________________ परिणाम 610 - अभिधानराजेन्द्रः - भाग 5 परिणाम मेतेन गमेनाऽऽरम्भसत्यमनःप्रयोगाऽऽदिपदप्रदर्शितेन द्विकसंयोगेन नेतव्यं समस्तं द्रव्यत्रयसूत्रम्, द्विकसंयोगस्य चैकत्वविकल्पाभिधानपूर्वकत्वादेकत्वैर्विकल्पैश्चेति दृश्यम् तत्रच यत्राऽऽराम्भसत्यमनःप्रयोगाऽऽदिपदसमूहे यावन्तो द्विकसंयोगा उत्तिष्ठन्ते सर्वे ते तत्र भणितव्याः। तत्र चाऽऽम्भसत्यमनः-प्रयोगाऽऽदिषु प्रदर्शिता एव, आरम्भाऽऽदिपषट्कविशेषितेषु पुनरित्थमेव त्रिषु मृषामनःप्रयोगाऽऽदिषु चतुर्ष चसत्यवाक्प्रयोगाऽऽदिषु प्रत्येकमेकत्वे षट् षड् किल्पाः, द्विकसंयोगे तु पञ्चदशेत्येवं प्रत्येकमेव सर्वेष्वप्येकविंशतिरौदारिकशरीरकायप्रयोगाऽऽदिषु तु सप्तसु पदेष्वेकत्वे सप्ताद्विकयोगे त्वेकविंशतिरित्येवमष्टविंशतिरकत्येवमेकेन्द्रियाऽऽदिपृथिव्यादिपदप्रभृतिभिः पूर्वोक्तक्रमेणौदारिकाऽऽदिकायप्रयोगपरिणतद्रव्यद्वयं प्रपञ्चनीयम् / कियदूरं यावदित्याह-(जाव सव्वट्ठसिद्ध त्ति) एतच्चेवम्-"जइ सव्वट्ठसिद्धअणुत्तरोववाइयकप्पातीयवेमणिदेवपंचिंदियकम्मासरीरकायप्पओगपरिणया किं पज्जत्ता सव्वट्ठसिद्ध० जावपरिणया, अपज्जत्ता सव्वट्ठसिद्ध० जाव परिणया वा? गोयमा ! पन्ज ता सव्वसिद्ध० जाव परिणया वा, अपजत्ता सव्वट्ठसिद्ध० जाव परिणया वा / अहवेगे पज्जत्ता सचट्ठसिद्ध० जाव परिणए, एगे अपजत्ता सव्वट्ठसिद्ध० जाव परिणए त्ति।" (एवं वीससापरिणया वि त्ति) एवमिति प्रयोगपरिणतद्रव्यद्वयवत्प्रत्येकविकल्पैर्द्विकसंयोगैश्च विस्त्रसापरिणते अपि द्रव्ये वर्णगन्धरसस्पर्शसंस्थानेषु पश्चाऽऽदिभेदेषु वाच्ये / कियद् दूरं यावदित्याह-(जाव अहवेगे इत्यादि) अयं च पञ्चभेदसंस्थानस्य दशानां द्विकसंयोगाना दशम इति। अथ द्रव्यत्रय चिन्तयन्नाह (तिन्नीत्यादि) इह प्रयोगपरिणताऽऽदिपदत्रये एकत्वे त्रयो विकल्पाः, द्विकसंयोगे तु षट् / कथमाद्यस्यैकत्वे शेषयोः क्रमेण द्वित्ये द्वौ, तथाऽऽद्यस्य द्वित्वे शेषयोः क्रमेणैकत्वेऽन्यौ द्वौ० तथा द्वितीयस्यैकत्चे तृतीयस्य च द्वित्वेऽन्यः,तथा द्वितीयस्य द्वित्वे तृतीयस्य चैकत्वेऽन्यः, इत्येवं षट्, त्रिकयोगे त्वेक एवेत्येवं सर्वे दश / एवं मनःप्रयोगाऽऽदिपदत्रयेऽपि। अतएवाऽऽह (एवमेक्कासंजोगोइत्यादि) सत्यमनःप्रयोगाऽऽदीनि तु चत्वारि पदानि इत्यम एकत्वे चत्वारो, द्विकसंयोगे तु द्वादश, कथमाद्यस्यैकत्वेन शेषाणां त्रयाणां क्रमेणानेकत्वेन त्यो लब्धाः, पुनरन्ये त्रय आद्यस्यानेकत्वेन शेषाणां क्रमेणैवैकत्वेन, तथा द्वितीयस्यैकत्वेन शेषयौः क्रमेणानेकत्वेन द्वौ, पुनर्द्वितीयस्यानेकत्वेन शेषयोः क्रमेणैवैकत्वेन द्वावेव, तृतीयचतुर्थयोरेकत्वानेकत्वाभ्यामेकः, पुनर्विपर्ययेणैक इत्येवं द्वादश। त्रिकयोगे तु चत्वारः, इत्येवं सर्वेऽपि विंशतिरिति। सूत्रे तु कॉश्चिदुपदर्थ्यशेषानतिदेशत आह-(एवं दुयासंयोगो इत्यादि)(इत्थवि तहेव त्ति) अत्रापि द्रव्यत्रयाधिकारे तथैव वाच्यं सूत्र, यथा द्रव्यद्वयाधिकारे उक्तम् / तत्र च मनोवाकायभेदतो यः प्रयोगपरिणामो मिश्रतापरिणामो वर्णाऽऽदिभेदतश्च विस्त्रसापरिणाम उक्तः स इहाऽपि वाच्य इति भावः। किमन्तंतत्सूत्रं वाच्यमित्याह-(जावेत्यादि) इह च परिमण्डलाऽऽदीनि पञ्च पदानि, तेषु चैकत्वे पञ्च विकल्पाः द्विकसयोगे तु विंशतिः, कथमाद्यस्यैकत्वे शेषाणां च क्रमेणानेकत्वे तथा आद्यस्यानेकत्वे, शेषाणा तुक्रमेणैवैकत्वेऽष्टो। एवं द्वितीयस्यैकत्वे अनेकत्ये चशेषत्रयस्य चानेकत्वे एकत्वे च षट्, तथा तृतीयस्यैकत्वेऽनेकत्वे च द्वयोश्चानेकत्वे एकत्येच चत्वारः / तथा चतुर्थस्यैकत्वेऽनेकत्वे च पञ्चमस्य चानेकत्वे एकत्वे च द्वावित्येवं सर्वेऽपि विंशतिस्त्रिकयोगे तु दश / तत्र च-"अहवा एगे तंससंठाणे" इत्यादिना त्रिकयोगाना दशमो दर्शित इति। अथ द्रव्यचतुष्कमाश्रित्याऽऽह-(चत्तारि भंते! इत्यादि) इह च प्रयोगपरिणताऽऽदित्रये एकत्वे त्रयो० द्विकयोगे तु नव / कथमोद्यस्यैकत्वे द्वयोश्च क्रमेण त्रित्वे द्वौ, तथाऽऽद्यस्य द्वित्वे द्वयोरपि क्रमेणैव द्वित्वेऽन्यौ द्वौ, तथाऽऽद्यस्य त्रित्वे द्वयोश्च क्रमेणैकत्वेऽन्यौ द्वौ, तथा द्वितीयस्यैकत्वेऽन्यस्य त्रित्वे, तथा द्वयोरपि द्वित्ये तथा द्वितीयस्य त्रित्वेऽन्यस्य चैकत्वे त्रयोऽन्ये इत्येवं सर्वेऽपि नव। त्रययोगे तु त्रय भव एव भवन्तीत्येवं सर्वेऽपि पञ्चदशेति। "जइ पओगपरिणया किं मणपओग'' इत्यादिना चोक्तशेषं द्रव्यचतुष्कप्रकरणमुपलक्षितम् / तच पूर्वोक्तानुसारेण संस्थानसूत्रान्तमुचितभङ्गकोपेतं समस्तमध्येयमिति। (10) अथ पञ्चाऽऽदिद्रव्यप्रकरणान्यतिदेशतो दर्शयन्नाहएवं एएणं कमेणं पंच छ सत्त० जाव दस संखेज्ज असंखेज अणंता दव्वा भाणियव्वा / दुया संजोएण तिया संजोएणं० जाव दससंजोएणं वारससंजोएणं उवउंजिऊणं जत्थ जइया संजोगा ते सवे भाणियध्वा / एए पुण जहा नवमसए पवेसणए भणिहामि तहा उवउंजिऊणं भाणियव्वा० जाव असंखेजा अणंता एवं चेव, नवरं एकं पदं अब्भहियं० जाव अहवा अणंता परिमंडलसंठाण परिणया० जाव अणंता आययसंठाणपरिणया। (एवं एएणमित्यादि) एवं चाऽभिलापः--"पंच भंते! दटव किं पओगपरिणया? गोयमा, पओगपरिणया वा 3 / अहवा-एगे पओगपरिणए, चत्तारि मीसापरिणया' इत्यादि। इह च द्विकसंयोगे विकल्पा द्वादश / कथम्?- एकं चत्वारि च 1 / द्वे त्रीणि च 2 / त्रिणि द्वे च 3 / चत्वार्येक चेत्येवं चत्वारो विकल्पा द्रव्यपञ्चकमाश्रित्यैकत्र द्विकसंयोगे पदत्रयस्य त्रयोद्विकसंयोगाः। तेच चतुर्भिर्गुणिता द्वादशेति। त्रिकयोगेतु षट् / कथम् त्रीण्येकमेकं च 1, एकं त्रीण्येकं च 2, एकमेकं त्रीणि च 3, द्वे द्वे एक च४, द्वे एक द्वे च 5, एक द्वे द्वे चेत्येवं षट्। (जाव दस संजोएणं ति) इह यावत्करणाचतुष्काऽऽदिसंयोगाः सूचिताः, तत्र च द्रव्यपञ्चकापेक्षया सत्यमनःप्रयोगाऽऽदिषु चतुर्षु पदेषु द्विकत्रिकचतुष्कसंयोगा भवन्ति / तत्र च द्विकसंयोगाश्चतुर्विंशतिः। कथम्? चतुर्णा पदानां षट्, द्विकसंयोगाः, तत्र चैकैकस्मिन् पूर्वोक्तक्रमेण चत्वारो विकल्पाः, षण्णां चचतुर्भिर्गुणने चतुर्विशतिरिति। त्रिकसंयोगा अपि चतुर्विंशतिः / कथम्?चतुर्णा पदानां त्रिकसंयोगाश्चत्वार एकै कस्मिंश्च पूर्वोक्तक्रमेण षड्विकल्पाश्च / चतुर्णा चषभिर्गुणने चतुर्विशतिरिति / चतुष्कसंयोगे तु चत्वारः / कथम्?-आदौ द्वे त्रिषु चैकैकं 1, तथा द्वितीयस्थाने द्वे शेषेषु चैकैकं २,तथा चतुर्थं द्वेशेषेषु चैकैकमित्येवं चत्वार इति। एकेन्द्रियाऽऽदिषु तु पञ्चसु पदेसु द्विकत्रिकचतुष्कपञ्चकसंयोगा भवन्ति / तत्र च