________________ परिणाम 611 - अभिधानराजेन्द्रः - भाग 5 परिणाम द्विकसंयोगाश्चत्वारिंशत्। कथम्?-पञ्चानां पदानां दशद्धिक-संयोगाः, एकैकस्मिंश्च द्विकसंयोगे पूर्वोक्तक्रमेण चत्वारो विकल्पाः, दशानां च चतुर्भिर्गुणने चत्वारिंशदिति। त्रिकसंयोगे तु षष्टिः / कथम्?-पञ्चानां पदानां दशत्रिकसंयोगाः, एकै कम्भिश्च त्रिकसंयोगे पूर्वोक्तक्रमेण षड्विकल्पाः, दशानां च षड्भिर्गुणने षष्टिरिति / चतुष्कसंयोगास्तु विंशतिः / कथम्?-पञ्चानां पदानां तु चतुष्कसंयोगे पञ्च विकल्पाः, एकैकर्मिश्च पूर्वोक्तक्रमणे चत्वारो भङ्गाः / पञ्चानां च चतुर्भिर्गुणने विशतिरिति। पञ्चकसंयोगे त्वेक एवेति। एवं षट्काऽऽदिसंयोगा अपि वाच्याः, नवरं षट्कसंयोग आरम्भसत्यमनःप्रयोगाऽऽदिपदान्याश्रित्य सप्तसंयोगस्त्वौदारिकाऽऽदिकायप्रयोगमाश्रित्य / अष्टकसंयोगस्तु व्यन्तरभेदान, नवकसंयोगस्तु ग्रैवेयकदेवभेदान्, दशकसंयोगस्तु भवनपतिभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया समवसेयः / एकादशसंयोगस्तु सूत्रे नोक्तः, पूर्वोक्तपदेषु तस्यासम्भवात्। द्वादशसंयोगस्तु कल्पोपपपन्नदेवभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षयैवे त्ति / (पवेसणए त्ति) नवमशतसत्कतृतीयेद्दिशके गाङ्गेयाभिधानानगारकृतनरकाऽऽदिगतिप्रवेशनविचारे कियन्ति तदनुसारेण द्रव्याणि वाच्यानीत्याह-(जाव असंखेज त्ति) असङ्ख्यातान्तनारकाऽऽदिवक्तव्यताऽऽश्रयं हि तत् सूत्रम्। इह तुयो विशेषस्तमाह (अणंता इत्यादि) एतदेवाभिलापतो दर्शयन्नाह-(जाव अणंतेत्यादि) अथैतेपामेवाऽल्पबहुत्वं चिन्तयन्नाहएएसि णं भंते! पोग्गलाणं पओगपरिणयाणं मीसापरिणयाणं वीससापरिणयाणय कयरे कयरेहिंतो० जीव विसेसाहिया वा? गोयमा! सव्वत्थोवा पोग्गला पओगपरिणता मीसापरिणता अणंतगुणा वीससापरिणता अणंतगुणा। सेवं भंते ! भंते ! ति। (एएसिणमित्यादि) (सव्वत्थोवा पोग्गला पओगपरिणय त्ति) कायाऽऽदिरूपतया जीवपुद्गलसम्बन्धकालस्य स्तोकत्वात्। (मीसपरिणया अणंतगुण त्ति) कायाऽऽदिप्रयोगपरिणतेभ्यः सकाशान्मिश्रकपरिणता अनन्तगुणाः / यतः प्रयोगकृतमाकारमपरित्यजन्तो विस्त्र सया ये परिणामान्तरमुपागता मुक्तकलेवराऽऽद्यवयवरूपास्तेऽनन्ताः। विस्वसापरिणतास्तु तेभ्योऽप्यनन्तगुणाः परमाण्वादीना जीवग्रहणप्रायोग्याणामप्यनन्तानन्तत्वादिति / भ० ८श०१ उ०। अह भंते! पाणाइवाए, मुसावाए जाव मिच्छादसणसल्ले पाणाइवायवेरमणे मिच्छादसणसल्लविवेगे उप्पत्तिया० जाव पारिणामिया उग्गहे० जाव धारणा उट्ठाणे कम्मे बले बीरीए पुरिसक्कारपरक्कमे णेरइयत्ते असुरकुमारत्ते० जाव वेमाणियत्ते णाणावरणिज्जे० जाव अंततराइए कण्हलेस्स० जाव सुक्कलेस्सासा सम्मदिट्ठिए 3 / चक्खुदंसणे / आभिणिबोहियणाणे० जाव विभंगणाणे आहारसण्णाए / ओरालियसरीरे 5 / मणजोगे 3 / सागारोवओगे अण्णागारोवओगे, जे यावण्णे तहप्पगारा सव्वे ते णण्णत्थ आताएपरिणमंति? हंता गोयमा! पाणाइवाए० जाव सव्वे ते णण्णत्थ आताए परिणमंति। जीवे णं भंते! गम्भ वक्कडमाणे कइवण्णे, कइगंधे? एवं जहा वारसमए पंचमुद्देसएक जाव कम्मओ णं जए णो अकम्मतो विभत्तिभावं परिणए / सेवं भंते ! भंते ! त्ति। (अहेत्यादि) (णऽण्णत्थ आयाए परिणमंति त्ति) नान्यत्रात्मनः परिणमन्त्यात्मानं वर्जयित्वा नान्यत्रैते वर्तन्ते, आत्मपर्यायत्वादेषां पर्यायाणां च पर्यायिणा सह कथञ्चिदेकत्वादात्मरूपाः सर्व एवैते नाऽऽत्मनो भिन्नत्वेन परिणमन्तीतिभावः। अनन्तरं प्राणातिपाताऽऽदयो जीवधर्माश्चिन्तिताः / अथ कथञ्चित्तद्धा एव वर्णाऽऽदयश्चिन्त्यन्ते(जीवे णमित्यादि)। जीवो हि गर्भे उत्पद्यमानस्तैजसकार्मणशरीरसहित औदारिकशरीरग्रहणं करोति, शरीराणि च वर्णाऽऽदियुक्तानि। तदव्यतिरिक्तश्च कथञ्जिीवोऽत उच्यते (कतिवण्णमित्यादि)"एवं जहा'' इत्यादिना चेदं सूचितम्-'कतिरसं कतिफासं परिणाम परिणमंति? | गोयमा ! पंचवण्णं पंचरसं दुगंधं अट्ठफासं च परिणाम परिणमति / " इत्यादि / व्याख्या चाऽऽस्य पूर्ववदेवेति / भ०२श०३ उ०। "उप्पजति चयंति य, परिणमंति य गुणा नदव्वाई।" आ०चू०१ अ०। परिणमनं परिणामः / णिजन्ताद्घप्रत्ययः। परिणामाऽऽपादने, क०प्र०१ प्रक० / कर्म० / 'कवोयपरिणामे / ' कपोतस्येव परिणाम आहारपाको यस्य स तथा। कपोतस्य हि पाषाणलवानपि जठराग्निर्जरयति केवलश्रुतिः। औ०। "दोहिं ठाणेहिं आया परिणामेइदेसेण वि सवेण वि।" परिणमयति परिणाम नयति खलरसविभागेन भक्ताऽऽश्रयदेशस्य प्लीहाऽऽदिना रूद्धवात् देशतः, अन्यथा सर्वतः / स्था०२ ठा०२ उ०। (11) जीवोऽकर्मतो विभक्तिभावं परिणमतिकम्मओ णं भंते ! जीवो णो अकम्मओ विभत्तिभावं परिणमइ, कम्मओ णं जए णो अकम्मओ विभत्तिभावं परिणमइ? हंता गोयमा! कम्मओ णं तं चेव० जाव परिणमइ, णो अकम्मओ विभत्तिभावं परिणमइ, सेवं भंते! भंते ! ति। कर्मतः सकाशात्, नो अकर्मतःन कर्माणि विना जीवो विभक्तिभावं विभागरूपं नारकतिर्यग्मनुष्यामरभवेषु नानारूपं परिणाममित्यर्थः / परिणमति गच्छति। तथा-(कम्मओ णं जए त्ति) गच्छति ताँस्तान्नारकाऽऽदिभावानिति जगत् जीवसमूहो जीवद्रव्यस्यैव वा विशेषो जङ्गमाभिधानः, "जगन्ति जङ्गमान्याहुः / " इति वचनादिति / भ०१२ श० ५उ० / (द्रव्याणां शीतोष्णपरिणामः ‘परिट्ठवणा' शब्देऽस्मिन्नेव भागे 573 पृष्ठ उदकसंसृष्टाऽऽहारपरिष्ठापनाप्रस्तावे प्रतिपादितः) (निर्गन्थानां परिणामद्वारम् ‘णिग्गंथ शब्दे चतुर्थभागे 2040 पृष्ठे गतम्) (संयतानां च परिणाममद्वारम् 'संजय' शब्दे वक्ष्यते) (मूलप्रकृतेर्महदादिक्रमेण परिणामः 'संख' शब्दे परीक्षिष्यते) स्वभावे, परिणामः पर्यायः स्वभावो धर्म इति यावत्। स्था० 6 ठा० / अध्यवसाने, स०११ अङ्ग / क०प्र०। पञ्चा०। अध्यवसायविशेषे विशे०। भावे, व्य०६ उ०। चित्तभावे, द्वा० ७द्वा०।