________________ परिट्ठवणा 583 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा षु गत इत्यवगन्तव्यम् / एषा गति : समासेन तस्याभिहिता / व्याख्यातास्तिस्रोऽपि द्वारगाथाः। अथात्रैव प्रायश्चित्तमाहएकिकम्मि उठाणे, हंति विवच्चासकारणे गुरुगा। आणाइणो य दोसा, विराहणा संजमाऽऽयाए॥६५६।। एषां प्रत्युपेक्षणाऽऽदीनामेकैकस्मिन् स्थाने विपर्यासं कुर्वतां चत्वारो गुरुकाः, आज्ञाऽऽदयश्च दोषाः, संयमाऽऽत्मविराधना चंद्रष्टव्या। एतेन सुत्त न गतं, सुत्तनिवातो उ दव्वसारे उ। उट्ठणम्मि वि चउलहुगा, छडण लहुगा अभिगमे / / 660 / / यदेतद् द्वारकदम्बकमनन्तरं व्याख्यातम्, एतेन सूत्रं न गतं, किं तु सामाचारीज्ञापनार्थं सर्वमेतदुक्तम्। किं पुनस्तह्यत्र सूत्रे प्रकृतमित्याहसूत्रनिपातः पुनः सागारिकसत्के वहनकाष्ठलक्षणे द्रव्ये भवति, रात्री कालगते यदि वहनकाष्ठानुज्ञापनाय सागारिकमुत्थापयति तदा चतुर्लघु, अरहट्टयोजनाऽऽदयश्व दोषाःतस्मान्नोत्थापनीयः, किं तु यद्येकोऽपि कश्चित् वैयावृत्यकरः समर्थस्तद्वोदु ततस्तत्काष्ठं न गृह्यते, अथासमर्थस्ततो यावन्तः शक्भुवन्ति तावन्तस्तेन काष्ठेन वहन्ति, अथ वहनकाष्ठ तत्रैव परिष्ठाप्याऽऽगच्छन्ति तदाऽपि चतुर्लयु, अपरेण च गृहीते अधिकरणं, सागारिको वा तदपश्यत्, एतैः शरीर्वहनार्थ काष्ठं नीत्वा तत्रैव परित्यक्तमिति मत्वा प्रतिष्ठाव्यवच्छेदकं गर्हाऽऽदिकं कुर्यात्, तस्मादानेतव्यं, यदि पुनरानीते गृहीतेनैव अभिगमनं प्रवेशं कुर्वन्ति तदाऽपि चतुर्लधु। एतेच दोषाःमिच्छत्तऽदिएणदाणं, समलाऽवण्णो जुगुच्छितं चेव। दिव रातों अभियावण, वोच्छेओ होति वसहीए॥६६१।। सागारिकस्तत्काष्टं प्रवेश्यमानं दृष्ट्वा मिथ्यात्वं गच्छेत् एते भणन्ति अस्माकमदत्तस्याऽऽदानं न कल्पते, यथैतदलीक तथाऽन्यदप्यलीकमेव / अथवा ब्रूयात्-समला अमी अस्थिसरजस्कानामप्युपरिवर्तिनः, एवमवर्णा भूयात्, जुगुप्सितं वा जुगुप्सामपि कुर्यात्-मृतकं हतका मम गृहमानयन्ति; ततो यदि दिवा रात्रौ वा साधूनाम् (आभियावणं) निष्काशनं कुर्यात्, वसतेश्च व्यवच्छेदनाऽतः परं ददानीत्येकस्यानेकेषां वा कुर्यात्। यत एते दोषा अतोऽयं विधिःअइगमणं एगेणं, अण्णाए पति ट्ठवंति तत्थेव / णाए अणुतोसण त, स्स वयणबितियउट्ठाणमसिवे वा // 662 / / एकेन साधुना तत्स्थानमतिगमनं, यदि सागारिको नाद्याप्युत्तिष्ठते ततः स एतेनाज्ञाते काष्ठमानीय यतो गृहीत तत्रैव प्रतिष्ठापयति। अथ सागारिक उत्थितस्तस्यांग्रे निवेद्यतेयूयं प्रसुप्ता इति कृत्वा नाऽस्माभिरुत्थापिताः, रात्रौ साधुः कालगतः युष्मदीयकाष्ठेन निष्काशितः / साम्प्रतं तदानीयतामुपनीय परिष्ठाप्यतामेवमुक्ते यदसौ भणति ततः प्रमाणम्। अथ स्थापिते सागारिकेन कथमपि ज्ञातं, ततः कुपितस्यानुतोषण विधेयम् / अथवा ज्ञाते कुपितस्यापि तस्य वक्ष्यमाणं वचनं भवति, तदा गुरुभिः स साधुनिष्काशनीय इति शेषः। द्वितीयपदे उत्थितोऽसौ आमः / अशिवगृहीतो वाऽसौ ततस्तत्रैव परिष्ठापयेत्।न सागारिकस्य प्रत्यर्पयेत्। अथ सागारिकवचनं दर्शयतिजइ नीयमणा पुच्छा, आणिज्जति किं पुणो घरं मज्झ। दुगुणो एसऽवराधो, ण एस पाणाऽऽलओ भगवं!॥६६३।। यद्यस्माकमनापृच्छ्य नीतं, ततः किमर्थमिदानीं पुनरपि सदीयगृहमानीयते, एष वृद्धिगुणोऽपराधः, न चैष भगवन् ! मदीय आवा-सः पाणानां मातङ्गानामालयो,यदेवं मृतकोपकरणमत्राऽऽनीतम्। एवमुक्तैर्गुरुभिर्वक्तव्यम्। किमियं सिट्ठम्मि गुरू, पुरतो तस्सेव णिच्छुभति तं तु / अविजाणताण कयं, अम्ह वि अण्णे विणं बेंति // 664 // किमिदं दृष्टान्तजातमभूत, ततः शेषसाधुभिः शय्यातरेण वा गुरूणां शिष्टम्-अमुकेन साधुना अनापृच्छया काष्ठ नीतम्, ततो गुरवस्तस्यैव शय्यातरस्य पुरतस्तं साधु किमनापुच्छया नयसीति निर्भय॑ कैतवेन निष्काशयन्ति, अन्येऽपि साधवो ब्रुवते-अस्माकमप्यविजानतामेवममुना कृतम्। अन्यथा जानन्तो न कर्तु दद्म इति। वारेते अणुछुभणं, इहरा अण्णाएँ ठाति वसहीए। मम णीतो निच्छु भई,कइतव कलहेण वा वितिओ // 665 / / यदि सागारिको वारयति मा निष्काशयेति, नैवं, भूयः करिष्यति, ततोऽनिष्काशन, निष्काश्यते इतरथा अवारयति सागारिकेऽन्यस्यां वसतौ तिष्ठति, द्वितीयश्च साधुः कैतवेन मातृस्थनिन भणति-मम निजको यदि निष्काश्यते ततोऽहमपि गच्छामि, सागारिकेण वा समं कोऽपि कलहयति, ततः सोऽपि निष्काश्यते, स च तस्य द्वितीयो भवति। बृ० ४उ०। (23) असंजतपरिस्थापना / साम्प्रतं तस्मिन्नेव द्वारगाथाद्वितये यो विधिरुक्तः, स सर्वः क्व कर्तव्यः, क्ववान कर्तव्यः? इति प्रतिपादयन्नाहएसा उ विही सव्वा, कायव्या सिवम्मि जो जहिं वसइ। असिवे खमण विवड्डी, काउस्सग्गं च वज्जेज्जा / / 6 / / (एस त्ति) ''अणंतरवक्खायाविही मेरा सीमा आयरणा इति एगट्ठा। (कायव्वा) करेयव्वा, तुशब्दोऽवधारणे, ववहियसम्बन्धओ कायव्यो एवं, कम्मि ? (सिवम्मि त्ति) प्रान्तदेवताकृतोपसर्गवर्जिते, काले, 'जो ' साहू, 'जहिं ' खेत्ते वसइ, असिवे कह? असिवे खमणं विवज्जइ, किं पुण ? जोगविवड्डी कीरइ, 'काउस्सग्गं च वज्जेज्जा' काउस्सग्गो यन कीरइ। साम्प्रतमुक्तार्थोपसंहारार्थ गाथामाहएसो दिसाविभागो, नायव्वो दुविहदव्वहरणं च। वोसिरणं अवलोयण, सुहासुहगईविसेसो य / / 6 / / (एसो ति) अणंतरदारगाहादुगस्सऽत्थो, किं ? दिसाविभागो णायव्वो दिसिविभागो नाम अचित्तसंजयपरिट्ठावणियविहिं पइ दिसिप्पदरिसणं संवेण दिसिपडिवज्जा यणं ति भणिय होइ। अहवा-दिसिविभागो मूलदारगहणं, सेसदारोवलक्खणं चेयं दट्ठव्वं, अचित्तसंजयपरिट्ठावणियं पइ एसो दारविवेओ णायव्वो त्ति भणियं होइ। (दुविहदव्वहरणं चेति) दुविहदव्वं णाम-पुव्वकालगहिय कुसा