________________ परियारणा 631 - अभिधानराजेन्द्रः - भाग 5 परियारण्णा ति, सेसं तं चेव० जाव भुजो भुजो परिणमंति। तत्थ णं जे ते मणपरियारगा देवा, तेसिं इच्छामणे समुप्पज्जइइच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेत्तए, तए णं तेहिं देवेहिं एवं मणसी कए समाणे खिप्पामेव ताओ अच्छराओ तत्थ गयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मयाइं पहारेमाणीओ पहारेमाणीओ चिटुंति, तए णं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं करंति; सेसं निरवसे सं० जाव भुजो भुज्जो परिणमंति। (तत्थ णमित्यादि) तत्र तेषु कायपरिचारकाऽऽदिषु देवेषु मध्ये ये ते पूर्वमुक्ताः कायपरिचारका भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवास्तेषाम् णमिति वाक्यालङ्कारे, इच्छामनःकायपरिचारेच्छाप्रधान मनः समुत्पद्यते / केनोल्लेखनसमुत्पद्यते? इच्छामोऽभिलषामो; णमिति पूर्ववत् अप्सरोभिः सार्द्ध कायचारं कर्तुमिति / (तए णमित्यादि) ततस्तैर्देवैरेव मुक्तेन प्रकारेण कायपरिचारे मनासि कृते सति क्षिप्रमेव शीघ्रमेव ता अप्सरसः स्वस्वोपभोगयोग्यदेवाभिप्रायमुपेत्य परिचाराभिलाषुकतया उत्तरवैक्रियाणि रूपाणि,विकुर्वन्तीति संबन्धः / कथंभूतानीत्यत आह-उदाराणि, स्फाराणि, न तु हीनावयवानि, तानि अपि शृङ्गाराणि / शृङ्गारो विभूषणाऽऽदिभिर्मण्डनं स विद्यते येषां तानि शृङ्गाराणि। 'अभ्राऽऽदिभ्यः // 7246 // इति अप्रत्ययः। विभूषणाऽऽदिकृतोदारशृङ्गाराणीत्यर्थः / तानि च कदाचित्कस्यचिदमनोज्ञा न भवेयुः। अत आह-मनोज्ञानि स्वस्वोपभोग्यदेवमनोविषयभावपेशलानि, तानिलेशतो संभाव्यन्ते, तत् मनोहराणि स्वस्वोपभोग्यस्य देवस्य मनो हरन्ति आत्मवशं नयन्तेति मनोहराणि / लिहाऽऽदित्वादच् / ततः स्वमनोहरत्वं प्रथमसमयापातमात्रभाव्यपि भवति, तत आह-मनोरमाणि मनः स्वस्वोपभोग्यदेवसम्बन्धि रमयन्ति क्रिडयन्ति प्रतिक्षणमुत्तरोत्तरानुरागसंपृक्तं जनयन्तीति मनोरमाणि, तानि इत्थंभूतानि उत्तरवैक्रियाणी रूपाणि विकुर्वित्वा तेषां देवानामन्तिक समीपं प्रादुर्भवन्ति / (तए णमित्यादि) ततो, णमिति पूर्ववत् / ते देवास्ताभिरप्सराभिः सार्द्ध कायपरिचारणं मनुष्य इव मनुष्यस्त्रीभिः सर्वाङ्गीणकायक्लेशपूर्वक मैथुनोपसेवनं कुर्वन्ति। एवमेव तेषां वेदोपशान्तिभावात्। तथा चामुमेवार्थ दृष्टान्तेन दृढयति-(से जहानामएत्यादि) (से इति) अथ शब्दार्थः, रस चार वाक्योपन्यासे, यथा नाम ते विवक्षिताः शीताः पुद्गलाः शीत शीतयोनिक प्राणिनं प्राप्य शीतमेव शीतत्वमेवातिव्रज्यातिशयेन गत्वा तिष्ठन्ति / किमुक्तं भवति?-विशेषतः शीतीभूतस्य शीतयोनिकस्य प्राणिन सुखित्वायोपकल्पन्ते, उष्णा वा पुद्गला उष्णयोनिक प्राणिन प्राप्य उष्णमेव उष्णत्वमेवातिव्रज्यातिशयेन गत्वा तिष्ठन्ति। विशेषतः स्वरूपलाभसंपत्त्या तस्य सुखित्वायोपतिष्ठन्ति इति भावः / एवम्अनेनैव प्रकारेण ते देवास्ताभिरप्सरोभिः सार्द्ध यथोक्तरूपैः कायपरिचारणे कृते सति इच्छामनकामविषये प्रधान मनः क्षिप्रमेवातितृप्तिभावात् शीतीभवति। इयमत्र भावना यथा शीतपुद्गलाः शीतयोनिकस्य प्राणिनः संस्पर्श शीतत्वं विशेषत आसादयस्तस्य सुखित्वायोपकल्पन्ते / उष्णपुदला वा उष्णयोनिकस्य प्राणिनः संस्पर्श उष्णत्वमिति प्रभूतमासादयन्ते सुखाय घटन्ते। तथा देवीशरीरपुद्गला अपि देवीशरीरमवाप्य परस्पर तद्गुणता भजमानाः परस्परं सुखित्वायोपकल्पन्ते / ततः सुखमुपजायते, आहोश्विदन्यथेति संशयानो देवानां शुक्रपुद्गलास्तित्वं पृच्छति-(अस्थि णमित्यादि) अस्तीति निपातोऽत्र बव्हर्थे, णमिति पूर्ववत्, भदन्त ! तेषां देवानां शुक्रपुद्गला यत् सम्पर्कतो देवीनां सुखमुपजायते / भगवानाह-(हंता ! अत्थि गौतम !) सन्ति के वलं वैक्रियशरीरान्तर्गता इति, न गर्भाधानहेटवः / (ते णं भंते ! इत्यादि) शुक्रपुद्गला णमिति पूर्ववत् / भदन्त! तासामप्सरसां कीदृक् स्वरूपतया भूयो भूयो यदा क्षरन्ति तदा तदा इत्यर्थः / परिणमन्ति? भगवानाह(गोयमेत्यादि) श्रोत्रेन्द्रियं यावत्सपर्शनेन्द्रियतया तेऽपि कदाचिदनिष्टतथा परिणमन्तः सम्भाव्यन्ते / तत आह-इष्टतः सौभाग्याय सौभाग्यहेतवे रूपयौवनलावण्यरूपा गुणा यस्य तत्सौभाग्यरूपयौवनलावण्यगुणं, तद्भावरतत्ता, तया, तत्र रूपसौन्दर्यवती आकृतिविन परमस्तरुणिमा लावण्य मतिशयमनोभवविकारहेतुः परिणतिविशेषो, यतः सौभाग्यहेतुरूपाऽऽदिगुणनिबन्धनतया परिणमन्ति ततः सुभगतया परिणमन्तीत्युच्यते / एवं ते शुक्रपुद्रलास्तासामप्सरसां भूयः भूयः परिणमन्ति। तदेव कायपरिचार उक्तः। सम्प्रति-''भंते! तासिं अच्छराणं कीसत्ताए भुजो 2 परिणमन्ति? गोयमा ! सोइंदियत्ताए इहृत्ताए कतत्ताए भुजो भुजो परिणमंति / अस्यापि पात-निकाय्याख्या प्राग्यत् / नवरमरिमन् स्पर्शशुक्र पुद्गलक्रमो दिव्यप्रभावादवसेयः / एवं रूपपरिचारऽऽदावपि भावनीयम् / तदेवमुक्ताः स्पर्शपरिचारकाः / सम्प्रति रूपपरिचारणां विभावयिषुराह-(तत्थ णमित्यादि) सुगमम् / यावत्तावद्विकुर्वित्वा / (जेणामेव त्ति) यत्रैव देवलोक विमाने प्रदेशे च ते देवाः सन्ति तत्रैव स्थाने ता अप्सरस उपागच्छन्ति, उपागम्य च तेषा देवानाम् (अदूरसामते इति) अदूरसमीपे स्थित्वा तानि पूर्व विकुर्वितानि उदाराणि यावदुत्तरवैक्रियाणि रूपाणि उपदर्शयन्त्यस्तिष्ठन्ति / ततस्ते देवास्ताभिरप्सरोभिः सार्द्ध रूपपरिचारणां परस्परसविलासदृष्टिविक्षेपां प्रत्यङ्गनिरीक्षणनिजनिजानुरागप्रदर्शनप्रदिष्टचेष्टाप्रकटनाऽऽदिरूपा कुर्वन्ति। (सेसं तं चैव त्ति) शेषम् (से जहानामए इत्यादि) तदेव यावत् (भुजो भुञ्जो परिणमंठीति) वाक्यम् / तदेवं भाविता रूपपरिचारणा / संप्रतिशब्दपरिचारणां भावयितुकाम आह-(तत्थ णमित्यादि) कण्ठ्यम / नवरमदूरसमीपे स्थित्वा अनुत्तरान् सर्वमनः प्रल्हादजनक तया अनन्यसदृशान् उच्चावचान् प्रबलप्रबलतरमन्मथोद्दीष कसभ्यासभ्यरूपान् शब्दान्, नपुंसकनिर्देशः प्राकृतत्वात्। समुदीरयन्त्यस्तिष्ठन्ति। शेषं तथैवा (एवं तत्थ णमित्यादि) मनःपरिचारकसूत्रमपि तथैव यावन्मनःपरिचारे मनसि कृते सति क्षिप्रमेव ता अप्सरसस्तत्र स्थिता एव सौधर्मशानदेवलोकान्तर्गतस्वस्वविमानस्थिता एव सत्योऽनुत्तराणि परमसन्तोषजनकतया अनन्यसदृशानि उचावचानि कामानुषक्तसभ्यासभ्यरूपाणि मनांसि प्रवीचारयन्त्यस्तिष्ठन्ति। इह (तत्थ गया चेव समाणीओ) इति वदता देव्यः सहस्रारं यावद्गच्छन्ति, न परत इत्यावेदितं द्रष्टव्यम्। तथा चाह संग्रहणिमूलटीकाकारो हरिभद्रसूरिःसनत्कुमाराऽऽदि देवानां र