / / नोकर्मणि पुनर्विचार्ये ; चस्य पुनरर्थत्वाद् द्रव्यपरिषहः त्रिविध: त्रिभेदः, (सचित्ताचित्तमीसओ त्ति) लुप्तर्निद्दिष्टत्वाद्विभक्तेः सचित्तोऽचित्तो मिश्रक इति, समाहारो वा सचित्ताचित्तमिश्रकमिति, प्राकृतत्वाच पुल्लिङ्गता; चः स्वगतानेकभेदसमुच्चये, एवोऽवधारणे इयन्त एवामी भेदाः, तत्र नोकर्मणि सचित्तद्रव्यपरीषहो गिरिनिर्झरजलाऽऽदिः, अचित्तद्रव्यपरीषहश्चित्रकचूर्णाऽऽदिर्मिश्रद्रव्यपरीषहो गुडाऽऽर्द्रकाऽऽदि० त्रयस्यापि कर्माभावरूपत्वात् क्षुत्परीषहजनकत्वाच्च, इत्थं पिपासाऽऽदिजनक लवणजलाऽऽद्यप्यनेकधा नोकर्मद्रव्यपरीषह इति स्वधिया भावनीयम्। भावपरीषह आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु नोशब्दस्यैकदेशवाचित्वे आगमैकदेशभूतमिदमेवाध्ययन, निषेधवाचित्वे तु तदभावरूपः परीषहवेदनीयस्य कर्मण उदयः / तथा चाऽऽह-(भावे कम्मरस उदओ त्ति) कर्मण इति परीषहवेदनीयकर्मणां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः / 'तस्य च भावपरीषहस्य 'द्वाराणि' व्याख्यानमुखानि 'इमानि' अनन्तरवक्ष्यमाणानि० भवन्तीति गाथाऽर्थः // 67 // तान्येवाऽऽहकत्तो कस्स व दव्वं, समोआर अहिआसए नय वत्तणा कालो। खित्तुद्देसे पुच्छा, निद्देसे सुत्तफासे य॥६८।। 'कुतः' इति कुतोऽङ्गाऽऽदेरिदसुद्धृत 1, (कस्स इति) कस्य संयताऽऽदेरमी परीषहाः 2, 'द्रव्यम्' इति किममीषामुत्पादकं द्रव्यं 3, 'समवतार' इति क्त कर्मप्रकृती पुरुषविशेषे वाऽमीषां सम्भवः? 4, 'अध्यास' इति कथममीषामध्यासना सहनाऽऽत्मिका? 5, 'नय इति को नयः कं परीषहमिच्छति? 6 चः समुच्चये, 'वर्तना' इति कति क्षुदादयः एकदैकरिमन स्वामिनि वर्तन्ते ७'काल' इति कियन्तं कालं यावत् परीषहास्तित्वम् 8, (खेत्ते त्ति) कतरस्मिन्कियति वा क्षेत्र 6, 'उद्देशो' गुरोः सामान्यभिधायि वचनं 10, 'पृच्छा' तजिज्ञासोः शिष्यस्य प्रश्नः 11, 'निर्देशः' गुरुणा पुष्टार्थविशेषभाषणम् 12, सूत्रस्पर्शः सूत्रसूचितार्थवचनम् 13, 'चः समुच्चये। इति गाथासमासार्थः // 68 // तत्र कुत इति प्रश्नप्रतिवचनमाहकम्मप्पवायपुव्वे, सत्तरसे पाहुडम्मि जं सुत्तं। सणयं सोदाहरणं, तं चेव इह पि णायव्दं / / 66 / / कर्मणः प्रवादः प्रकर्षेण प्रतिपादनमस्मिन्निति कर्मप्रवादं, तच्च तत्पूर्व च तस्मिन्, तत्र बहूनि प्राभृतानीति कतिथे प्राभृते इत्याह-सप्तदशे प्राभृते प्रतिनियतार्थाधिकाराभिधायिनि, यत् 'सूत्र' गणधरप्रणीतश्रुतरूपं 'सनयं' नैगमाऽऽदिनयान्वितं, 'सोदाहरणं' सदृष्टान्तं, (तं चेव त्ति) चः