________________ परिणाम 596 - अभिधानराजेन्द्रः - भाग 5 परिणाम करणेणं अणेगवण्णं अणेगरूवं परिणामं परिणमइ, अहे से परिणामे णिज्जिण्णे भवइ, तओ पच्छा एगवण्णे एगरूवे सिया ? हंता गोयमा ! एस णं पोग्गले तीतं तं चेवजाव एगरूवे सिया। एस णं भंते ! पडुप्पण्णं सासयं समयं एवं चेव / एवं अणागयमणंतं पि / एस णं भंते ! खंधे तीतमणंतं एवं चेव / खंधे वि जहा पोग्गले। एस णं भंते ! जीवे तीतमणतं सासयं समयं दुक्खीसमयं अदुक्खीसमयं दुक्खी वा अदुक्खी वा पुट्विं च णं करणेणं अणेगभावं अणेगभूतं परिणामं परिणमइ / अहे से विय णिज्जिपणे भवइ, तओ पच्छा एगभावे एगभूते सिया? हंता गोयमा ! एस णं जीवे० जाव एगभूए सिया। एवं पडुप्पण्णं सासयं समयं, एवं अणागय-मणंतं सासयं समयं / परमाणुपोग्गलेणं भंते ! सासए असासए? गोयमा ! सिय सासए, सिय असासए। से केणतुणं भंते ! एवं वुच्चइ सिय सासए, सिय असासए ? गोयमा ! दव्वट्ठयाए सासए, वण्णपज्जवेहिं.जाव फासपनवेहिं असासए, से तेणटेणं. जाव सिय असासए।। ''पोग्गल १खधे 2 जीवे 3, परमाणू सासए य 4 चरमे य५। दुविहे खलु परिणामे, अज्जीवाणं च जीवाणं / / 6 / / " अस्याश्चार्थ उद्देशकार्थाधिगमावगम्य एवेति / (पुग्गले त्ति) पुद्गलः परमाणुः स्कन्धरूपश्च / (तीतमणतं सासयं समयं ति) विभक्तिपरिणामादतीते अनन्ते अपरिणामत्वात् शाश्वते अक्षयत्वात् समये काले / (समयं लुक्खी ति) समयमेकं यावत् रूक्षस्पर्शसद्भावाद् रूक्षी। तथा-(समयं अलुक्खी ति) समयमेकं यावदरूक्षस्पर्शसद्भावादरूक्षी, स्निग्धस्पर्शवान बभूव / इदं च पदद्वयं परमाणौ स्कन्धे च सम्भवति। तथा (समयं लुक्खी वा अलुक्खी व त्ति) समयमेव रूक्षश्वारूक्षश्च, रूक्षस्निग्धलक्षणस्पर्शद्वयोपेतो बभूव। इद च स्कन्धापेक्षं, यतो व्यणुकाऽऽदिस्कन्धे देशो रूक्षो, देशश्वारूक्षो भवतीति / एवं युगपद्रूक्षस्निग्धस्पर्शसम्भवो, वाशब्दौ चेह समुचयार्थी , एवं रूपश्च सन्नसौ किमनेकवर्णाऽऽदिपरिणामं परिणमति / पुनश्चैकवर्णाऽऽदिपरिणामः स्यादिति पृच्छन्नाह- (पुट्विं च णं करणेणं अणेगवण्णं अणेगरूवं परिणामं परिणामइ इत्यादि) पूर्वच एकवर्णाऽऽदिपरिणामात्प्रागेव करणेन प्रयोगकरणेन विस्र साकरणेन वा, अनेकवर्ण कालनीलाऽऽदिवर्णभेदेन अनेकरूपं, गन्धरसस्पर्श संस्थानभेदेन परिणामं पर्यायम् / (परिणमइ ति) अतीतकालविषयत्वादस्य परिणतयानिति द्रष्टव्यम्। पुद्गल इति प्रकृतम्,सचयदि पर परमाणुस्तदा समयभेदेनानेकवर्णाऽऽदित्वं परिणतवान, यदि च स्कन्धरतदा यौगपधेनापीति (अह से त्ति)अथ अनन्तरं सएष परमाणो स्कन्धस्य चानेकवर्णाऽऽदिपरिणामो निर्जीर्णः क्षीणो भवति, परिणामान्तराऽऽधायककारणोपनिपातवशात्ततः पश्चान्निर्जरणानन्तरम् एकवर्णोपेतवर्णान्तरत्वादेक रूपो विवक्षितगन्धाऽऽदिपर्यायापेक्षयाऽपरपर्यायाणामपे - तत्वात् / (सि यत्ति) बभृव, अतीतकालविषयत्वादस्येति प्रश्रः / इहोत्तरसेतदेवेति-अनेन च परिणामिता पुगलद्रव्यस्य प्रतिपादितेति। (एस णमित्यादि) वर्तमानकालसूत्र, तत्र च (पडुप्पण्णं ति) विभक्तिपरिणामात्प्रत्युत्पन्ने वर्तमाने शाश्वते सदैव तस्य भावात्समये कालमात्रे / (एवं चेय त्ति) करणात्पूर्वसूत्रोक्तमिदं दृश्यम्-(समयं लुक्खी समय अलुक्खी समयं लुक्खी वाऽलुक्खी वेत्यादि) यचेहानन्तमिति नाधीत, तद्वर्तमानसमयस्यानन्तत्वासम्भवात् अतीतानागतसूत्रयोस्तु अनन्तामत्यधीतं तयोरनन्तत्वासम्भवात् / अनन्तरं पुद्गलस्वरूपं निरूपितं, पुगलश्च स्कन्धो भवतीति। पुद्गलभेदभूतस्य स्कन्धस्य स्वरूप निरूपयन्नाह-(एस ण भंते ! खंधे इत्यादि) स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादितीत्थमेव जीवस्वरूपं निरूपयन्नाह-(एसणं भंते! जीये इत्यादि) एष प्रत्यक्षो जीवोऽतीतेनन्ते शाश्वते समये समयमेकं दुःखी, दुःखहेतुयोगात्समयं चादुःखी, सुखेहेतुयोगाद्वभूव। समयमेव च दुःखी वा, अदुःखी वा, वाशब्दयोः समुचयार्थत्वात्-दुःखी च सुखी च, तद्धेतुयोगान्न पुनरेकदा दुःखसुखवेदनमरत्येकोपयोगत्वान्जीवस्येति / एवंरूपश्च सन्नसौ स्वहेतुतः किमनेकभावपरिणाम परिणमति, पुनश्चैकभावपरिणामः स्यादिति पृच्छन्नाह-(पुट्विं च णं करणेणं अणेगभावं अणेगभूयं परिणामं परिणईत्यादि) पूर्वं च एकभावपरिणामात्प्रागेव करणेन कालस्वभावाऽऽदिकारणसंवलितया शुभाशुभकर्मबन्धहेतुभूतया क्रियया अनेको भावः पर्यायो दुःखित्वाऽऽदिरूपो यस्मिन् स तथा, तमनेकभावं परिणाममिति योगः / (अणेगभूयं ति) अनेकभावत्वादेवानेकरूपं परिणाम स्वभावम् / (परिणमइ त्ति) अतीतकालविषयत्वादस्य परिणतवान् प्राप्तवान् इति। (अहे सत्ति) अथ तदुःखित्वाऽऽद्यनेकभावहेतुभूतम्। (वियणिजे ति) वेदनीय कर्म, उपलक्षणत्वाच्चास्य ज्ञानाऽऽवरणीयाऽऽदि च निर्जीण क्षीणं भवति, ततः पश्चात्। (एकभावे त्ति) एको भावः सांसारिकसुखविपर्ययात्स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एव च एकभूत एकत्वं प्राप्तः। (सिय त्ति) बभूव, कर्मकृतधमन्तिरविरहादिति प्रश्नः / इहोत्तरमेतदेव, एवं प्रत्युत्पन्नाऽऽगतसूत्रे अपीति। पूर्व स्कन्ध उक्तः, स च स्कन्धरूपत्यागाद्विनाशो भवति, एवं परमाणुरपि स्यान्न वेत्याशङ्कायामाह-(परमाणु इत्यादि) (परमाणुपाग्गलेणं ति) पुद्रलः स्कन्धोऽपि स्यादतः परमाणुग्रहणम् (सासए ति) शश्वद्भवनाच्छाश्वतो नित्य :, अशाश्वतस्त्वनित्यः। (सिय सासए त्ति) कथञ्चिच्छाश्वतः। (दव्वट्ठयाए त्ति) द्रव्यमुपेक्षितपर्यायं वस्तु. तदेवार्थो द्रव्यार्थस्तद्भावस्तत्ता, तया द्रव्यार्थतया, शाश्वतः, स्कन्धान्तर्भावेऽपि परमाणुत्वस्याविनष्टत्वात्प्रदेशलक्षणव्यपदेशान्तरव्यपदेश्यत्वात् / (वण्णपज्ज वेहिं ति) परि सामस्त्येनावन्ति गच्छन्ति ये ते पर्यवा विशेषा धर्मा इत्यनर्थान्तरम्।तेच वर्णाऽऽदिभेदादनेकधेत्यतो विशष्यते-वर्णस्य पर्यवा वर्णपर्यवा अतस्तैः (असासए त्ति) विनाशी पर्यवाणां पर्यवत्वेनैव विनश्वरत्वादिति भ०१४ श० 4 उ० / (देवो बाह्यपुद्गलानादाय परिणामयितु शक्त इति 'विउवणा' शब्दे वक्ष्यते) (लेश्याना परस्परपरिणामः 'लेस्सा' शब्दे वक्ष्यते) (5) पुद्गलपरिणामः___ कइविहे गं भंते ! पोग्गलपरिणामे पण्णत्ते ? गोयमा ! पं