________________ परिसह 636 - अभिधानराजेन्द्रः - भाग 5 परिसह (कइसु कम्मपगडीसु समोयरंति त्ति) कतिषु कर्मप्रकृतिषु विषये परीपहाः समवतारं व्रजन्तीत्यर्थः / (पन्ना परीसहेत्यादि) प्रज्ञापरीषहो जानाऽऽवरणे मतिज्ञानाऽऽवरणरूपे समवतरति प्रज्ञाया अभावमाश्रित्य तदभावस्य ज्ञानाऽऽवरणोदयसम्भवत्वात् / यत्तु तदभावे देन्यवर्जन तत्सद्भावे च मानवर्जन तच्चारित्रमोहनीयक्षयोपशमाऽऽदेरिति / एवं ज्ञानपरीषहोऽपि, नवरं मल्यादिज्ञाना-ऽऽवरणेऽवतरति ''पंचेत्यादि गाथा। (पंचेव आणुपुव्वी ति) क्षुत्पिपासाशीतोष्णदंशमशकपरीषहा इत्यर्थः / एतेषु च पीडव वेदनीयोत्था, तदधिसहनं तुचारित्रमोहनीयक्षयोपशमाऽऽदिसम्भवमधिसहनस्य चारित्ररूपत्वादिति / (एगे दसणपरीसहे समयरइति) यतो दर्शनं तत्वश्रद्धानरूपदर्शनमोहनीयस्य क्षयोपशमाऽऽदौ भवत्युदये तु न भवतीत्यतस्तत्र दर्शनपरीषहः समवतरतीति / "अरई' इत्यादि-गाथा / तत्र चारतिपरीषहोऽरतिमोहनीये, तज्जन्यत्वादचेलपरीषहो जुगुप्सामोहनीये लज्जापेक्षया, स्त्रीपरीषहः पुरुषवेदमोहो, स्त्र्यपेक्षया तुपुरुषपरीषहः स्त्रीवेदमोहे, तत्त्वतः स्त्र्याद्यभिलाषरूपत्वात्तस्य, नैषेधकीपरीषहो भयमोहे उपसर्गभयापेक्षया, याञ्चापरीपहो मानमोहे तदुष्करत्वापेक्षया, आक्रोशपरीषहः क्रोधमोहे क्रोधोत्पपेक्षया, सत्कारपुरस्कारपरीषहो मानमोहे मदोत्पत्त्यपेक्षया समवतरति। सामान्यतस्तु सर्वेऽप्येते चारित्रमोहनीये समवतरन्तीति। (एगे अलाभपरीसहे समोयरइ त्ति) अलाभपरीषह एवान्तराये समवतरत्यन्तरायं चेह लाभान्तरायं तदुदय एव लाभाभावात्, तदधिसहनं च चारित्रमोहनीयक्षयोपशम इति। भ०८ श०८ उ०। तत्र प्रकृतिनानात्वमाहणाणावरणे वेए, मोहम्मि य अंतराइए चेव। एएसुं बाबीसं, परीसहा हुंति णायव्वा / / 73|| ज्ञानाऽवरणे वेद्ये मोहे चानन्तरायिके चैव, एतेषु चतुर्षु कर्मसु / वक्ष्यमाणस्वरूपेषु द्वाविंशतिः परीषहा भवन्ति॥७३ / / अनेन प्रकृतिभेद उक्तः। सम्प्रति यस्य यत्रावतारस्तमाहपन्नान्नाणपरिसहा, णाणावरणम्मि हुंति दुन्नेए। इक्को य अंतराए, अलाहपरिसहो होइ॥७४ / / प्रज्ञा चाज्ञानं च प्रज्ञाऽज्ञाने, तेएवोत्सेकवैक्लव्याकरणतः परीषह्यमाणे परीषही, 'ज्ञानाऽऽवरणे' कर्मणि भवतो 'द्रौ' एती, तदुदयक्षयोपशमाभ्यामनयोः सद्भावात्, एकश्च अन्तराये' अन्तरायकर्मण्यलाभपरीषहो भवति, तदुदयनिबन्धनत्वादलाभस्य इति गाथाऽर्थः // 74 / / मोहनीयं द्विधेति यत्र तन्देदे वेदनीये च यत्परिषहाव-- तारस्तमाहअरई अचेल इत्थी, निसीहिया जायणा य अक्कोसे। सक्कारपुरकारे, चरित्तमोहम्मि सत्तेए॥७५ / / अरईऍ ढुंगुछाए, पुंवेय भयस्स चेव माणस्स। कोहस्स य लोहस्सय, उदएण परीसहा सत्त॥७६॥ दंसणमोहे दंसणपरीसहो नियमसो भवे इक्को। सेसा परीसहा खलु, इक्कारस वेयणिजम्मि॥७७।। 'अरतिः' इति अरतिपरीषहः, एवमुत्तरेष्वपि परीषहशब्दः सम्बन्धनीयः (अचेल त्ति) प्राकृतत्वाद्विन्दुलोपः अचेलं, 'स्त्री नैषेधिकी याचना चाऽऽक्रोशः सत्कारपुरस्कारः सप्तैते वक्ष्यमाणरूपाः परीषहाः चरित्रमोहे' चरित्रमोहनाम्नि मोहनीयभेदे भवन्तीति गम्यते / तदुदयभावित्वादेषाम् / / चारित्रमोहनीयस्यापि बहुभेदत्वाद्यस्य तद्भदस्योदयेन यत्परीपहसद्धावस्तमाह-'अरतेः' अरतिनाम्नश्चारित्रमोहनीयभेदस्य, अचेलस्य जुगुप्सायाः, (पुंवेय त्ति) सुपो लोपात् पुंवेदस्य, भयस्य चैवं मानस्य क्रोधस्य लोभस्य च उदयेन परीषहाः सप्त / इह चाऽरत्युदये नारतिपरीषहः जुगुप्सोदयेनाचेलपरीषह इत्यादि यथाक्रम योजना कार्येति / तथा दर्शनमोहे 'दर्शनपरीषहः वक्ष्यमाणरूपो, (णियमसो त्ति) आपत्वेन नियमात् भवेद्, 'एकः अद्वितीयः शेषाः एतदुद्धरिताः, परीषहाः पुनः एकादश ‘वेदनीये' वेदनीयनाम्नि कर्मणि संभवन्तीति गाथात्रयार्थः // 75-76-77 // के पुनस्ते एकादशेत्याहपंचेव आणुपुव्वी, चरिया सिञ्जा वहे य रोगे य। तणफास जल्लमेव य, इक्कारस वेयणिज्जम्मि // 78 // पञ्चैवपञ्चसंख्या एव, तेच प्रकारान्तरेणापि स्युरित्याह-'आनुपूर्व्या' परिपाट्या क्षुत्पिपासाशीतोण्णदंशकमशकाऽऽख्या इति भावः / चर्या शय्या वधश्च रोगश्च तृणस्पर्शो जल्ल एव च इत्यमी एकादश वेदनीयकर्मण्युदयवति परीषहा भवन्तीति शेषः, इति गाथाऽर्थः // 78 / / सम्प्रति पुरुषसमवतारमाहबावीसं वायरसं--पराऐं चउदस य सुहुमरागम्मि। छउमत्थवीयराए, चउदस इक्कारस जिणम्मि // 76 // 'द्वाविंशतिः' द्वाविंशतिसंख्याः प्रक्रमात्परीषहाः 'बादरसंपराये' बादरसम्परायनाम्नि गुणस्थाने / किमुक्तं भवति?-बादरसम्परायं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, चतुदर्श चतुर्दशसंख्याः , चः, पूरणे, सूक्ष्मसंपराये, सूक्ष्मसम्परायनाम्नि गुणस्थाने, 'सप्तानां चारित्रमोह-- नीयप्रतिबद्धानां, दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्राऽसम्भवादिति भावः। छद्मस्थवीतरागे' छद्मस्थवीतरागनाम्नि गुणस्थाने, 'चतुर्दश' उक्तरूपा एव, 'एकादश' एकादशसंख्याः जिने केवलिनि, वेदनीयप्रतिबद्धाना क्षुदादीनामेव तत्र भावाद्, इति गाथाऽर्थ / 76 / / अधुना अध्यासनामाहएसणमणेसणिज्जं, तिण्हं अग्गहणऽभोयण नयाणं। अहिआसण बोद्धव्वा, फासुय सदुजुसुत्ताणं / / 80| एष्यत इत्येषणम्-एषणाशुद्धम्, अनेषणीयं तद्विपरीत, सोपरस्कारत्वाद्यदन्नाऽऽदि तस्य, यदा-'सुपां सुपो भवन्ति' इति न्यायादेषणीयस्य अनेषणीयस्य च, (अग्गहणऽभोयण त्ति) अग्रहणम्अनुपादान, कथञ्चिद् ग्रहणे वाअभोजनम्-अपरिभोगाऽऽत्मक 'प्रयाणाम' अर्थान्नंगमसङ्ग्रहव्यवहाराणां नयानां मत्तेनाध्यासना बोद्धव्येते सम्बन्धः / अमी हि स्थूलदर्शिनःबुभुक्षाऽऽदिसहनमन्नाऽऽदिपरिहाराऽऽत्मकमेवेच्छन्ति। (फासुग सदुज्जुसुत्ताणं ति) शब्दन